摩诃婆罗多 · 章 4.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.9.1
ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम् ।
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन् ॥ ४.९.१ ॥
于是他们走入恒河(Jāhnavī),那圣洁、吉祥、美好的河水,为大仙与乾闼婆所常游,为三界所爱,他们向仙人、诸天与祖先奉献了祭水。
4.9.2
वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः ।
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः ॥ ४.९.२ ॥
国王追念所赐之恩,在圣火中献祭,念诵并行吉祥之礼,然后走向东方,合掌轻声呼唤法神(Dharma)。
4.9.3
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः ।
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ॥ ४.९.३ ॥
我的父亲,心意欢喜的赐恩者生主(Prajāpati),赐予我恩惠。我的兄弟们渴求水源,因我派遣,便进入了那池塘。
4.9.4
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः ।
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ॥ ४.९.४ ॥
在森林中那场大战里,夜叉之首将他们击倒,正如持金刚杵者击倒檀那婆。我前去取悦那赐恩的导师,他想说出一系列问题。
4.9.5
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात् ।
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ॥ ४.९.५ ॥
那位世尊对我心生欢喜,赐予我恩惠;他怀着深情拥抱我,说道:“般度之子啊,你想要的恩惠随意选择吧。我是立于虚空中的赐恩者,你看着我。”
4.9.6
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत् ।
इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ॥ ४.९.६ ॥
我向那位赐予恩惠的父亲、主宰者请求:愿我的心念常乐于法。主啊,愿我的幼弟们活下去,愿我们得回本相与胜利。
4.9.7
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च ।
वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ॥ ४.९.७ ॥
愿忍辱与名声、随所愿的誓愿、真实与圆满皆归于我。愿此恩赐如所宣示般归我所有;天中之牛所说,并非虚妄。
4.9.8
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन् ।
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ॥ ४.९.८ ॥
说完这些,法魂者一心思惟法,就在那一刻,因其恩典,他自己的本相便显现了。
4.9.9
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत ।
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ॥ ४.९.९ ॥
那位再生者以少年之身显现,手持三杖、水瓶,戴着头巾。身穿鲜艳的深红茜草染色华服,头顶结发,双手洁净,此时显现出奇妙的模样。
4.9.10
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः ।
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ॥ ४.९.१० ॥
同样,对于那些奉行法、渴望所赞法之最高果报的大德们,大王啊,顷刻之间便有了相称的饰物、衣服与花鬘。
4.9.11
नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान् ।
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ॥ ४.९.११ ॥
владыка народа, могучий царь, в новом обличье засиял; и он завернул в ткань игральные кости, усыпанные лазуритом, белыми камнями и золотом。
4.9.12
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम् ।
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ॥ ४.९.१२ ॥
于是,坚战从远处首先看见毗罗吒,其光辉极为盛大,如无尽光芒燃烧的火焰,难以接近,如毒牙锐利的毒蛇。
4.9.13
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः ।
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ॥ ४.९.१३ ॥
坐于议会大厅之中,被合掌的众人围绕,充满手持各式奇异兵器的人,以及带着成串礼物入场的人,并充满通晓音韵、字母与咒语的婆罗门。
4.9.14
गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् ।
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् ।
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ॥ ४.९.१४ ॥
象群充斥,马匹拥挤,周围是鹿、象与驼背人众;发髻以高耸的白色头巾束起,戴着精巧雕琢的吠琉璃耳环——毗罗吒。那时坚战走近他,如同天上的木星走近因陀罗。
4.9.15
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा ।
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ॥ ४.९.१५ ॥
毗罗吒王见般度之子走来,以欢悦的目光询问他;这位人主当时又反复询问他、婆罗门以及他的朝臣们。
4.9.16
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम् ।
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ॥ ४.९.१६ ॥
谁曾见过这位走入我会堂的少年?他以容貌与力量照耀大地,如同再生者,光辉如毗沙罗婆那(俱毗罗)。
4.9.17
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा ।
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ॥ ४.९.१७ ॥
他如狮王、象群之主,又如金山般闪耀;如火与太阳一般,他如同与月亮和众星同在的光明行星,熠熠生辉。
