摩诃婆罗多 · 章 4.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.78.1
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ॥ ४.७८.१ ॥
十三年期满之后,五位般度之子在毗罗吒的优婆多湿波耶城、那座殊胜之城定居。
4.78.2
दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि ।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ ४.७८.२ ॥
贡蒂之子与国王毗罗吒向所有朋友、亲族和姻亲都派去了使者。
4.78.3
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः ।
तत्रागमन्महाबाहुर्वनमाली बलानुजः ॥ ४.७८.३ ॥
当他们在那里坐定,从各处被派去邀请的人也陆续到达时,大臂的瓦那玛里,即力王之弟,来到了那里。
4.78.4
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः ।
दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम्।
अभिमन्युं समादाय रामेण सहितस्तदा ॥ ४.७८.४ ॥
那时,闻听使者之言,生主(黑天)带上他心爱的妹妹苏跋陀罗之子、备受尊敬的阿毗曼纽,与罗摩(力王)同行出发。
4.78.5
सर्वयादवमुख्यैश्च संवृतः परवीरहा ।
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ॥ ४.७८.५ ॥
被所有大族首领簇拥,摧毁敌方英雄者在海螺与鼓声的轰鸣中前往毗罗吒之城。
4.78.6
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ।
अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च।
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ॥ ४.७८.६ ॥
戈尔塔瓦尔曼与希尔迪基亚,萨提奇·尤尤丹那,阿那德利什提与阿克鲁罗,三婆与尼沙陀,还有大臂的普拉德尤姆纳与大力的乌尔穆卡。
4.78.7
अभिमन्युमुपादाय सह मात्रा परन्तपाः ।
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ॥ ४.७८.७ ॥
带着阿毗摩因尤与其母,所有焚烧敌人者与黑天一同前来看望般度五子。
4.78.8
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ॥ ४.७८.८ ॥
因陀罗塞纳等人也乘着那些装备精良的战车,全部一同前来,他们已在那里停留满一年。
4.78.9
दशनागसहस्राणि हयानां द्विगुणं तथा ।
रथानां नियुतं पूर्णं निखर्वं च पदातयः ॥ ४.७८.९ ॥
一万头象,两倍之多的马,满一尼由多的战车,以及一尼卡尔瓦的步兵。
4.78.10
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः ।
अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् ॥ ४.७८.१० ॥
数以百计的毗湿尼与安陀迦,以及威力极盛的婆阇人,前往迎接毗湿尼族之虎、大力的伐苏提婆。
4.78.11
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा ।
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ॥ ४.७८.११ ॥
闻知伐苏提婆将至,般度之子们与摩差王一同,全部出迎生主(Janārdana)。
4.78.12
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् ।
ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः।
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ॥ ४.७८.१२ ॥
在法螺与鼓声的轰鸣和吉祥之声中,欢喜的般度五子向生主(Janārdana)顶礼;他们俯伏于他的足下,全体与摩差王一同,被喜悦的泪水充满。
4.78.13
तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः ।
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ॥ ४.७८.१३ ॥
克里希那啊,蒙你的恩典,这十三年全部过去了,达莎尔诃之裔啊,正如约定的那段期限已经届满。
4.78.14
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन ।
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ॥ ४.७८.१४ ॥
世界之主啊,我们已度过了时日;生灵之主啊,你是我们的主宰。诸神之神啊,请保护我们;尊贵者啊,我们已投奔你的庇护。
4.78.15
तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः ।
विराटस्य सहायांस्तान्सर्वयादवसंवृतः ॥ ४.७८.१५ ॥
被众耶达瓦环绕的遮那陀那,忽然拥抱了正向他致敬的那些人,他们是毗罗吒的盟友。
4.78.16
यथार्हं पूजयामास मुदा परमया युतः ।
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ॥ ४.७८.१६ ॥
他满怀无上的喜悦,按照礼节款待了他们;毗湿尼的英雄们也都依礼接待了他们所有人。
4.78.17
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा ।
तामुद्यम्य सुकेशान्तां नयने परिमृज्य च ।
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ॥ ४.७८.१७ ॥
克里希那也向提婆吉之子的脚下顶礼。主宰诸神的他扶起她,为这位发丝优美的女子拭去泪水,在众耶达瓦面前说了这些话。
4.78.18
मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान् ।
अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् ॥ ४.७८.१८ ॥
