Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
कृत्वा विवाहं तु कुरुप्रवीरा-
स्तदाऽभिमन्योर्मुदिताः सपक्षाः।
विश्रम्य रात्रावुषसि प्रतीताः ।
सभां विराटस्य ततोऽभिजग्मुः ॥ ५.१.१ ॥

向那罗延、人中之最的那罗以及女神萨拉斯瓦蒂致敬之后,应当宣告胜利。完成阿毗摩世的婚礼后,欢喜的俱卢英雄与同盟者一起在夜间休息,黎明时心满意足地前往毗罗吒的议会大厅。

5.1.2

सभा तु सा मत्स्यपतेः समृद्धा ।
मणिप्रवेकोत्तमरत्नचित्रा।
न्यस्तासना माल्यवती सुगन्धा ।
तामभ्ययुस्ते नरराजवर्याः ॥ ५.१.२ ॥

那位摩蹉王的议会大厅富丽堂皇,镶嵌着上好的宝珠与珍宝,座位已经摆设,装饰着花环,芳香四溢。那些最杰出的国王走近了它。

5.1.3

अथासनान्याविशतां पुरस्ता-
दुभौ विराटद्रुपदौ नरेन्द्रौ।
वृद्धौ च मान्यौ पृथिवीपतीनां ।
पित्रा समं तमजनार्दनौ च ॥ ५.१.३ ॥

随后,前排座位上坐下了两位人主——毗罗吒与德鲁帕达,他们年长,在大地之主中受人尊敬,与父亲同坐;那位阿难陀那也坐下了。

5.1.4

पाञ्चालराजस्य समीपतस्तु ।
शिनिप्रवीरः सहरौहिणेयः
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ ।
जनार्दनश्चैव युधिष्ठिरश्च ॥ ५.१.४ ॥

在般遮罗王身旁坐着施尼族的英雄与罗诃尼耶;而紧挨着摩蹉王的,是克里希那与坚战。

5.1.5

सुताश्च सर्वे द्रुपदस्य राज्ञो ।
भीमार्जुनौ माद्रवतीसुतौ च।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ ।
विराटपुत्रैश्च सहाभिमन्युः ॥ ५.१.५ ॥

德鲁帕达王的所有儿子,婆罗和阿周那,摩德利的两个儿子,普拉朱姆那和桑波,战场上的英雄,以及与毗罗吒之子们在一起的阿毗曼纽。

5.1.6

सर्वे च शूराः पितृभिः समाना ।
वीर्येण रूपेण बलेन चैव।
उपाविशन्द्रौपदेयाः कुमाराः ।
सुवर्णचित्रेषु वरासनेषु ॥ ५.१.६ ॥

所有英雄在勇气、容貌和力量上都与其父相当。德劳帕蒂的王子们坐在镶嵌金饰的上好座位上。

5.1.7

तथोपविष्टेषु महारथेषु ।
विराजमानाभरणाम्बरेषु
रराज सा राजवती समृद्धा ।
ग्रहैरिव द्यौर्विमलैरुपेता ॥ ५.१.७ ॥

当大战车武士们如此就坐,佩戴的饰品和衣裳闪闪发光时,这繁荣的国王集会如同点缀着明亮星辰的天空一样熠熠生辉。

5.1.8

ततः कथास्ते समवाययुक्ताः ।
कृत्वा विचित्राः पुरुषप्रवीराः ।
तस्थुर्मुहूर्तं परिचिन्तयन्तः ।
कृष्णं नृपास्ते समुदीक्षमाणाः ॥ ५.१.८ ॥

于是这些英雄们沉浸于各种交谈之中,片刻沉思地站着,那些国王凝视着黑天。

5.1.9

कथान्तमासाद्य च माधवेन ।
संघट्टिताः पाण्डवकार्यहेतोः।
ते राजसिंहाः सहिता ह्यश्रृण्व-
न्वाक्यं महार्थं सुमहोदयं च ॥ ५.१.९ ॥

谈话结束时,这些如狮子般的国王与摩陀婆一起为般度五子之事聚集,共同聆听了意义重大、影响深远的言辞。

5.1.10

सर्वैर्भवद्भिर्विदितं यथाऽयं ।
युधिष्ठिरः सौबलेनाक्षवत्याम्।
जितो निकृत्याऽपहृतं च राज्यं ।
वनप्रवासे समयः कृतश्च ॥ ५.१.१० ॥

你们都知道,须跋罗之子(沙恭尼)以诡计在掷骰戏中击败了坚战,夺走了他的王国,并约定了林中流放的期限。

5.1.11

शक्तैर्विजेतुं तरसा महीं च ।
सत्ये स्थितैः सत्यरथैर्यथावत्।
पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं ।
वर्षाणि षट् सप्त च चीर्णमग्र्यैः ॥ ५.१.११ ॥

般度之子能够迅速征服大地,安住于真实,是真正的御者。他们以恰当的方式,在可怕的境况中忍受了六年、七年,如同人中之最。

5.1.12

रिच्छद्भिराप्तं स्वकुलेन राज्यम् ॥ ५.१.१२ ॥

被自己家族所夺去的王国,已被他们重新取得。

5.1.13

एवं गते धर्मसुतस्य राज्ञो ।
दुर्योधनस्यापि च यद्धितं स्यात्।
तच्चिन्तयध्वं कुरुपाण्डवानां ।
धर्म्यं च युक्तं च यशस्करं च ॥ ५.१.१३ ॥

