摩诃婆罗多 · 章 4.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.7.1
स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत् ।
इमानि पुरुषव्याघ्र आयुधानि परंतप।
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ ४.७.१ ॥
国王到达王都后对阿周那说:人中之虎,焚烧敌人者啊,这些武器应放在何处,又如何保管?
4.7.2
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि ।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ ४.७.२ ॥
亲爱的,若我们持械进入城中,必定会使这些人惊恐,毫无疑问。
4.7.3
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम् ।
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ॥ ४.७.३ ॥
人中之虎啊,甘提婆之弓闻名三界;哦,尊者,我们怎能瞒过持国之子?
4.7.4
यदीद धनुरादाय चरेम सजने पुरे ।
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ॥ ४.७.४ ॥
若我们手持此弓在人口稠密的城中行走,人们很快就会认出我们,这毫无疑问。
4.7.5
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च ।
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ॥ ४.७.५ ॥
即便我们中有一人被认出,待约定期限过后,我们仍将再入森林十二年。
4.7.6
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा ।
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ॥ ४.७.६ ॥
因此,我们应将所有兵器藏于别处,然后进入这座殊胜之城;如此方可妥善成事。
4.7.7
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः ।
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ॥ ४.७.७ ॥
阿周那——大名远扬、杀敌英雄者——听了阿阇多设特鲁的话,便对那位法之子说道。
4.7.8
इयं वने मनुष्येन्द्र महती दृश्यते शमी ।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ ४.७.८ ॥
人主啊,在森林中可以看到这棵大沙密树,枝条可怖,难以攀登,就在火葬场附近。
4.7.9
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते ।
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ॥ ४.७.९ ॥
这棵树生长在道路之外,人们不去那里;乌鸦聚集在它宽阔而茂密的枝条上。
4.7.10
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ॥ ४.७.१० ॥
我看到这棵难以攀登的沙密树,仿佛被情意系缚着。
4.7.11
समीपे च श्मशानस्य गृहं नास्य विशेषतः ।
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ॥ ४.७.११ ॥
因为它靠近火葬场,尤其是它旁边没有房屋,国王啊,让我们把武器挂在它上面,然后前往城中。
4.7.12
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ॥ ४.७.१२ ॥
还有,普利塔之子啊,人们中没有谁会在它附近走动。
4.7.13
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् ।
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् ।
अस्यामायुधमासज्य गच्छाम नगरं वयम् ॥ ४.७.१३ ॥
用弓做成一个覆盖着皮、发和骨的人形,如同上吊之人,用弓弦缠成绞索,把兵器挂在其上,我们便前往城中。
4.7.14
एवं परिहरिष्यन्ति मनुष्या वनचारिणः ।
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ॥ ४.७.१४ ॥
如此,林中行走的人将远离此处,而在此处有些人也不会察觉这件兵器。
4.7.15
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः ।
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ॥ ४.७.१५ ॥
对这位心地正直的国王如此说完,财主(阿周那)便开始收藏兵器,婆罗多族的雄牛啊。
4.7.16
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः ।
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ॥ ४.७.१६ ॥
将它们全部捆扎起来——每样五件,如同山峰,连同箭袋和光芒无比的宝剑。
4.7.17
ततो युधिष्ठिरो राजा सहदेवमुवाच ह ।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ ४.७.१७ ॥
于是国王坚战对偕天说:“勇士啊,爬上这棵沙弥树,把我们的兵器放在这里。”
4.7.18
इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् ।
अब्रवीदायुधानीह निधातुं भरतर्षभः ॥ ४.७.१८ ॥
如此吩咐他之后,普利塔之子(坚战)又对财主(阿周那)说,要在此处存放兵器,婆罗多族的雄牛啊。
4.7.19
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् ।
निवातकवचांश्चापि पौलोमांश्च परंतपः ।
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ॥ ४.७.१९ ॥
这位敌人的焚烧者,独乘一车,以此征服了诸天、人类、毕舍遮、蛇神、罗刹,以及尼婆多迦婆查、补罗摩和难以制服的迦罗迦耶,一切众生。
4.7.20
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ।
तदुदग्रं महाघोरं सपत्नगणमूदनम्।
अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ॥ ४.७.२० ॥
这位俱卢之乐征服了繁荣的诸国及其他地方。帕尔塔使那张猛烈、极其可怕、能摧毁敌军的弓失去了弦;可怖的甘狄拔也是如此。
4.7.21
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ॥ ४.७.२१ ॥
这位英雄、敌人的焚烧者以此守护了俱卢之野;当那最好的弓被拉开弦后,这位诸王中最优秀者便将它作为寄存之物放下。
4.7.22
धर्मपुत्रो महातेजाः सर्वलोकवशंकरम् ।
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ॥ ४.७.२२ ॥
这位光辉伟大的法之子,将那张能够征服一切世界、形如蛇身盘曲、以宝石与黄金装饰的弓放下。
4.7.23
