Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 4.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.72.1

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि ।
आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत् ॥ ४.७२.१ ॥

町の人々、女性たち、田舎の人々に敬われて、彼は後宮の門に着き、今、父に知らせた。

4.72.2

ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः ।
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत् ॥ ४.७२.२ ॥

すると門番は近づき、礼拝して合掌し、勝利の祝福を述べてこの言葉を言った。

4.72.3

राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः ।
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः ॥ ४.७२.३ ॥

偉名の王よ、あなたの息子は敵を打ち破って帰還した。ウッタラは御者とともに門で止められて立っている。

4.72.4

कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः ।
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः ॥ ४.७२.४ ॥

王子は主要な戦士と遊女に囲まれ、町の人々や田舎の人々を伴って、勝利の祝福を受けている。

4.72.5

ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् ।
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः ॥ ४.७२.५ ॥

すると喜んだ王は侍従長に言った。「二人をすぐに中へ通せ。私は彼らに会いたい。」

4.72.6

क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् ।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः ॥ ४.७२.६ ॥

クル王(ユディシュティラ)は侍従長に小声で言った。「ウッタラ一人を入れよ。ブリハンナラは入れてはならない。」

4.72.7

तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः ।
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत्।
अन्यत्र संग्रामगतान्न स जीवेत्कथंचन ॥ ४.७२.७ ॥

その大腕の大魂の不変の誓いはこうである。私の体に傷をつけたり血を見せたりする者は、戦場に赴いた者を除き、いかなる形でも生き延びることはない。

4.72.8

व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम् ।
विराटमिह सामात्यं हन्यात्सबलावाहनम् ॥ ४.७२.८ ॥

明らかに、血に染まった私を見るや、彼は激怒して、ここでヴィラータを大臣や軍勢、随行者もろとも殺すであろう。

4.72.9

इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा ।
मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम् ॥ ४.७२.९ ॥

インドラであれ、クベーラであれ、ヤマであれ、ヴァルナであれ、私の血を流させた者を彼は許さないであろう。まして一人の人間など言うまでもない。

4.72.10

क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् ।
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः ॥ ४.७२.१० ॥

「その勇者はほんの一瞬だけ、そこの戸口に立たせておけ」と、法にかなった心を持つ、寛大な知恵のユディシュティラは言った。

4.72.11

इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः ।
सभायां सह मात्स्येन तूष्णीमुपविवेश ह ॥ ४.७२.११ ॥

こう言って、忍耐と慈悲に満ちた法王は、マツヤの王とともに集会で黙って座った。

4.72.12

ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः ।
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत ॥ ४.७२.१२ ॥

そのとき王の長子、大地を征服した者が入ってきた。彼は父の足元に礼拝し、またカンカのそばへ行って立った。

4.72.13

पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः ।
अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् ।
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः ॥ ४.७२.१३ ॥

ユディシュティラを横目で見、父の足に礼拝し、血に濡れたカンカを見ると、死に捕らわれたかのようにウッタラの心は焼かれた。

4.72.14

ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम् ।
भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम्।
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः ॥ ४.७२.१४ ॥

そこでウッタラは急ぐかのように、血に濡れた体で、心乱れ、罪なく、人里離れた地面に座り、サイランドリーに仕えられている王に問うた。

4.72.15

केनायं ताडितः कङ्कः केन पापमिदं कृतम् ।
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः ॥ ४.७२.१५ ॥

このカンカは誰に打たれたのか。この悪事は誰がしたのか。あるいは死に赴こうとするのは誰か。誰が足で蛇に触れたのか。

4.72.16

श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः ।
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः ॥ ४.७२.१६ ॥

この人はヴェーダに通じ、バラモンの中で最も優れ、インドラの座にふさわしく、尊敬され礼拝されるべき人である。このような人を害してはならない。

4.72.17

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।
प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः ॥ ४.७२.१७ ॥

息子の言葉を聞いて、国を栄えさせるヴィラータは、恐怖に心を砕かれ、ウッタラにこの言葉で答えた。

4.72.18

पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम् ।
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् ॥ ४.७२.१८ ॥