吉祥的人啊,不要悲伤。不久之后,我将杀死聚集在一起的持国之子们,并与普利塔之子一同征服大地。
4.78.19
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः ।
अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे ॥ ४.७८.१९ ॥
我将把它交给坚战;愿你心中的热病消退。我以阿毗曼尤、般遮与卢弥尼之子起誓。
4.78.20
सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते ।
इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम्।
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ॥ ४.७८.२० ॥
无瑕的人啊,你要知道我这话是真的。说完便让她离去,那位维瑞尼雄虎心中欢喜,与维瑞尼和安陀迦人一同前往坚战身边。
4.78.21
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम् ।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥ ४.७८.२१ ॥
迦尸王与湿毗耶王侍奉坚战,各率两个阿刹烏晖尼军而来,二人皆为地上之王。
4.78.22
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः ।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥ ४.७८.२२ ॥
大力的般遮罗王率三个阿刹烏晖尼军而来,德劳波蒂的英勇诸子与无敌的湿珂坦地也来了。
4.78.23
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः ।
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ॥ ४.७८.२३ ॥
难以抵挡的德里希塔敦那,持械者中的翘楚,以及其他大力者,为了般度子孙,急速前往优波劫毗耶城。
4.78.24
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च ।
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम् ॥ ४.७८.२४ ॥
于是数十万、百万、千万的战士纷纷靠近坚战的军队。
4.78.25
समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक् ।
आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः ।
वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः ॥ ४.७८.२५ ॥
如同诸大河在法事之末各自注入大海,那些行祭、施予丰厚布施、通晓吠陀并完成沐浴礼的诸王,以及全都准备舍身的勇士们,各自充实了(军队)。
4.78.26
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः ।
पूजयामास विधिवद्यथार्हं राजसत्तमान् ॥ ४.७८.२६ ॥
普利塔之子(阿周那),智者中的最优者,见诸王到来,依仪轨并按各自应得,恭敬地礼遇了那些最优秀的王者。
4.78.27
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ॥ ४.७८.२७ ॥
克里希那将嫁妆赠予大德的般度五子:侍女、衣裳与珍宝,各自分别,种类繁多。
4.78.28
राजानो राजपुत्राश्च निवृत्ते समये तथा ।
यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः।
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ॥ ४.७८.२८ ॥
诸王与王子在时机结束后,受到般度诸子中最优者的恭敬礼遇,心怀欢喜,于是奉上了嫁妆。
4.78.29
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह ।
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः ॥ ४.७८.२९ ॥
大王啊,诸王与毗湿尼族齐聚,库卢族与摩差族的婚礼依仪轨而愈加隆重。
4.78.30
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा ।
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ॥ ४.७८.३० ॥
那时,海螺、鼓、牛角与小鼓齐鸣,在摩差王的宫中为阿毗曼尤的婚礼奏响。
4.78.31
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा ।
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ॥ ४.७८.३१ ॥
他们杀了数以百计的各种鹿,大小不一,以及其他适于祭祀的洁净牲畜;又大量地运来了可食的食物、菜肴与饮品。
4.78.32
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा ।
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥ ४.७८.३२ ॥
擅长歌唱与讲述故事的伶人,以及以赞颂唤醒君王的吠陀歌者也来了;苏多和摩揭陀的颂扬者也一起前来,赞颂着他们,侍立在旁。
4.78.33
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले ।
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ॥ ४.७८.३३ ॥
在那场吉祥的喜庆典礼上,老年与年轻的妇女都来了;德劳帕蒂也与毗罗吒宫中及家中的妇女一同在场。
4.78.34
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः ।
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥ ४.७८.३४ ॥
以苏提什那为首,摩蒂亚人的妇女也来了;她们身材姣好,四肢丰满,佩戴着擦拭得光亮的宝石耳环。
4.78.35
वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः ।
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ॥ ४.७८.३५ ॥
