摩诃婆罗多 · 章 4.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.8.1
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ ४.८.१ ॥
尤提希提罗沿着通往毗罗吒城的美好道路前行,在心中赞颂三界之主女神难近母(Durgā)。
4.8.2
यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ ४.८.२ ॥
生于耶首达的胎中,为那罗延所爱的赐福者,降生于牧者难陀的族中,吉祥,增益族系。
4.8.3
कंसविद्रावणकरीमसुराणां क्षयंकरीम् ।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ ४.८.३ ॥
令刚沙逃窜、毁灭阿修罗的女神,被掷落于石台之上,却飞向天空。
4.8.4
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् ।
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ॥ ४.८.४ ॥
婆苏提婆之妹,身饰神圣花环,身著神衣,手持剑与盾的女神。
4.8.5
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥ ४.८.५ ॥
凡在卸除重担的神圣时刻常念吉祥女神者,她便将他们从罪中救度出来,犹如将陷入泥淖的虚弱母牛拉出。
4.8.6
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ४.८.६ ॥
国王尤提希提罗与诸弟同在,渴望见到女神,便祈请她,又以种种赞歌重新开始赞颂。
4.8.7
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ ४.८.७ ॥
敬礼你,施予恩惠者,黑色的少女,梵行者,形如初升之日,面如满月的女神。
4.8.8
चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे ।
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ ४.८.८ ॥
四臂的女神,四面的女神,腰臀丰满、胸脯饱满者,佩戴孔雀翎手镯,戴着臂钏与臂环的女神。
4.8.9
भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ४.८.९ ॥
女神啊,你光彩照人,如那纳罗延之妻帕德玛;你的本相与梵行清净,飞行于空中的女神。
4.8.10
कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ॥ ४.८.१० ॥
肤色如黑暗,黑色的女神,面容如萨卡尔沙那,双臂宽阔高举,犹如因陀罗之旗。
4.8.11
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ४.८.११ ॥
你手持宝器、莲花与铃,是大地上纯洁的女子,持有绳索、弓、大轮与种种兵器。
4.8.12
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ ४.८.१२ ॥
女神啊,你的耳朵由圆满的耳环装饰,你以一张可与月亮媲美的面容光彩照人。
4.8.13
मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ ४.८.१३ ॥
你以奇妙的王冠、耀眼的发带和如蛇盘般的腰带而光彩照人。
4.8.14
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः ।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ ४.८.१४ ॥
此处你如曼陀罗山被蛇缠绕般光辉,又以高扬的孔雀翎旗而闪耀。
4.8.15
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ ४.८.१५ ॥
你持守童贞之愿,净化了天界;因此,女神啊,你受到赞颂,也受到三十位天神的供奉。
4.8.16
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ ४.८.१६ ॥
为护佑三界,斩杀水牛魔摩希沙的女神啊,诸神中最尊贵者,请对我满怀欢喜并施以慈悲,成为吉祥之神。
4.8.17
जया त्वं विजया चैव संग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥ ४.८.१७ ॥
你是胜利女神嘉耶与维嘉耶,在战斗中赐予胜利;现在也请赐我胜利吧,因为你是赐福之神。
4.8.18
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् ।
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ ४.८.१८ ॥
最尊贵的山脉维因德亚之上,才是你永恒的居所。啊,迦梨,迦梨,大迦梨,喜爱烈酒、肉食与祭牲的女神!
4.8.19
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ ४.८.१९ ॥
你被诸灵追随,赐予恩惠,随意游行。凡在卸下重担之时忆念你的世人——
4.8.20
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ॥ ४.८.२० ॥
世间在黎明时向你礼拜的人,无论子嗣还是财富,皆非难得之物。
4.8.21
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ ४.८.२१ ॥
啊杜尔迦,你救人脱离困厄,因此人们称你为杜尔迦。对于迷失在荒野、沉没于大海、或被盗贼所困之人,你便是世人的至高归依。
4.8.22
जलप्रतरणे चैव कान्तारेष्वटवीषु च ।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ ४.८.२२ ॥
啊大天女,凡在渡水之时及荒野森林之中忆念你的人,永不颓败沉没。
4.8.23
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः ।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ॥ ४.८.२३ ॥
你是名声、吉祥、坚定、成就、羞耻心、智慧、子嗣与悟性;黄昏、黑夜、光辉、睡眠、月光、光彩、宽恕与慈悲,也都是你。
4.8.24
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ ४.८.२४ ॥
受人供奉之时,你将消除世人的束缚、迷惑、丧子、破财、疾病、死亡与恐惧。
4.8.25
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ ४.८.२५ ॥
我失去王国,已投靠你的庇护;低头向你致敬,女神,诸天之后。
4.8.26
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ ४.८.२६ ॥
莲瓣眼的女神啊,请保护我;真实的女神啊,请为我们成就真实。杜尔迦啊,请成为我的庇护,施予庇护者,奉献者的慈爱者。
4.8.27
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ ४.८.२७ ॥
女神受到如此赞颂,便向般度之子显现;走近国王,说了这些话。
4.8.28
शृणु राजन्महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ ४.८.२८ ॥
国王啊,大臂者啊,主啊,请听我的话:不久之后,你将在战斗中获胜。
4.8.29
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ ४.८.२९ ॥
凭着我的恩典,你将战胜并歼灭俱卢军队,使王国无棘无患,并再次享有大地。
4.8.30
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ४.८.३० ॥
国王啊,你将与兄弟们一同获得丰盛的喜悦;凭着我的恩典,你将拥有幸福与健康。
4.8.31
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ ४.८.३१ ॥
在世间中无罪垢者若赞颂我,我心欢喜,便赐予他们王国、寿命、身体与儿子。
4.8.32
प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ४.८.३२ ॥
在流亡之中,或在城中,在战斗中,或在敌人的危难中,在森林里,在险恶的荒野中,在海上,在密林中,或在山上。
4.8.33
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ॥ ४.८.३३ ॥
大王啊,那些如你所念那样记念我的人,在这世间将没有什么是难以得到的。
4.8.34
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ४.८.३४ ॥
这首殊胜的赞歌,若有人以虔敬心聆听或诵读,他的一切事业,诸般美德的般度之子啊,都将成就。
4.8.35
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ॥ ४.८.३५ ॥
因我的恩典,你们住在毗罗陀城中的人,都不会被俱卢族人或当地居民认出。
4.8.36
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् ।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ४.८.३६ ॥
说完这些话,赐予恩惠的女神为制敌者坚战和般度之子们施以护佑,便就在那里隐没了。