Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.68.1

ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः ।
समानयामास तदा विराटस्य धनं महत् ॥ ४.६८.१ ॥

随后,在战斗中获胜后,库鲁族的牛目者带回了毗罗吒的巨大财富。

4.68.2

मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः ।
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ।
भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः ॥ ४.६८.२ ॥

当持国之子全面溃败时,许多库鲁士兵从茂密的森林中走出,在各处聚集,内心因恐惧而惊惶。

4.68.3

मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा ।
क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः ।
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे ॥ ४.६८.३ ॥

他们披头散发,合掌而立。饥渴交迫,困在异乡,神志恍惚,众人合掌说道:“贵由之子啊,我们该怎么办?”

4.68.4

प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम् ।
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः ॥ ४.६८.४ ॥

我们心中因恐惧而退缩,为性命而恳求。阿周那啊,我们是你的仆人;我们无依无靠,因此值得庇护。

4.68.5

अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान् ।
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् ॥ ४.६८.५ ॥

我不杀无依无靠者、受苦者、贫困者、羸弱者、老人、战败者、放下武器者、绝望者,以及合掌者。

4.68.6

भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा ।
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि ॥ ४.६८.६ ॥

你们都去吧,无所畏惧,安心如同不死之人。愿你们借我足尘的光辉,长久地生活在大地上。

4.68.7

तस्य तामभयां वाचं श्रुत्वा योधाः समागताः ।
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् ॥ ४.६८.७ ॥

众武士听到他那无畏的话语,便以长寿、名声与荣耀的祝福来祝福他。

4.68.8

ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः ।
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् ॥ ४.६८.८ ॥

于是俱卢人返回,行祭者升往天界。众人从各方离去,先向达那闼耶行礼。

4.68.9

एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति ॥ ४.६८.९ ॥

如此,他们蒙他赐予安全,便向俱卢方向离去。

4.68.10

स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता ।
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः ॥ ४.६८.१० ॥

他完成了至高高贵的功业,杀灭了敌人,独自击溃了俱卢军,如夏末的大云般离去。

4.68.11

तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन् ॥ ४.६८.११ ॥

大王啊,那杀敌者拥抱了那位摩差王之子,说出了这些话。

4.68.12

पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति ।
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः ॥ ४.६८.१२ ॥

孩子,你知道所有的般度之子都住在你父亲身边。进城之后不要提及他们,免得那摩差王惊惧而灭亡。

4.68.13

मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः ।
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि ॥ ४.६८.१३ ॥

那支库鲁军队是我战胜的,那些牛也是我从敌人手中夺回的。现在你可以进城,随你的意愿,亲口讲述你所做的事迹。

4.68.14

यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः ।
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् ॥ ४.६८.१४ ॥

你所做之事无法阻止,而我也没有能力做出这样的事。萨维亚萨钦啊,在你告诉我之前,我不会在父亲面前提到你。

4.68.15

स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम् ।
श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः ॥ ४.६८.१५ ॥

他迅速战胜敌军,夺走了库鲁人的全部财富,然后又回到火葬场,走近那棵沙弥树,身上带着箭伤站立在那里。

4.68.16

ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात ।
तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः ॥ ४.६८.१६ ॥

于是那只如火般耀眼的大猴(旗帜)与众生一同飞向天空;这样,幻术便成就了。随后他又把旗帜与狮子重新系到战车上。

4.68.17

निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा ।
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा ॥ ४.६८.१७ ॥

放下那件兵器后,这位摧毁战阵的勇士也放下了库鲁诸最优者的箭袋与旗帜;随后,马特斯耶王子与以那位高尚的戴冠者为御者,前往进入城中。

4.68.18

पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता ।
विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य।
बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम् ॥ ४.६८.१८ ॥

半陀在完成至高的英勇之举并杀死敌人之后,再次换上那身装束,重新握住乌塔罗的缰绳。随后,他化作布里汗纳拉的模样,动身进入摩蹉国的城市。

4.68.19

ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः ।
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः ॥ ४.६८.१९ ॥

于是战败的俱卢人转身返回,寻求和平。彼此相望之后,他们离去了,衣物已被夺走。

4.68.20

पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् ।
राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः।
गोकुलानि महाबाहो वीरगोपालकैः सह ॥ ४.६८.२० ॥

半陀到达道路上,说出这番话:"王子啊,请接管这一切财富,以及牛群与英勇的牧人们,大臂的人啊。"

4.68.21

ततोऽपराह्णे यास्यामो विराटनगरं प्रति ।
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः। ॥ ४.६८.२१ ॥

然后在下午,我们将朝毗罗吒城前进,安抚马匹,让它们饮水并为它们洗浴。

4.68.22

गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया ।
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ ४.६८.२२ ॥

你所派遣的使者,牧人们,请快快前去,在城中宣告喜讯,并宣布你的胜利。

4.68.23

उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः ।
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम ॥ ४.६८.२३ ॥

于是乌塔罗急忙命令使者们:"依照阿周那的话语,你们宣告我的胜利吧。"

4.68.24

मया जिता सा ध्वजिनी कुरुणं ।
मया च गावो विजिता द्विषद्भ्यः।
एवं तु कामं नगरं प्रविश्य ।
मयाऽऽत्मना कर्म कृतं ब्रवीत ॥ ४.६८.२४ ॥

那支俱卢军队是我战胜的,牛群也是我从敌人手中夺回的。这样,我随心所欲地进入城中,亲自完成了这件事,他说。