息子よ、お前の勝利を聞いて、私は大いに喜んだ。この双六の遊びで私は時を過ごしたのだ。

4.72.19

तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः ।
इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला।
अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः ॥ ४.७२.१९ ॥

そこで王国を栄えさせるウッタラが全てのクル族に勝利した、と私は言ったのだ、息子よ。いいや、とカンカは言った、ブリハンナラーが全てのクル族に勝ったのだと、彼は何度も私に言った。

4.72.20

प्रशंसिते मया पुत्र विजये तव विश्रुते ।
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा ॥ ४.७२.२० ॥

息子よ、私がお前の名高い勝利を称えると、カンカは怒ってブリハンナラーの勝利を讃えた。

4.72.21

मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति ।
बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा।
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् ॥ ४.७२.२१ ॥

私がお前を称えている最中に、彼はあの去勢された者ブリハンナラーを称えた。ブリハンナラーの称賛に私は腹を立て、息子よ、敵の側に仕える邪悪なこの男を打ったのだ。

4.72.22

ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः ।
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् ॥ ४.७२.२२ ॥

「この苦行者カンカが打たれた」という父の言葉を聞いて、ウッタラは激しく怒り、父にこう言った。

4.72.23

अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम् ।
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् ॥ ४.७२.२३ ॥

王よ、あなたは不当なことをした。急いで彼をなだめなさい。バラモンにとって毒となるあの恐ろしい(罪)が、あなたを根こそぎ焼き尽くしてしまわぬように。

4.72.24

यावन्न क्षयमायाति कुलं सर्वमशेषनः ।
स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् ॥ ४.७२.२४ ॥

我らの一族が余すところなく滅びる前に、そしてマツヤ族のこの栄えて伸びゆく国が続くうちに、彼をなだめるがよい。

4.72.25

प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले ।
प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् ॥ ४.७२.२५ ॥

彼の足元に礼拝し、杖のように大地に伏し、両手で彼の両足をとり、その時こそ彼をなだめるべきである。

4.72.26

दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया ।
इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम् ॥ ४.७२.२६ ॥

右手で触れ、「私はあなたを滅ぼしたと誓う」と言い、「カṄ」と言うまで、その時こそ彼をなだめるべきである。

4.72.27

स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः ।
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा ॥ ४.७२.२७ ॥

息子の言葉を聞いて、恐怖に動揺したヴィラータは、バラモンの輝きに隠れたクンティーの子をなだめた。

4.72.28

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत ।
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते ॥ ४.७२.२८ ॥

王がなだめている間、パーンダヴァは答えた。「王よ、私はずっと前に許した。私の心に怒りはない。」

4.72.29

यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव ।
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ ॥ ४.७२.२९ ॥

王よ、もし私の血が地に落ちたなら、人中の牡牛よ、汝はこの地で王国もろとも破滅に遭うであろう。

4.72.30

न दूषयामि राजेन्द्र यस्तु हन्याददूषकम् ।
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् ॥ ४.७२.३० ॥

王の中の王よ、私は彼を責めない。罪なき者を打つ者は、大王よ、すぐに恐ろしい報いを受けるのだ。

4.72.31

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला ।
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत ॥ ४.७२.३१ ॥

血の争いが終わると、ブリハンナラーが入ってきた。大王に礼拝し、カンカのそばにも控えた。

4.72.32

क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् ।
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम्।
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः ॥ ४.७२.३२ ॥

戦場から帰還したカウラヴァの子ウッタラを許し、王は強く抱きしめて最上の宮殿に導き入れた。そしてマツヤの王は、サヴィヤサーチン(アルジュナ)が聞く中で彼を称えた。

4.72.33

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन ।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥ ४.७२.३३ ॥

カイケーイーの子の喜びを増す者よ、お前のおかげで私には後継者ができた。お前に並ぶ息子は私にはこれまでいなかったし、今後もいないだろう。

4.72.34

पदं पदसहस्रेण यश्चरन्नापराध्नुयात् ।
तेन कर्णेन ते तात कथमासीत्समागमः ॥ ४.७२.३४ ॥

千歩歩いても一歩も外さぬカルナと、いとしい子よ、お前はどうして出会ったのか。

4.72.35

रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः ।
कृपेन तेन ते तात कथमासीत्समागमः ॥ ४.७२.३५ ॥