वित्रासनं दानवानां राक्षसानां च नित्यशः ।
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ॥ ४.७.२३ ॥
光辉伟大的般度之子拉开了那张弓中之宝,它时常令檀那婆与罗刹心生恐惧。
4.7.24
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ॥ ४.७.२४ ॥
昔日,怖军以此在战斗中征服了般遮罗人;在征服四方之时,他独自一人击退了许多敌人。
4.7.25
निशम्य यस्य विष्कारं विद्रवन्ति रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ ४.७.२५ ॥
在战场上听到他的弓弦之声,敌人便四散奔逃,如同断裂的山岳或霹雳炸裂之声。
4.7.26
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् ।
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ॥ ४.७.२६ ॥
他战胜了信度王,怒而擒之,又在乾陀摩陀那山中因盛怒而将其杀死。
4.7.27
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः। ॥ ४.७.२७ ॥
赢得神圣的苏干迪迦花的那位般度之子。
4.7.28
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ ४.७.२८ ॥
毗摩娑那卸下了他那张弓的弦,此弓触感如因陀罗之雷霆,并以金刚与黄金装饰。
4.7.29
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः ।
उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ॥ ४.७.२९ ॥
法王坚战再次召唤那拉库拉,说道:“你想在战斗中杀死所有敌人。”
4.7.30
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् ।
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ॥ ४.७.३० ॥
他以如沙尔nga与甘提瓦之弓的金制神弓——堪比因陀罗之弓般卓越——征服了苏罗咤。
4.7.31
तवानुरूपं सुकृतं चापमेतदलङ्कृतम् ।
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ ४.७.३१ ॥
这把弓做工精良、装饰华美,与你相配。请解开弓弦的绳扣,把弓拿来收起。
4.7.32
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः ।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥ ४.७.३२ ॥
般度之子以此弓征服了西方,此弓属于玛德丽之子——那位大臂、面色如铜、言语简练者。
4.7.33
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥ ४.७.३३ ॥
在家族与容貌上无人能与他相比,因此他被称为那库拉。
4.7.34
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत् ।
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ॥ ४.७.३४ ॥
法之子再看向萨诃提婆,这位在战场上闪耀者谈到了羯陵伽、南方人和摩揭陀人。
4.7.35
येनैव शत्रून्समरे अधाक्षीररिमर्दन ।
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ ४.७.३५ ॥
摧敌者啊,请把你在战场上焚灭敌人的那把弓拿来。解开弓弦的绳扣,把弓拿来收起。
4.7.36
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ ४.७.३६ ॥
那位行为端正的主人以此弓征服了南方,英雄萨诃提婆便解去了这件兵器的弓弦。
4.7.37
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् ।
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि ।
आयुधानि कलापांश्च गदाश्च निदधुः सह ॥ ४.७.३७ ॥
他们把闪亮、坚固、极为锋利的剑,镶金柄的兵器,各式剃刀头与铁制箭镞,弯刀和箭矢,武器、箭袋与铁杵全都放在一起。
4.7.38
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः ।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ ४.७.३८ ॥
于是制伏敌人的法王对偕提婆说:“勇士啊,爬上这棵沙密树,把我们的武器放在这里。”
4.7.39
इदं गोमृगमभ्याशे गतसत्वमचेतनम् ।
एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ॥ ४.७.३९ ॥
附近躺着这具牛鹿的尸体,没有生命,毫无知觉。勇士啊,把它割开,用它把弓包裹起来。
4.7.40
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् ।
शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ॥ ४.७.४० ॥
被如此吩咐后,大臂的偕提婆照所说的去做:他迅速爬上沙密树,把弓包裹起来。
4.7.41
शीतवातातपभयाद्वर्पत्राणाय दुर्जयः ।
तानि वीरो यथा जानन्निरावाधानि सर्वशः ।
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ॥ ४.७.४१ ॥
出于对寒冷、风和阳光的担忧,也为了防雨,这位不可战胜的勇士熟知它们的性质,反复将它们严密包裹,做成良好的外罩,使其各处都不受损伤。
4.7.42
यत्र चापश्यत स वै तिरोवर्पाणि वर्पति ।
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ॥ ४.७.४२ ॥
他看到雨水在隐蔽处落下的地方,便用坚固的绳索把它们紧紧地四面捆扎起来。
4.7.43
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम् ।
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ॥ ४.७.४३ ॥
于是远处有一具尸体,靠拾取遗穗度日,因绝食至死而干枯,只剩筋、皮与骨。
4.7.44
तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः ।
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ॥ ४.७.४४ ॥
般度之子们将其带来,绑在弓的中央。众人善于设计,笑着说道。
4.7.45
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः ।
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ॥ ४.७.४५ ॥
因这具被捆绑之尸的恶臭,林中居民将远远避开这棵沙密树。
4.7.46
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः ।
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ॥ ४.७.४६ ॥
于是心地正直的大王坚战说道:“智者啊,般度之子,用绳子把它好好捆起来。”