4.9.18
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् ।
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः ॥ ४.९.१८ ॥
不见他的随从,也不见象;没有高举的华盖遮挡炽热的阳光;没有耳环、臂钏和花环;也没有以四马驾驭、装饰华丽的车。
4.9.19
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः ।
अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ॥ ४.९.१९ ॥
他具有刹帝利的形貌,如象王、猛虎和大公牛。来到我们这里,他虽无饰物,却如刚刚升起的朝阳般光辉照耀。
4.9.20
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति ।
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ॥ ४.९.२० ॥
毗罗吒对他说:“此人无论如何看来都是刹帝利。他足以统治直至大海的这片大地,如同伐娑婆(因陀罗)。”
4.9.21
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति ।
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ॥ ४.९.२१ ॥
“此人必定不是非刹帝利;我觉得他是受灌顶的国王。他的形貌与象、狮、牛相当。”
4.9.22
यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् ।
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ॥ ४.९.२२ ॥
“这位婆罗门所求的任何愿望,都请无疑地为他办成。见到这样的人我十分欢喜,正如见到杰出的婆罗门和客人一样。”
4.9.23
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ॥ ४.९.२३ ॥
“财富、珠宝、牛群和宅第之中,任他随意往来,不受阻拦。”
4.9.24
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः ।
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ॥ ४.९.२४ ॥
他正这样说着,国王便忽然起身,朝向那光辉无限、闪耀的人,此人以另一种形象走近,手中持着三杖、水瓶、象钩与布袋。
4.9.25
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका ।
सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ॥ ४.९.२५ ॥
众人见他走入大会,光芒灼灼,如同从罗睺口中脱出的太阳,于是这大会连同诸王、婆罗门、刹帝利、吠舍和首陀罗都站了起来。
4.9.26
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः ।
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ॥ ४.९.२६ ॥
那位再生者先以“愿你在此获胜”祝福他。与值得胜利的他相遇后,同样值得胜利的毘罗吒王合掌立于他面前,恭敬地向他行礼。
4.9.27
तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः ।
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ॥ ४.९.२७ ॥
毘罗吒王合掌,以温和的言辞对他说:“尊者,您从何处而来?您有何所求?您将往何处去?婆罗门啊,我能为您做什么?”
4.9.28
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते ।
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ॥ ४.९.२८ ॥
请告诉我您的学问与品行、家族、姓氏与名字,以及您的故乡。因为有德之人言而有信,尤其是出家遊行的再生族。
4.9.29
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् ।
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ॥ ४.९.२९ ॥
我会依照您应得的敬意侍奉您,也不敢轻慢您的言语。因为不受尊敬的再生族如同火焰;如同有毒的蛇,他们能焚毁整个家族。
4.9.30
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् ।
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ॥ ४.९.३० ॥
我愿将整个国土连同军队与府库,以及此城献给你。最优秀的再生者,你来自哪位国王的领地?你在此做什么事?
4.9.31
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् ।
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ॥ ४.९.३१ ॥
对这样说话的国王,坚战反复思量法,回答说:在此谁敢说真实之言?然而,国王啊,请依我所许之诺而听。
4.9.32
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च ।
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ॥ ४.९.३२ ॥
请听我的学问、德行、家族与所行之事,也听我的出生与故乡。依师长的教导与戒律,我的誓愿乃是祖先为遵循家族传统而为我所定。
4.9.33
द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् ।
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ॥ ४.९.३३ ॥
主人啊,我是凭誓愿而成再生者,不是天生的。我剃了头,已出家为苦行者,持三杖。请看我这人身,它只是被五大所覆盖。
4.9.34
ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः ।
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः ॥ ४.९.३४ ॥
此处见我五根之身者说,依天启之言,祖先确为五人。我不思量人类之生,本性上我并不等同于祖先。
4.9.35
कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा ।
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ॥ ४.९.३५ ॥
我以名为Kaṅka的持戒再生者身份来到你的国土。因我自己的业,因沉迷赌博,大王,我失去了财富;我们誓言忠实的苦行者四处流浪。
4.9.36
युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च ।
गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा ॥ ४.९.३६ ॥