戦場で彼を見ると勇気と力を失い沈み込んでしまうクリパと、いとしい子よ、お前はどうして出会ったのか。

4.72.36

यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् ।
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् ॥ ४.७२.३६ ॥

その偉大で比類なき行いは世に名高い。父のために、あの過酷で無上の梵行を守った人。

4.72.37

योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम् ।
भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः ॥ ४.७२.३७ ॥

勇猛なジャマダグニの子ラーマと戦ったビーシュマは、人中の虎よ、戦いで一度も敗れなかった。

4.72.38

पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः ।
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु ॥ ४.७२.३८ ॥

勇猛で打ち破りがたく、博学で勇敢、感官を制し、狙いは確実、行動は迅速、すべての務めに名高い。

4.72.39

तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे ।
युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे ॥ ४.७२.३९ ॥

愛しい者よ、クルの長老ビーシュマとの戦いはどのように起きたのか。これをすべて私に語れ。

4.72.40

पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः ।
दुर्योधनेन ते तात कथमासीत्समागमः ॥ ४.७२.४० ॥

優れた矢で山さえ砕くことのできるあの王子、ドゥルヨーダナとの出会いはどのようであったか、愛しい者よ。

4.72.41

आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः ।
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः ॥ ४.७२.४१ ॥

ヴリシュニとリーラの英雄たちの師、パンチャーラの主、クルとパーンドゥの、そしてすべての武士の師である者。

4.72.42

सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः ।
तेन द्रोणेन ते तात कथमासीत्समागमः ॥ ४.७२.४२ ॥

あらゆる武器の使い手の中で最も優れ、全世界に名高いあのドローナとの出会いはどのようであったか、愛しい者よ。

4.72.43

आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे ।
तेन वीरेण ते तात कथमासीत्समागमः ॥ ४.७२.४३ ॥

師の子で、戦においてドローナに劣らぬ勇士、その英雄と、愛しい子よ、どのように出会ったのか。

4.72.44

सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः ।
तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः ॥ ४.७२.४४ ॥

大勇のドリタラーシュトラの息子たちすべて、大戦車兵たち、その英雄たちと、愛しい子よ、どのように出会ったのか。

4.72.45

न मया निर्जिता गावो न मया कुरवो जिताः ।
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् ॥ ४.७२.४५ ॥

牛を奪ったのも私ではなく、クルの民を破ったのも私ではない。その行いはすべて、ある神の子によってなされたのだ。

4.72.46

स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून् ।
दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत् ॥ ४.७२.४६ ॥

恐れて逃げる私を見、ビーシュマとドローナを先頭とするクル族が戦いで意気消沈しているのを見て、その神の子は私を引き止めた。

4.72.47

स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा ।
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः ॥ ४.७२.४७ ॥

戦車の床に立つ、金剛杵を持つ神にも似た若者。あなたの牛を取り返したのも、クルの民を破ったのも彼である。

4.72.48

तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ।
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।ट
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥ ४.७२.४८ ॥

その英雄のその行いは、私がしたのではありません、父上。その力ある者は、シャーラドヴァタ(クリパ)、ドローナ、ドローナの子、御者の子、そしてビーシュマさえも矢で退けたのです。

4.72.49

दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम् ।
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥ ४.७२.४९ ॥

戦いで打ち砕かれた発情象のように打ちのめされ、怯えた王子、大力のドゥリヨーダナに彼は言った。

4.72.50

न हास्तिनपुरे त्राणं तव पश्यामि किंचन ।
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता ॥ ४.७२.५० ॥

ハースティナプラにはお前を守るものが何も見えない。逃げる者にはハースティナプラの快楽を享受することはできない。

4.72.51

व्यायामेन परीप्सस्व जीवितं कौरवात्मज ।
न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥ ४.७२.५१ ॥

クル族の息子よ、努力によって命を守れ。逃げても解放されはしない。世にあって戦いに心を向けよ。勝てば大地を享受し、倒れれば天界に至るだろう。

4.72.52

स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् ।
सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः ।
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् ॥ ४.७२.५२ ॥

