摩诃婆罗多 · 章 4.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.73.1
प्रदाय वस्त्राणि किरीटमाली ।
विराटगेहे मुदितः सखीभ्यः ।
कृत्वा महर्तर्म तदाऽऽजिमध्ये ।
दिदृक्षया सोऽभिजगाम पार्थम् ॥ ४.७३.१ ॥
冠饰者(阿周那)将衣物赠予女伴,在毗罗吒的宫中心满意足,经过战场中所建的伟大功绩后,怀着想见的心情前往般度之子那里。
4.73.2
तं प्रेक्षमाणस्त्वथ धर्मराजं ।
पप्रच्छ पार्थोऽथ स भीमसेनम्।
किं धर्मराजो हि यथापुरं मां ।
मुखं प्रतिच्छाद्य न चाह किंचित् ॥ ४.७३.२ ॥
般度之子望着法王,随后问毗摩森那:"法王为何像先前一样遮住面容,对我什么也不说?"
4.73.3
तमेवमुक्त्वा परिशङ्कमानं ।
दृष्ट्वाऽर्जुनं भीमसेनं च राजा।
तदाऽब्रवीत्तावभिवीक्ष्य राज-
न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ॥ ४.७३.३ ॥
说完这些,看着忧虑的阿周那与毗摩森那,国王坚战擦去血迹,对他们说道。
4.73.4
मन्युं नियच्छन्नुपविष्ट आसम् ॥ ४.७३.४ ॥
他压抑着悲痛与愤怒,静坐不语。
4.73.5
शुभार्ह राष्ट्रं न खिलीकृतं भवे-
द्वयं तु यस्मिन्सुखिनोऽभवाम।
क्रुद्धे तु वीरे त्वयि चाप्रतीते ।
राजा विराटो न लभेत शर्म ॥ ४.७३.५ ॥
我们曾经安乐的这个王国值得吉祥,不应荒废。然而,英雄啊,若你愤怒而不悦,毗罗吒王便不得安宁。
4.73.6
अजानता तेन च शौर्यमाजौ ।
छन्नस्य सत्रेण बलं च पार्थ।
इदं विराटेन मयि प्रयुक्तं ।
त्वां वीक्षमाणो न गतोस्मि हर्षम् ॥ ४.७३.६ ॥
他不知我在战场上的勇武与力量,躲在如同祭祀般的伪装之下做了此事,哦,贵由之子。毗罗吒将此施于我身,即便看到你,我也未感喜悦。
4.73.7
तेनाप्रमेयेन महाबलेन ।
तस्मिंस्तथोक्ते शममास्थितेन।
तं भीमसेनो बलवानमर्षी ।
धनंजयं क्रुद्धमुवाच वाक्यम् ॥ ४.७३.७ ॥
当那位力量无量的大力者如此说完并保持平静时,有力而不能忍耐的毗摩先那对愤怒的财征说了这些话。
4.73.8
न पार्थ नित्यं क्षमकालमाह ।
बृहस्पतिर्ज्ञानवतां वरिष्ठः ।
क्षमीह सर्वैः परिभूयतेसौ ।
यथा भुडङ्गो विषवीर्यहीनः ॥ ४.७३.८ ॥
哦,贵由之子,智者中最杰出的布利哈斯帕蒂说,忍耐之时并非永远。在此处,忍耐者被所有人轻视,如同失去毒力的蛇。
4.73.9
विराटमद्यैव निहत्य शीघ्रं ।
सपुत्रपौत्रं सकुलं ससैन्यम्।
योक्ष्यामहे धर्मसुतं च राज्ये ।
अद्यैव शीघ्रं त्वरिरेष मात्स्यः ॥ ४.७३.९ ॥
今日便迅速杀尽毗罗吒及其子孙、宗族与军队,我们将使法之子登上王位。这位摩底亚之王今日便在急促行动。
4.73.10
अनेन पाञ्चालसुताऽथ कृष्णा ।
उपेक्षिता कीचकेनाभियुक्ता।
तस्मादयं नार्हति राजशब्दं ।
राजा भव त्वं नृप पार्थवीर्यात् ॥ ४.७३.१० ॥
因他之故,般遮罗之女黑公主被忽视,并遭迦吉迦侵犯。因此他不配王者之称。哦,王者,凭借贵由之子的勇力,你自己成为王吧。
4.73.11
राजा कुरूणां च युधिष्ठिरोऽयं ।
मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि ।
पूर्णोदकं कुम्भमिवाश्मनीह ॥ ४.७३.११ ॥
尤提希提罗是俱卢族之王;让这位英勇者也成为摩差人中的王。我要把那摩差人的身体砸成百块,就像这里用石头砸碎一只盛满水的罐子。
4.73.12
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन् ।
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्।
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ॥ ४.७३.१२ ॥
大王,因您的忍耐,我们的一切过失都已消除。杀死那摩差王连同他的军队、儿子、亲族与眷属之后,我之后必定会杀尽所有俱卢人,此事毫无疑问。
4.73.13
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ॥ ४.७३.१३ ॥
怖军及其他人也同样对他说了这番话。
4.73.14
तमब्रवीद्धर्मसुतो महात्मा ।
क्षमी वदान्यः कुपितं च भीमम्।
न प्रत्युपस्थास्यति चेत्सदारः ।
प्रसादने सम्यगथास्तु वध्यः ॥ ४.७३.१४ ॥
伟大的法之子对他说——这位忍耐而慷慨者,对愤怒的怖军说:只有他不带着妻子前来并妥善地安抚我们,他才应被杀。
4.73.15
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ॥ ४.७३.१५ ॥
阿周那,这个邪恶的毗罗吒也不可被你杀死。
4.73.16
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि ।
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ॥ ४.७३.१६ ॥
明晨拂晓,我们将进入议会大殿,也坐上狮座,穿着王者的服饰,装饰得体;请各就其位。
4.73.17
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान् ।
राजलक्षणसंपन्नान्यदि तत्र न मंस्यते।
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ॥ ४.७३.१७ ॥
若毗罗吒不以那些站在那里、饰以王饰、具备王相的人为王,那么,普利塔之子啊,我们之后将连同他的亲族一起杀死毗罗吒。
4.73.18
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः ।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ॥ ४.७३.१८ ॥
般度之子们商议了应当如何行事之后,便在那一夜留宿于此;他们知晓法,且热爱法。
4.73.19
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः ।
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ॥ ४.७३.१९ ॥
摩差国的那位人主与其子一同,心中极为欢喜,满怀喜悦地在那一夜留宿于此。