从前我也是坚战的朋友,可以入其宫室,亲近其身。我在他的宫中安乐居住;从前在他自己的城中,我曾为王。
4.9.37
ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः ।
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा ॥ ४.९.३७ ॥
依我的命令,女子在那里往来;为使我欢悦,骏马被驯服。我在他的城中所做之事,从前无人曾以别样方式做过。
4.9.38
सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः ।
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ॥ ४.९.३८ ॥
我从前是他的同龄好友,如今极度悲苦地走遍大地。然而我从未在任何地方获得安宁;因持戒的教诲,我为戒律的重担所压。
4.9.39
वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम् ।
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् ॥ ४.९.३९ ॥
哦,人主,我属于毗耶格罗波陀种姓。我们追求的正是那同样的幸福。怀着感恩之心,我讲述了与我平等的坚战的行为。
4.9.40
इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि ।
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः ॥ ४.९.४० ॥
对于我这个进入解脱精舍的人来说,坚战的德行与您相等。我没有母亲,没有父亲,没有亲属;我没有形貌,没有欢乐,也没有子嗣。
4.9.41
सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते ।
मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः ॥ ४.९.४१ ॥
如今对我而言,苦乐相等,爱与不爱相等,去与来相等。如今我已摆脱欲望与财富,来到这里,在您的庇护下居住。
4.9.42
संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः ।
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः ॥ ४.९.४२ ॥
在此一年之后,我这执行艰难苦行的誓愿便将圆满。那时,我以行为令您满意,然后便会回到我好奇心所生之处。
4.9.43
अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् ।
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः ॥ ४.९.४३ ॥
我总是擅长掷骰子,却是一个失败的人;像沙古尼那样思量鸟的鸣叫,思量鹿与鸟的鸣叫,无所依靠,我已成为出家的乞食者。
4.9.44
तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च ।
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ॥ ४.९.४४ ॥
他这样说后,国王合掌看着这位出家人,心中欢喜,便说出了吉祥美好、悦耳动听、会众皆闻的话语。
4.9.45
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान् ।
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ॥ ४.९.४५ ॥
我把你想要的恩赐赐予你;如果你认为合适,就统治摩蹉人吧。我亲爱的赌徒们精通骰子,而你,我的主人,也配得上我的王国。
4.9.46
समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम् ।
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ॥ ४.९.४६ ॥
车乘、座席、衣服、饮食、丰盛的花环、装饰与香膏,你总是配得上这些,如同普天之下的主君;因为我以你的常常相见为珍贵。
4.9.47
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः ।
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ॥ ४.९.४७ ॥
那些被灾祸所困、奔到你面前的人,不论是再生者中的上等人还是其他人,我都会应你所请办妥他们所有的事;这一点我毫无疑问。
4.9.48
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् ।
यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ॥ ४.९.४८ ॥
若有人在我身边做了令您不快之事,经过考虑后应将此人放逐。凡我所有的财物,您都是其主宰与掌管者;请在此居住。
4.9.49
अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम् ।
न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ॥ ४.९.४९ ॥
因此我没有至高的欲望;我所赢得的财富也不留存,任何食物也不触碰。我只食祭供之食,夜里睡在地上。
4.9.50
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित् ।
एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ॥ ४.९.५० ॥
依誓戒的教导,此约束是必须遵守的:人主啊,不应对任何人发怒。国王啊,对于我这样立下誓愿的人,留居此地的心意将如此,而不会有其他。
4.9.51
एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ ॥ ४.९.५१ ॥
如此,马特亚王啊,我选择所赐予的恩惠;无瑕之人啊,我将依你的恩惠而行。
4.9.52
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च ।
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ॥ ४.९.५२ ॥
如此,马特亚王毗罗吒与坚战首次相见;毗罗吒王与他的相遇,犹如毗湿奴与持金刚者相遇一般。
4.9.53
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः ।
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ॥ ४.९.५३ ॥
国王注视着端坐于座位上、容貌悦人的他,却仍不满足;而坚战以光辉照耀着那个大厅,犹如因陀罗照耀天界。
4.9.54
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा ।
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ॥ ४.९.५४ ॥
如此,那位人中雄牛、英勇的国王在那时获得了与毗罗吒王的相见,受到极大的尊敬,安乐地居住;而无人understood 他的那种行为。