摩诃婆罗多 · 章 4.69
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.69.1
स विजित्य धनं चापि विराटो वाहिनीपतिः ।
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥ ४.६९.१ ॥
维罗吒,军队统帅,获胜并得到财富,与四位般度之子欢喜地进入了城市。
4.69.2
जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः ।
अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥ ४.६९.२ ॥
在战场上击败了特里伽尔塔人,并夺回所有牛群后,这位大王在光辉中与普利塔之子一同闪耀。
4.69.3
तमासनगत वीरं सुहृदां प्रीतिवर्धनम् ।
तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ॥ ४.६९.३ ॥
臣民与婆罗门一同从四面八方聚集,侍奉坐在王座上的那位英雄,他增添了朋友们的喜悦。
4.69.4
सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् ।
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥ ४.६९.४ ॥
受到朝臣敬重的马特耶王回礼致意,随即遣散了婆罗门和臣民。
4.69.5
ततः स राजा मात्स्यानां विराटो वाहिनीपतिः ।
प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम्।
उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ॥ ४.६९.५ ॥
于是摩蹉国王兼军队统帅毗罗吒走进装饰着数百名女子的美丽内宫,在那里不见优怛罗,便问道:“他去哪里了?”
4.69.6
आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥ ४.६९.६ ॥
在屋内,妇女、少女和内宫侍从欢喜地告诉他,俱卢人已夺走了牛群财富。
4.69.7
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नलासहायश्च निर्यातः पृथिवींजयः ॥ ४.६९.७ ॥
他怒气冲冲地想要击败他们,独自一人以极大的勇气出发,以大男(Bṛhannalā)为御者,这位征服大地者。
4.69.8
उपयातानतिरथान्द्रोणं शान्तनवं कृपम् ।
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥ ४.६९.८ ॥
前来的大车战士们:德罗纳、山塔努之子毗湿摩、克里帕、迦尔纳、难敌以及德罗纳之子——这六位大车战士。
4.69.9
ततो विराटः परमाभितप्तः ।
पुत्रं निशम्यैकरथेन यातम्।
बृहन्नलासारथिमाजिमर्दनं ।
प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥ ४.६९.९ ॥
于是毗罗吒极为忧虑,听说儿子独乘一车,以大男为御者出发,便向所有重要的大臣们说了话。
4.69.10
गवां शतसहस्राणि उभिभूय ममात्मजम् ।
कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः ॥ ४.६९.१० ॥
他们夺走了数十万头牛,那些精通战争的俱卢人正在把我的儿子带走。
4.69.11
तस्माद्गच्छतु मे योधा बलेन महता वृताः ।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥ ४.६९.११ ॥
因此,让我那些在大军护卫下的战士前去救援乌塔罗——那些未被三摩偈多人所伤的人。
4.69.12
हयांश्च नागांश्च रथांश्च शीघ्रं ।
वादित्रसङ्घांश्च ततः प्रभूतान्।
प्रस्थापयामास सुतस्य हेतो-
र्विचित्रचित्राभरणोपपन्नान् ॥ ४.६९.१२ ॥
他迅速派出了马匹、象群与战车,以及大批乐队——他们身披各色光彩夺目的饰物——为了他的儿子。
4.69.13
एवं स राजा मात्स्यानां महानक्षोहिणीपतिः ।
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥ ४.६९.१३ ॥
摩差国王如是,身为大阿刹婆匿军之主,即刻下令四支军队出发。
4.69.14
कुमारमाशु जानीत यदि जीवति वा नवा ।
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ॥ ४.६९.१४ ॥
速查那王子是否还活着。那随他驾车而去的阉人,我想他已不在人世。
4.69.15
तमब्रवीद्धर्मसुतो विराट-
मार्तं विदित्वा कुरुभिः प्रतप्तम्।
बृहन्नला सारथिश्चेन्नरेन्द्र ।
परे न नेष्यन्ति तवाद्य गाश्च ॥ ४.६९.१५ ॥
达摩之子对被俱卢人折磨而忧伤的毗罗吒说:'人主啊,若大男是你的御者,今日他人将不会夺走你的牛群。'
4.69.16
सर्वान्महीपान्सहितान्कुरूंश्च ।
तथैव देवासुरनागयक्षान्।
अलं विजेतुं समरे सुतस्ते ।
अनुष्ठितः सारथिना हि तेन ॥ ४.६९.१६ ॥
你的儿子能在战场上战胜所有诸王、联合的俱卢人,以及天神、阿修罗、龙和夜叉,他已与那位御者共同行动。
4.69.17
सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथंचन ॥ ४.६९.१७ ॥
俱卢人及其他诸地之主,听闻三伽多被击败之后,无论如何也不会坚持下去。
4.69.18
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ॥ ४.६९.१८ ॥
于是从北方派出的你的快捷使者抵达毗罗吒城,当时便宣告了胜利。
4.69.19
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् ।