这些妇女肤色白皙,容貌美丽,装饰精美;然而在她们之中,黑天女(德劳帕蒂)的容貌与身体之美超过了所有人。
4.78.36
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम् ।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ ४.७८.३६ ॥
她们将受人称赞、装饰华丽的公主乌答罗团团围住,让她走在前面,站在她身旁,仿佛她是因陀罗的女儿。
4.78.37
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम् ।
पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम्।
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ॥ ४.७८.३७ ॥
军队统帅毗罗吒取过盛满水的金瓶,忽然将水倒在阿周那(Pārtha)的手中,为了那位莲花眼的女儿,作为儿媳。
4.78.38
तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः ।
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ॥ ४.७८.३८ ॥
心胸宽大的昆蒂之子(阿周那)为了儿子接受了她;身形无瑕的苏跋陀罗之子(阿毗摩竭)则接受了毗罗吒之女。
4.78.39
तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन् ।
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ॥ ४.७८.३९ ॥
昆蒂之子坚战身具因陀罗之形,站在那里接纳了那位儿媳。
4.78.40
द्रुपदश्च विराटश्च शिखण्डी च महाबलः ।
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ॥ ४.७८.४० ॥
驪腾、毗罗吒,大力的尸犍底,优尤陀那,设毗耶,猛光,以及萨提亚吉。
4.78.41
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ॥ ४.७८.४१ ॥
这七位统领十八方阵的主将,乃行祭者,施舍丰厚,于是环绕般度子建立营地。
4.78.42
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः ।
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ॥ ४.७८.४२ ॥
军队驻扎于彼处之时,持法者中最优秀的摩蹉王毗罗吒心生欢喜,亲自带来女儿,将她嫁给了阿毗摩竭。
4.78.43
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः ॥ ४.७८.४३ ॥
阿周那接受了乌塔拉,尊奉克里希那在前,为伟大的娑菩陀罗举行了婚礼。
4.78.44
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः ।
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ॥ ४.७८.४४ ॥
于是婚礼隆重盛大,具备一切美德;娑菩陀罗的奇异功绩当时由你父亲的父亲所见。
4.78.45
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः ।
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ॥ ४.७८.४५ ॥
陀摩被弟子围绕,依仪轨向火中献供;绕火行礼,娑菩陀罗执起了新娘的手。
4.78.46
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् ।
तस्मै शतसहस्राणि हयानां वातरंहसाम् ॥ ४.७८.४६ ॥
于是摩蹉王欢喜,赠予阿周那大量财物:速如疾风的骏马十万匹。
4.78.47
द्वे च नागशते मुख्ये धनं बहुविधं तदा ।
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ॥ ४.७८.४७ ॥
摩蹉之主欢喜,当时赠予上好大象二百头及多种财物:这份嫁妆极为殊胜。
4.78.48
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः ।
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ॥ ४.७८.४८ ॥
摩蹉之最又赠予般度诸子临别之礼(pāribarha);贡蒂之子与克里希那一起,欣然接受了许多。
4.78.49
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥ ४.७८.४९ ॥
婚礼完成后,法之子坚战将阿progress(黑天)带来的财富赠予婆罗门。
4.78.50
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च ।
भूषणानि च सर्वाणि यानानि शयनानि च ॥ ४.७८.५० ॥
数千头牛、衣物、各种珠宝、一切饰物、车辆与床榻。
4.78.51
नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ॥ ४.७८.५१ ॥
国王以充满爱意的神圣礼物使城民心满意足。
4.78.52
तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् ।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ ४.७८.५२ ॥
摩差国王的那座城市如同盛大的节日,充满欢欣富足的民众,光彩照人,婆罗多之牛啊。
4.78.53
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह ।
विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे ।
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ॥ ४.७८.५३ ॥
славный царь Вираата与家祭司、大臣、城民及乡民一道,将女儿乌塔拉嫁给苏婆陀罗之子阿毗曼纽,于是大为欢喜。
4.78.54
वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः ।
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ॥ ४.७८.५४ ॥
婚礼完成后,请将坚战心怀喜悦所说的一切,以及随后所做之事,全部讲述于此。