4.7.47
यानि चात्र विशालानि रूढमूलानि मन्यसे ।
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ॥ ४.७.४७ ॥
在这里你认为那些根深大树,把这具婆罗门的尸体绑在它们之上。
4.7.48
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ॥ ४.७.४८ ॥
萨哈德瓦听后,便将那具尸体四周绑紧。
4.7.49
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च ।
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ॥ ४.७.४९ ॥
坚战清净身心,在心中向梵天、赐恩的因陀罗、俱毗罗、伐楼那和风神致敬。
4.7.50
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च ।
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा ।
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ॥ ४.७.५० ॥
楼陀罗、阎摩、毗湿奴、月神与日神、法本身、大地、虚空、诸方与隅方、诸婆苏、诸摩录多,以及极为光明的火神。
4.7.51
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि ।
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ॥ ४.७.५१ ॥
我向此处所述昼行与夜行的众生致礼,又向持守誓愿的他们深深拜伏,因此我投奔于他们的庇护之下。
4.7.52
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै ।
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ॥ ४.७.५२ ॥
此处所有强大的兵器,我将托付于大天神(摩诃提婆)之侧、风神之侧,以及树木与山岳之侧。
4.7.53
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके ।
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ॥ ४.७.५३ ॥
我在月神、日神与风神面前托付此物。待第十三年圆满之时,应归还于我或贝尔塔(阿周那)。
4.7.54
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः ।
आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति।
अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ॥ ४.७.५४ ॥
这不应交给怖军,因为狼腹(怖军)正在愤怒。因愤慨,他时常暴怒,并因怒而生的嫉妒,可能在时限未满之前攻击持国之子们。
4.7.55
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा ।
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ॥ ४.७.५५ ॥
我们将再次进入林中流放;然而当时限完全届满时,我们将诛杀持国之子。
4.7.56
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः ।
मदायत्तमिदं सर्वं जीवितं च न संशयः ॥ ४.७.५६ ॥
财富、法义、欲望、名誉与荣耀——这一切都取决于我,生命亦然;此无疑问。
4.7.57
वैशंपायन उवाच ।
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम्।
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ॥ ४.७.५७ ॥
毗湿摩衍那说:他们向诸神行礼,绕沙密树右绕之后,众兄弟一同前往城中。
4.7.58
आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप ।
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ॥ ४.७.५८ ॥
啊,敌人的摧毁者!他们一再向牧牛人、牧羊人和农夫显现,来到了城市附近。
4.7.59
अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके ।
बहुकालपरीणामा मृत्योस्तु वशमेयुपी ।
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ॥ ४.७.५९ ॥
我们的母亲就在这附近,已经一百八十岁,被漫长的岁月磨损,已落入死亡之手;然而按照家族的习俗,她尚未举行火葬之礼。
4.7.60
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया ।
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ॥ ४.७.६० ॥
若有人偶然在那地方遇见他们,明法之人便对他说:我们的家族传统并非如此。
4.7.61
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् ।
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ॥ ४.७.६१ ॥
他们欢喜地大声宣告,使四方皆回响:我们这位为悲痛所困的母亲,已在此升天了。
4.7.62
वने विचरमाणानां लुब्धानां वनचारिणाम् ।
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ॥ ४.७.६२ ॥
我们这些在林中游荡的猎人,有此家族传统,是古时先祖所遵行的。
4.7.63
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ॥ ४.७.६३ ॥
如此行了善事,并四方宣告之后,婆罗多的毗摩然与阿周那,以及摩德利的两子,也便从那里离去。
4.7.64
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा ।
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ॥ ४.७.६४ ॥
坚战与黑天女,以及那纤腰的王后,于是依照所约定的,那时进入了城中。
4.7.65
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा ।
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ॥ ४.७.६५ ॥
直接居于摩差国王毗罗吒身边,并在国中隐居度过第十三年。
4.7.66
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः ।
जयो जयेशो विजयो जयत्सेनो जयद्बलः। ॥ ४.७.६६ ॥
因此坚战为他们起了隐秘的名字:胜、胜主、胜利、胜军、胜力。
4.7.67
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ।
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्। ॥ ४.७.६७ ॥
遇到危难时,我们就以这些名字互相称呼。随后,他们依照誓言,进入了那座大城。
4.7.68
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ ४.७.६८ ॥
在国中度过第十三年,隐姓埋名而居。