摩诃婆罗多 · 章 4.77
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.77.1
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर ।
इदं सनगरं राष्ट्रं सजनं सवधूजनम्।
युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च ॥ ४.७७.१ ॥
坚战啊,今日我要对你说的话,你不要怀疑。这座城市、这个国家,连同其人民与妇女,我将全部交给你;我只享用剩余之物。
4.77.2
अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम् ।
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् ॥ ४.७७.२ ॥
国王啊,我已年老,长久地享受了欢乐与安乐。将王国交给你之后,我将前往森林。
4.77.3
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः ।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ ४.७७.३ ॥
愿善用双手的射手财施接纳优多罗。他确实是她合适的夫君,人中之最。
4.77.4
एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम् ।
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् ॥ ४.७७.४ ॥
如此被问之后,法王望向普利塔之子财施。阿周那领会了他的目光,便回答了摩蹉王的话。
4.77.5
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे ।
किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे ॥ ४.७७.५ ॥
我们来自另一座森林;你的王国我们不接受。但杜尔楼陀那等诸王的王国,我们将接受。
4.77.6
प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव ।
युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः ॥ ४.७७.६ ॥
国王啊,我接纳你的女儿为儿媳。摩蹉与婆罗多两族之间的这门姻缘,对我们二人确实相宜。
4.77.7
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम ।
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि ॥ ४.७७.७ ॥
般度之子中最优秀的人啊,你为何不愿接受我在此赠予你的女儿为妻?
4.77.8
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव ।
सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ ४.७७.८ ॥
我一直居住在你的内宫,看顾你的女儿。她对我如父亲般信任,无论在私下还是在公开场合。
4.77.9
प्रियो बहुमतश्चाहं नर्तने गीतवादिते ।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ ४.७७.९ ॥
在舞蹈、歌唱和乐器演奏方面,我为她所珍爱,也深受敬重;你的女儿始终视我为老师。
4.77.10
वयस्यया तया राजन्सह संवत्सरोषितः ।
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो ॥ ४.७७.१० ॥
国王啊,我与她的女伴共同生活了一年。主上啊,愿您和众人都不要无端地生出过度的猜疑。
4.77.11
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते ।
सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया ॥ ४.७७.११ ॥
因此,人主啊,今日我为我的儿子向您请求:我认为她纯洁且克制自己的感官,她的纯洁已由我确认。
4.77.12
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ ४.७७.१२ ॥
无论是在儿媳、女儿、儿子,还是在您自己身上,我都看不到过度的猜疑。由此,她的纯洁将得到证明。
4.77.13
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप ।
स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ ४.७७.१३ ॥
敌人的焚烧者啊,我畏惧虚假行为的嫌疑;大王啊,我为了儿媳而接受你的女儿乌达罗。
4.77.14
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा ।
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः ॥ ४.७७.१४ ॥
他是婆苏提婆的外甥,宛如神之子,是持轮者所爱,强大且精通兵器。
4.77.15
अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥ ४.७७.१५ ॥
我的儿子阿毗摩尼由,臂膀粗壮,民之主啊,堪为你的女婿、你女儿的丈夫。
4.77.16
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये ।
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः ॥ ४.७७.१६ ॥
此事正适合库鲁之最、昆提之子持财者(阿周那),他恒常安住于法,是知所应知者,乃般度之子。
4.77.17
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् ।
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ॥ ४.७७.१७ ॥
普利塔之子啊,你认为应做之事,请立即去做;我的一切愿望都已实现,因为阿周那是我的亲属。
4.77.18
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः ।
अन्वजानत संबन्धं समये कृष्णमात्स्ययोः ॥ ४.७७.१८ ॥
王中之王如此说罢,昆提之子坚战在适当的时机应允了黑天与摩差两族之间的这门姻亲。
4.77.19
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत ।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः । ॥ ४.७७.१९ ॥
