Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.70.1

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः ।
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ॥ ४.७०.१ ॥

送走军队以及盛装的少女和妓女之后,大王摩差国王心中欢喜,说道:

4.70.2

व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया ।
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ॥ ४.७०.२ ॥

三摩多罗与众俱卢都已被我在战场上击败。婆罗门啊,让我们欢喜地进入内宫,玩掷骰子吧。

4.70.3

अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय ।
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ॥ ४.७०.३ ॥

桑德里,把骰子拿来,并准备好座位;拿着扇子,紧挨着我站在旁边吧。

4.70.4

तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत ।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥ ४.७०.४ ॥

般度之子见他如此说,便答道:“我们听说,不应与心中欢喜的赌徒玩骰子。”

4.70.5

न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।
प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते।
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ॥ ४.७०.५ ॥

今日你心中欢喜,我不愿与你玩骰子;然而我愿意令你满意,若你喜欢,就这样吧。人主啊,我不想在众人的集会上玩掷骰子。

4.70.6

स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन ।
न मे किंचित्त्वया कार्यमन्तरेणापि देवितम् ॥ ४.७०.६ ॥

妇女、牛、黄金以及其他任何财物——即使你不赌博,我也不需要你的任何东西。

4.70.7

किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥ ४.७०.७ ॥

王中之王啊,授人尊荣者,有诸多过失的赌博于你有何益处?赌博有许多过失,因此应当远离它。

4.70.8

श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः ।
स राज्यं धनमक्षय्यं पणमेकममन्यत ॥ ४.७०.८ ॥

无论是听说还是亲眼所见,法王坚战都把一次赌注视为不尽的王国与财富。

4.70.9

कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान् ।
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ॥ ४.७०.९ ॥

对于心爱的妻子黑公主和如同天神的兄弟们,那个赌徒般权的般度之子无疑日后会悔恨。

4.70.10

विविधानां च रत्नानां धनानां च पराजये ।
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ॥ ४.७०.१० ॥

输掉各种珠宝与财富时,所渴望之物便会毁灭,随之而来的是尖刻的言辞。

4.70.11

अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम् ।
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ॥ ४.७०.११ ॥

对智者而言,一日之内失去财富总是不可信的。他在赌博中输光了一切,所以我不喜欢赌博。

4.70.12

अथवा मन्यसे राजन्दीव्याव यदि रोचते ।
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ॥ ४.७०.१२ ॥

或者,国王啊,如果你愿意,我们就来玩吧。这两位人中之杰以言语如此相互邀约后,便开始游戏。

4.70.13

प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ॥ ४.७०.१३ ॥

骰子游戏进行之时,摩蹉王对般度之子说道。

4.70.14

पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ।
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ॥ ४.७०.१४ ॥

看哪,我的儿子在战斗中击败了这样的俱卢人。俱卢人都是大战车武士,即使诸神也难以战胜。

4.70.15

ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः ।
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ॥ ४.७०.१५ ॥

于是法王坚战在赌局中对摩蹉王说:“幸运的是,你的牛群已被赢得,俱卢人已被击败。”

4.70.16

अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत् ।
यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते ॥ ४.७०.१६ ॥

若优陀罗能战胜俱卢人,我认为那是最奇异之事;御者为大舞的人,终究会被击败。

4.70.17

ततो विराटः क्षुभितो मन्युना च परिप्लुतः ।
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ॥ ४.७०.१७ ॥

于是毗罗吒心神激荡,怒气充盈,愤怒地立即对那位游方者说出了这些话。

4.70.18

तादृशेन तु योधेन महेष्वासेन धीमता ।
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ॥ ४.७०.१८ ॥

那样的勇士、伟大的弓手、明智之人在战斗中击败了俱卢人;婆罗门啊,这有什么奇异的?

4.70.19

समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि ।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ ४.७०.१९ ॥

卑劣的婆罗门之亲!你把我的儿子与一个阉人相提并论来赞美他。你不知道什么该说、什么不该说;你一定是在轻慢我。

4.70.20

समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि ।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥ ४.७०.२० ॥

卑劣的婆罗门之亲!你把我的儿子与一个阉人相提并论来赞美他。你不知道什么该说、什么不该说;你一定是在轻慢我。

4.70.21

पुमांसो बहवो दृष्टाः सूताश्च बहवो मया ।
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ॥ ४.७०.२१ ॥

我见过许多男子,也见过许多车夫;但从未见过一位既是车夫又是战士、以勇武作战的人。

4.70.22

विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत् ।
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ॥ ४.७०.२२ ॥

不可对国王做令其不快之事,应说顺耳悦人的话;对国王做令其不快之事的人,永远不会在幸福中兴盛。

4.70.23

वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे ।
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि ॥ ४.७०.२३ ॥

因为我们是朋友,我原谅你这全部的冒犯;如果你想活命,就不要再说这样的话。

4.70.24

ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः ।
बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः ॥ ४.७०.२४ ॥

于是,增益俱卢族的Kaṅka(即坚战)笑着又说:"如同因陀罗的人啊!请在城中宣告,这胜利属于布利汉纳拉。"

4.70.25

उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति ।
निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम।
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ॥ ४.७०.२५ ॥

乌塔罗必定已担任御者。某种征兆已经出现,我的推断也很坚定,因为,王中之王啊,我知道事情不会有别的结果。

4.70.26

कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः ।
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ॥ ४.७०.२६ ॥