事已如此,请思量:对法之子国王坚战,以及对难敌,什么是有益的;对俱卢与般度,什么是合乎法、适宜且能带来荣誉的。

5.1.14

अधर्मयुक्तं न च कामयेत ।
राज्यं सुराणामपि धर्मराजः।
धर्मार्थयुक्तं तु महीपतित्वं ।
ग्रोमेऽपि कस्मिंश्चिदयं बुभूषेत् ॥ ५.१.१४ ॥

法王不会贪求与非法相连的王国,即便是诸天的王国也不求。但与法和财富相连的统治大地的权位,哪怕只是统治某一个村落,他或许也会愿意。

5.1.15

पित्र्यं हि राज्यं विदितं नृपाणां ।
यथाऽपकृष्टं धृतराष्ट्रपुत्रैः।
मिथ्योपचारेण यथा ह्यनेन ।
कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥ ५.१.१५ ॥

君王世袭的国土人所共知;正如持国之子夺去了它,这人也因虚假的行为而遭受了巨大而难以忍受的苦难。

5.1.16

न चापि पार्थो विजितो रणे तैः ।
स्वतेजसा धृतराष्ट्रस्य पुत्रैः।
तथाऽपि राजा सहितः सुहृद्भि-
रभीप्सतेऽनामयमेव तेषाम् ॥ ५.१.१६ ॥

般度之子在战斗中并未被他们战胜,持国之子也未以自身威力战胜他;然而国王与其友人仍只愿他们平安。

5.1.17

यत्तु स्वयं पाण्डुसुतैर्विजित्य ।
समाहृतं भूमिपतीन्प्रपीड्य
तत्प्रार्थयन्ते पुरुषप्रवीराः ।
कुन्तीसुता माद्रवतीसुतौ च ॥ ५.१.१७ ॥

般度之子亲自征服并聚敛、压迫诸地之王所得的那一切,正是人中英雄——昆提之子与摩德罗之女的两个儿子——所索求的。

5.1.18

बलाभियुक्तैर्विविधैरुपायैः ।
संप्रार्थिता हन्तुममित्रसङ्घैः।
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः ।
सर्वं च तद्वो विदितं यथावत् ॥ ५.१.१८ ॥

由有力量的人,由敌人众多通过种种计谋怂恿来杀害,由想要夺取王国的邪恶残暴之人所为——这一切你们都如实知道。

5.1.19

तेषां च लोभं प्रसमीक्ष्य वृद्धं ।
धर्मज्ञतां चापि युधिष्ठिरस्य।
संबन्धितां चापि समीक्ष्य तेषां ।
मतिं कुरुध्वं सहिताः पृथक्व । ॥ ५.१.१९ ॥

仔细考虑他们膨胀的贪欲、坚战的法义之知以及他们的亲属关系之后,你们或共同或各自做出决定。

5.1.20

इमे च सत्येऽभिरताः सदैव ।
तं पालयित्वा समयं यथावत्।
अतोऽन्यथा तैरुपचर्यमाणा ।
हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥ ५.१.२० ॥

这些人总是忠于真理。若依约遵守誓言;否则,若被他们如此对待,他们就会杀死聚集在一起的持国之子。

5.1.21

तैर्विप्रकारं च निशम्य कार्ये ।
सुहृज्जनास्तान्परिवारयेयुः।
युद्धेन बाधेयुरिमांस्तथैवं ।
तैर्बाध्यमाना युधि तांश्च हन्युः ॥ ५.१.२१ ॥

听闻他们所加的侮辱,这件事中的朋友们会包围他们;在战争中逼迫这些人;同样,被他们逼迫之后,就会在战斗中杀死他们。

5.1.22

तथाऽपि नेमेऽल्पतयाऽसमर्था-
स्तेषां जयायेति भवेन्मतिर्वः ।
समेत्य सर्वे सहिताः सुहृद्भि-
स्तेषां विनाशाय यतेयुरेव ॥ ५.१.२२ ॥

然而这些人因人数少而无能为力,你们的主意或许是助其取胜。与所有朋友会合一起,你们应当只为他们的毁灭而努力。

5.1.23

दुर्योधनस्यापि मतं यथाव-
न्न ज्ञायते किं नु करिष्यतीति
अज्ञायमाने च मते परस्य ।
मन्त्रस्य पारं कथमभ्युपेमः ॥ ५.१.२३ ॥

连难敌的意见也不清楚,不知他将做什么。对方的意图既不明,我们如何能走到商议的尽头?

5.1.24

तस्मादितो गच्छतु धर्मशीलः ।
शुचिः कुलीनः पुरुषोऽप्रमत्तः।
दूतः समर्थः प्रशमाय तेषां ।
राज्यार्धदानाय युधिष्ठिरस्य ॥ ५.१.२४ ॥

因此,应从此地派一位品性端正、清净、出身高贵、谨慎而有能力的人去他们那里作使者,以求达成和解,将半个王国交给坚战。

5.1.25

निशम्य वाक्यं तु जनार्दनस्य ।
धर्मार्थयुक्तं मधुरं समं च।
समाददे वाक्यमथाग्रजोऽस्य ।
संपूज्य वाक्यं तदतीव राजन् ॥ ५.१.२५ ॥

聆听了遮那陀那(黑天)那些合于法与利、甜美而公允的话语后,他的长兄接受了这些话语;大王啊,他对这些话极为敬重。