婆罗多啊,贡蒂之子与君王毗罗吒向所有朋友和婆苏提婆派遣了使者。
4.77.20
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः ।
शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः ॥ ४.७७.२० ॥
接受了为儿媳准备的礼物后,法尔古那(阿周那)向世人表明了自己的誓言以及品行与清净的操守。
4.77.21
लोके विख्याप्य माहात्म्यं यशश्च स परंतपः ।
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा ॥ ४.७७.२१ ॥
他在世间彰显了自己的伟大与声誉,这位焚烧敌人者于是功成、清净、无忧、心满意足。
4.77.22
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप ।
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव ॥ ४.७७.२२ ॥
君王啊,我很欢喜,愿你吉祥。焚烧敌人者啊,你是我的朋友。君主啊,我们都在你这里安乐居住,无人知晓。
4.77.23
विराटनगरे राजा धर्मात्मा संशितव्रतः ।
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः ॥ ४.७७.२३ ॥
在毗罗吒城,那位心地正直、誓约坚定的国王受到尊敬,被灌顶加冕,并以无数珠宝受到礼敬。
4.77.24
तथा ब्रुवन्तं प्रसमीक्ष्य राजा ।
परं प्रहृष्टः स्वजनेन तेन।
स्नेहात्परिष्वज्य नृपो भुजाभ्यां ।
ददौ महार्थं कुरुपाण्डवानाम् ॥ ४.७७.२४ ॥
看到他这样说话,国王非常欢喜。他以双臂深情拥抱这位亲族,并向俱卢与般度子孙赠送了贵重的礼物。
4.77.25
समादिशन्दूतमथो समग्राः ॥ ४.७७.२५ ॥
随后众人一起吩咐使者。
4.77.26
युधिष्ठिरश्चापि सुसंग्रहृष्टो ।
दुर्योधनाद्दूतमपश्यदागतम्।
स चाब्रवीद्धर्मराजं समेत्य ।
युधिष्ठिरं पाण्डवमुग्रवीर्यम् ॥ ४.७७.२६ ॥
坚战也非常高兴,看见了从难敌那里来的使者。使者走近法王、猛勇的般度之子坚战,开口说道。
4.77.27
धनञ्जयेनासि पुनर्वनाय ।
प्रव्राजितः समये तिष्ठ पार्थः।
त्रयोदशे ह्येव किरीटमाली ।
संवत्सरे पाण्डवेयोऽद्य दृष्टः ॥ ४.७७.२७ ॥
你又被阿周那送回森林。般度之子应当留到约定的时限;第十三年,戴冠的般度之子今天被人看见了。
4.77.28
ततोऽब्रवीद्धर्मसुतः प्रहस्य ।
क्षिप्रं गत्वा ब्रूहि सुयोधनं तम्।
पितामहः शान्तनवो ब्रवीतु ।
पूर्णो न पूर्णोऽद्य त्रयोदशो नः ॥ ४.७७.२८ ॥
于是法王之子笑着说:"快去告诉难敌:让祖父、刹多奴之子毗湿摩说,今天我们的第十三年是否已经圆满。"
4.77.29
संवत्सरात्ते तु धनञ्जयेन ।
विष्फारितं गाण्डिवमाजिमध्ये।
पूर्णो न पूर्णो न इति ब्रवीतु ।
यदस्य सत्यं मम तत्प्रमाणम् ॥ ४.७७.२९ ॥
在你的年份之后,阿周那在战阵中拉开了甘狄拔弓。让他说"圆满"或"不圆满";他所说的真实,便是我的凭据。
4.77.30
तेनैवमुक्तः स निवृत्य दूतो ।
दुर्योधनं प्राप्य शशंस तत्त्वम् ॥ ४.७७.३० ॥
他听了这些话后便返回,到达难敌那里,把真实情况报告了。
4.77.31
समेत्य दूतेन स राजपुत्रो ।
दुर्योधनो मन्त्रयामास तत्र।
भीष्मेण कर्णेन कृपेण चैव ।
द्रोणेन भूरिश्रवसा च सार्धम् ॥ ४.७७.३१ ॥
王子难敌与使者会面后,便在那里与毗湿摩、迦尔纳、克利巴、德罗纳和布利修罗瓦斯商议。
4.77.32
संमन्त्र्य रात्रौ बहुभिः सुहृद्भि-
र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा ।
तीर्णप्रतिज्ञेन धनंजयेन ।
विष्फारितं गाण्डिवमाजिमध्ये ॥ ४.७७.३२ ॥
夜里,伟大的毗湿摩与许多友人商议后,对持国之子说:已践誓言的财主(阿周那)在战阵中拉满了甘提拔弓。
4.77.33
नेच्छन्त्यसत्येन सुरेन्द्रलोकं ।
पाण्डोः सुता ब्रह्मणश्चापि लोकम्।
तथ्यं च ते पथ्यमहं ब्रवीमि ।
स्वर्ग्यं यशस्यं परलोकपथ्यम् ॥ ४.७७.३३ ॥
般度之子不以虚妄追求因陀罗界或梵界;我对你说的是真实而有益的话——那能带来天界、名声,并利于来世。
4.77.34
कुन्तीसुतैस्त्वं समुपैहि सन्धिं ।
भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः।
युध्यस्व नोचेत्स्थिरबुद्धिराजौ ।
कुन्तीसुतैर्यद्यपि राज्यमिच्छेः ॥ ४.७७.३४ ॥
与坤蒂之子议和吧;与般度族一同享用你的王国。否则就以坚定的心在战场上作战,纵然你想从坤蒂之子那里夺取王国。
4.77.35
आन्तं न शक्यं कपटेन भोक्तुं ।
राज्यं परेषां महतां बलीनाम्।
जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं ।
हतो भवान्भोक्ष्यति वज्रिलोकम् ॥ ४.७७.३५ ॥
以欺诈不可能无倦地享有王国。战胜那些伟大而强大的敌人,享有整个王国;若你被杀,你将享有因陀罗的世界。
4.77.36
हतोस्मि तैर्वा सुरलोकमेमि ॥ ४.७७.३६ ॥
或者若我被他们杀死,我将前往诸神之界。
4.77.37
ते धार्तराष्ट्राः समयं निशम्य ।
तीर्णप्रतिज्ञस्य धनंजयस्य
संचिन्त्य सर्वे सहिताः सुहृद्भिः ।
सपार्थिवाः स्वानि गृहाणि जग्मुः ॥ ४.७७.३७ ॥
闻知期限以及持誓者之誓已完成,持国之诸子与盟友共同商议之后,连同诸王各自返回家中。