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ॥ ४.६९.१९ ॥
他们向被大臣围绕的国王报告了至高的胜利、俱卢族的败北,以及乌陀罗即将归来。
4.69.20
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।
उत्तरः सह सूतेन कुशली च परंतपः ॥ ४.६९.२० ॥
所有牛群都已被夺得,俱卢族已被击败;使敌人灼烧的乌陀罗与御者一同平安无恙。
4.69.21
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः ।
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः ॥ ४.६९.२१ ॥
幸而您的牛群已被夺回,俱卢族已被击败;幸而您那位获胜的儿子,王中之雄牛,已有消息传来。
4.69.22
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् ।
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला ॥ ४.६९.२२ ॥
您的儿子战胜了俱卢族,我认为并不奇怪;御者为布尔哈纳拉的人,胜利必然属于他。
4.69.23
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः ।
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ॥ ४.६९.२३ ॥
天神之主的御者摩多梨,以勇武著称,以及克里希纳的御者,都不及布尔哈纳拉。
4.69.24
ततो विराटो नृपतिः संप्रहृष्टतनूरुह ।
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः।
संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ॥ ४.६९.२४ ॥
于是国王毗罗吒,喜悦得汗毛竖起,听闻这位威力无边的王子取得胜利后,便用财富与宝石全面地款待了那些使者……
4.69.25
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च ।
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ॥ ४.६९.२५ ॥
随从退下后,闻听使者之言,因优陀罗的胜利而欢喜的毗罗吒回答道。
4.69.26
राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः ।
पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः ॥ ४.६९.२६ ॥
愿王道以旗帜装饰,愿处处以花供养诸神。
4.69.27
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः ।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥ ४.६९.२७ ॥
愿诸王子、主要武士、盛装的妓女与一切乐器,都去迎接我的儿子。
4.69.28
भवन्तु ते लब्धजये सुते मे ।
पौराश्च मर्त्याश्च परे च नार्यः ।
ते शुक्लवस्त्राः प्रभवन्तु मार्गे ।
सुगन्धमाल्याभरणाश्च नार्यः ॥ ४.६९.२८ ॥
为我这获胜的诸子,愿城中居民、众人及其他女子身着白衣,在路上前行;愿以香花与饰物庄严的女子也同行。
4.69.29
भजन्तु सर्वा गणिकाः सुतं मे ।
नार्यश्च कन्याः सहसैनिकाश्च ।
स्वलंकृतास्ताः सुभगाः सुवेषाः ।
पुत्रस्य पन्थानमनुव्रजन्तु ॥ ४.६९.२९ ॥
愿诸妓女都侍奉我的儿子;愿妇人、少女与士兵一同,盛装、美丽、衣著华丽,随从我儿的路途而行。
4.69.30
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम् ।
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम् ॥ ४.६९.३० ॥
愿击钟与击鼓之人急速乘象,于所有十字路口宣告我的胜利。
4.69.31
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता ।
सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम् ॥ ४.६९.३१ ॥
身披众多饰物的乌多罗与少女们一同,前去迎接赢得战役的女友大舞。
4.69.32
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन ।
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ॥ ४.६९.३२ ॥
众城民闻那位大德国王之言,欢喜地照做,手中持着吉祥卍字的标记。
4.69.33
मूताश्च सर्वे सहमागधाश्च ।
हृष्टा विराटस्य पुरे जनौघाः ।
भेर्यश्च तूर्याणि च वारिजाश्च ।
वेपैः परार्ध्यैः प्रमदाजनाश्च ॥ ४.६९.३३ ॥
毗罗吒城中,所有的歌者与赞颂者,欢欣的人群,鼓、号角与法螺,以及盛装的女子们都在。
4.69.34
वन्दिप्रवादाः पणवादिकाश्च ।
तथैव वाद्यानि च वंशशब्दाः ।
कांस्यं सतालं मधुरं च गीत-
मादाय नार्यो नगरान्निरीयुः ॥ ४.६९.३४ ॥
众女手持赞颂者的歌咏、鼓与各种乐器,吹奏的笛声、合着节拍的铜钹和甜美的歌曲,从城中走了出来。
4.69.35
प्रत्युद्ययुः पुत्रमनन्तवीर्यं ।
ते ब्राह्मणाः शान्तिपराः प्रधानाः ।
स्वाध्यायवेदाध्ययनक्रमज्ञाः ॥ ४.६९.३५ ॥
那些专注于寂静、精通自习与吠陀诵读次第的首要婆罗门,前去迎接具无限威力的王子。
4.69.36
स्वस्तिक्रियागीतजपप्रधानाः ॥ ४.६९.३६ ॥
精于吉祥仪式、歌咏与持诵。