その人中の虎は、雷のような矢を放ちながら引き返した。王はビーシュマ、ドローナ、クリパなどの臣下に囲まれていた。そのとき私の身の毛がよだち、腿がこわばった。

4.72.53

यदभूद्धनसंकाशमनीकं व्यधमच्छरैः ।
तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा।
तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन् ॥ ४.७२.५३ ॥

雲のような軍勢を、彼は矢で打ち砕いた。獅子の誇りに等しいその若者は戦車の軍勢を破り、王よ、戦いで象のように息を荒げながらクル族を敗走させた。

4.72.54

एकेन तेन शूरेण षड्रथाः परिनिर्जिताः ।
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा ॥ ४.७२.५४ ॥

その一人の英雄によって、六人の戦車兵は完全に打ち負かされた。狂った虎が草を食む鹿を征服するように。

4.72.55

हयानां च गजानां च शूराणां च धनुष्मताम् ।
निहतानि सहस्राणि भग्ना च कुरुवाहिनी ॥ ४.७२.५५ ॥

馬、象、弓を持つ勇士たちが数千も倒れ、クル軍は崩れた。

4.72.56

सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः ।
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे ॥ ४.७२.५६ ॥

御者の子を百の矢で射抜き、その馬を倒し、その大戦車戦士は武器で彼を幻惑し、赤い衣を奪った。

4.72.57

चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः ।
स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे ॥ ४.७२.५७ ॥

さらに四本の矢でシャンタヌの子ビーシュマを攻めた。彼を射て、その馬を速やかに倒したが、その衣は取らなかった。

4.72.58

दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः ।
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे ॥ ४.७२.५८ ॥

その勇者は七本の矢で難敵を射抜いた。彼を射て、その馬を倒し、黄色い衣を奪った。

4.72.59

द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम् ।
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् ॥ ४.७२.५९ ॥

その勇者はドローナ、クリパ、ソーマダッタ、ジャヤドラタ、インドラに似たブーリシュラヴァス、そして大戦車戦士シャクニをも射た。

4.72.60

त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि ।
विविधानि च वस्त्राणि महार्हाण्याजहार सः ॥ ४.७२.६० ॥

ドゥッシャーサナらを各三本の矢で射抜き、非常に貴重な様々な衣を奪った。

4.72.61

द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे ।
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी ॥ ४.७२.६१ ॥

二本の矢で射て、同様に戦場で師の子をも射て、ヴィカルナの弓を断ち、彼の二枚の紺色の衣を取った。

4.72.62

क्व स वीरो महाबाहुर्देवपुत्रो महायशाः ।
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे ॥ ४.७२.६२ ॥

あの英雄、大腕の神の子、大いなる名声の者はどこにいるのか。戦で クルの者どもに捕らえられた私の息子を解き放った者は。

4.72.63

इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च ।
येन मे त्वं च गावश्च मोक्षिता देवसूनुना ॥ ४.७२.६३ ॥

敵を砕く者、神の子によって、おまえと私の牛たちが解き放たれた、その者を敬い礼拝したい。

4.72.64

तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान् ।
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च ॥ ४.७२.६४ ॥

その者には娘を与え、村々、輝く黄金の腰帯、そして数十万の女たちも与えよう。

4.72.65

अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् ।
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥ ४.७२.६५ ॥

父上、威光ある神の子は姿を隠されました。今日か、明日か、あるいは明後日に、再び現れるであろうと私は思います。

4.72.66

एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम् ।
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् ॥ ४.७२.६६ ॥

このように語られたにもかかわらず、変装によって隠れ住んでいたパーンドゥの子、プリター の子アルジュナを、ヴィラータは見分けなかった。

4.72.67

ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना ।
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः ॥ ४.७२.६७ ॥

そこで偉大な心のヴィラータの許可を得たパールタ・ダナンジャヤは、マツヤ王の息子と相談した。

4.72.68

इत्येवं ब्रूहि राजानं विराटं समुपस्थितम् ।
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्।
ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम् ॥ ४.७२.६८ ॥

「近くに来ているヴィラータ王にこう伝えよ」——そう言うとパールタは突然吉祥な奥の間に入り、ヴィラータの娘に自ら衣服と宝石を与えた。

4.72.69

उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च ।
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् ॥ ४.७२.६९ ॥

ウッタラーはそれらの非常に貴重な衣服と装身具をすべて受け取り、喜んで侍女たちと共にいた。