俱卢人威力巨大,即便诸神也难以战胜,即使有月神、伐楼那和阿底提耶们,即使有夜叉之主与火神相助。

4.70.27

यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ ।
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ॥ ४.७०.२७ ॥

在那里有珊陀奴之子毗湿摩、难以战胜的德罗纳与迦尔纳,还有马嘶、毗迦尔纳、苏摩达多与胜车。

4.70.28

भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान् ।
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ॥ ४.७०.२८ ॥

薄利室罗婆、沙罗、薄利、勇猛的水海、难以抵挡的难敌、以及恶军与毗维舍提。

4.70.29

वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ ।
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ॥ ४.७०.२९ ॥

毗利沙塞那、马速、风速与善光、巴赫利迦、苏罗塞那、欲战者,以及炙热敌人的英雄。

4.70.30

सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् ।
अन्ये च बहवः शूरा नानाजनपदेश्वराः ॥ ४.७०.३० ॥

苏跋罗之子沙恭尼、光明军、沙尔瓦王,以及其他众多英雄,乃诸多国度的统治者。

4.70.31

कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः ।
सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः।
अन्ये चैव महावीर्या राजपुत्रा महारथाः ॥ ४.७०.३१ ॥

与克里巴及首席师长同在的俱卢诸王,弓剑在手的车战勇士与车阵统帅,以及其他极具勇力的王子与大车将。

4.70.32

मरुद्गणैः परिवृतः साक्षादपि पुरंदरः ।
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ॥ ४.७०.३२ ॥

即便因众风神环绕的因陀罗亲临,怒而来战,也无法战胜由毗湿摩、德罗纳等人守护的那支军队。

4.70.33

कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति ।
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ॥ ४.७०.३३ ॥

除了布里汉纳拉,还有谁敢与他交战?他的臂力无人能及。

4.70.34

अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते ।
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ॥ ४.७०.३४ ॥

看到如此激烈的战斗,谁的喜悦会增长?这世间、天界或大地上,可有这样的人?

4.70.35

तेन संक्षुभितो राजा दीर्यमाणेन चेतसा ।
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम् ॥ ४.७०.३५ ॥

国王因此心神激荡、肝肠寸断,并未认出坚战,便说出了严厉的话。

4.70.36

कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम ।
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ॥ ४.७०.३६ ॥

啊,钦卡,再生者中最优秀的人,不要对我说违逆的话。你已被多次制止,却仍不收敛你的言辞。

4.70.37

नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ।
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ॥ ४.७०.३७ ॥

“若无约束者,无人会行法”——如此想着,激动的国王用骰子棍狠狠地打了他。

4.70.38

तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम् ।
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ॥ ४.७०.३८ ॥

举起他那如蛇王德叉迦盘绕般的右臂,愤怒的毗罗吒瞄准右耳击打了他。

4.70.39

मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन् ।
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ॥ ४.७०.३९ ॥

愤怒地斥责坚战:“不要这样!”他狠狠地打在他脸上,那一击使血流了出来。

4.70.40

अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः ।
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ॥ ४.७०.४० ॥

被毗罗吒用骰子棍击打的国王坚战,那大臂者,默默坐着,望着深感悲痛的黑天女(德罗波蒂)。

4.70.41

तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा ।
प्रावर्तत महाबाहोरभिघातान्महात्मनः ॥ ४.७०.४१ ॥

那时,由于那一击,这位大臂大德者的头上流出了如红莲般的血。

4.70.42

तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत् ।
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ॥ ४.७०.४२ ॥

为使血不落到地上,普利塔之子阿周那用双手接住了它;这位法魂者望向站在身边的德罗波蒂。

4.70.43

सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा ।
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ॥ ४.७०.४३ ॥

德卢帕达之女理解丈夫的痛苦,顺从他的心意,她既忧伤、又恐惧、又愤怒。

4.70.44

बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी ।
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ॥ ४.७०.४४ ॥

她艰难地忍住泪水,为丈夫的福祉着想,迅速用细薄的上衣接住了血。

4.70.45

निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता ।
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् ।
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ॥ ४.७०.४५ ॥

萨朗德利用布捂住血,因悲痛而迷乱,她拿起金器皿擦去了那血。啊,王中之王,那时德卢帕达之王的女儿擦去了坚战的血。

4.70.46

सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते ।
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ॥ ४.७०.४६ ॥

萨朗德利啊,为何要用上衣接这血?啊,大眼睛的女子,原因是什么?请如实告诉我。

4.70.47

रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले ।
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति ॥ ४.७०.४७ ॥

迦迦的血滴落在地上有多少滴,你的国土就将遭受多少年的干旱。

4.70.48

एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया ।
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ॥ ४.७०.४८ ॥

啊,马特亚之王,正因如此,我用上衣接住了迦迦的血,愿你不遭毁灭。

4.70.49

यतीशं यो विहन्येत तस्यायुर्विनशिष्यति ।
यो यतीशं नियम्येत सहस्रं यातना यमे ॥ ४.७०.४९ ॥

谁击伤苦行者之主,他的寿命便会终结。谁拘禁苦行者之主,他在阎摩的国度中将遭受千般折磨。

4.70.50

यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत ।
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ॥ ४.७०.५० ॥

苦行者身上显露多少血,拾起多少尘土,居于祖先世界的先人便有多少坠落下去。

4.70.51

इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा ।
मया तव हितार्थाय त्वयि प्रणयकारणात् ॥ ४.७०.५१ ॥

知道此事后,毗罗吒之主啊,我用布将血接住,为了你的利益,出于对你的爱。