Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.10.1

सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् ।
न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत् ॥ ५.१०.१ ॥

诸位天神啊,弗栗多已经遍布这整个不朽的世界;没有任何能与他相匹敌、足以阻挡他的事物。

5.10.2

समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम् ।
कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः ॥ ५.१०.२ ॥

我以前有能力,现在却已无能为力。那么,如何完成为你们谋福的大事呢?在我看来他难以战胜。

5.10.3

तेजस्वी च महात्मा च युद्धे चामितविक्रमः ।
ग्रसेत्रिभुवनं सर्वं सदेवासुरमानुषम् ॥ ५.१०.३ ॥

他光芒耀眼、心胸高尚,在战斗中武勇无量;他能吞噬三界,包括诸天神、阿修罗与人类。

5.10.4

तस्माद्विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः ।
विष्णोः क्षयमुपागम्य समेत्य च महात्मना ॥ ५.१०.४ ॥

因此,天界的居民们,请听我的决定:前往毗湿奴的居所,与那位大德相见……

5.10.5

तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ।
एवमुक्ते मघवता देवाः शर्षिगणास्तदा।
शरण्यं शरमं देवं जग्मुर्विष्णुं महाबलम् ॥ ५.१०.५ ॥

与他商议之后,我们就会知道诛杀那恶人的办法。摩诃婆(因陀罗)这样说了以后,诸神与仙人群便前往那位可作庇护、能摧毁敌人的大力神毗湿奴那里。

5.10.6

ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः ।
त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा ॥ ५.१०.६ ॥

众神都因惧怕弗栗多而痛苦,他们对诸神之主毗湿奴说:'往昔,你以三步跨越了三界。'

5.10.7

अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे ।
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥ ५.१०.७ ॥

毗湿奴啊,甘露已被取回,阿修罗在战斗中被杀,大阿修罗钵利被缚,因陀罗被立为诸神之主。

5.10.8

त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम् ।
त्वं हि देवो महादेव सर्वलोकनमस्कृतः ॥ ५.१०.८ ॥

你是诸神之主;这一切都由你遍布。你确是神,大天啊,被一切世界所礼敬。

5.10.9

गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम ।
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥ ५.१०.९ ॥

愿你成为诸神与因陀罗同在者的归依,不死者中最优秀的。阿修罗的摧毁者啊,整个世界已被弗栗多遍布。

5.10.10

अवश्यं करणीयं मे भवतां हितमुत्तमम् ।
तस्मादुपायं वक्ष्यामि यथाऽसौ नभविष्यति ॥ ५.१०.१० ॥

我必定要为你们做最好的事;因此我将告诉你们一个方法,使他将被消灭。

5.10.11

गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् ।
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ ५.१०.११ ॥

诸仙与乾达婆啊,前往那位显现宇宙形相者所在之处;对他施以和解之策,然后你们就能战胜他。

5.10.12

भविष्यति जयो देवाः शक्रस्य मम तेजसा ।
अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे ॥ ५.१०.१२ ॥

诸神啊,凭借我的光辉,因陀罗将获胜。我将隐身进入他最优越的武器——金刚杵之中。

5.10.13

गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः ।
वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ॥ ५.१०.१३ ॥

诸位最尊贵的天神啊,你们与仙人和乾闼婆同去,与因陀罗一同与弗栗多即刻议和吧。

5.10.14

एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा ।
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥ ५.१०.१४ ॥

天神如此说后,仙人与诸天集合在一起,以因陀罗为首出发了。

5.10.15

समीपमेत्य च यदा सर्व एव महौजसः ।
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥ ५.१०.१५ ॥

当这些大力者全部来到近前时,他们看见他以光辉燃烧,炙烤着十方。

5.10.16

ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा ।
ददृशुस्ते ततो वृत्रं शक्रेण सह देवताः ॥ ५.१०.१६ ॥

于是诸天看见弗栗多与因陀罗在一起,仿佛在吞噬三界,如同日月一般。

5.10.17

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ।
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥ ५.१०.१७ ॥

于是仙人们走近弗栗多,说了悦耳的话:“不可战胜者啊,这整个世界都被你的光辉充满了。”

5.10.18

न च शक्नोषि निर्जेषुं वासवं बलिनां वर ।
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥ ५.१०.१८ ॥

最强者啊,你无法战胜婆薮(因陀罗);你们二人在此争斗,已经过去了很长的时间。

5.10.19

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः ।
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥ ५.१०.१९ ॥

诸生,包括天神、阿修罗与人类,都在受苦。愿你与帝释天永远为友,哦,弗栗多。

5.10.20

अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ।
ऋषिवाक्यं निशम्याथ वृत्रःस तु महाबलः ॥ ५.१०.२० ॥

你将获得幸福与帝释天的永恒世界。弗栗多闻听仙人之言后,这位大力者……

5.10.21

उवाच तानृषीन्सर्वान्प्रणम्य शिरसाऽसुरः ।
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ॥ ५.१०.२१ ॥

阿修罗低首向所有仙人致敬,说道:“你们都是大福之人,而且在各方面也都是乾闼婆。”

5.10.22

यद्ब्रूथ तच्छ्रुतं सर्वं ममापि श्रृणुतानघाः ।
सन्धिः कथं वै भविता मम शक्रस्य चोभयोः ।
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥ ५.१०.२२ ॥

你们所说的,我都听到了。无罪的诸位,现在也请听我说。我与帝释天之间如何能缔结和约?诸位天神啊,两位光辉者之间如何能有友谊?

5.10.23

सकृत्सतां सङ्गतमीप्सितव्यं ।
ततः परं भविता भव्यमेव।
नातिक्रामेत्सत्पुरुषेण सङ्गतं ।
तस्मात्सतां संगतमीप्सितव्यम् ॥ ५.१०.२३ ॥

与善人相交,即使一次也值得追求;此后必定只有吉祥。与善人结下的缘分,人不应当违背。因此应当追求与善人相交。

5.10.24

दृढं सतां सङ्गतं चापि नित्यं ।
ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीराः ।
महार्थवत्सत्पुरुषेण सङ्गतं ।
तस्मात्सन्तं न जिघांसेत धीरः ॥ ५.१०.२४ ॥

善人的交往应当始终坚定;在困境中,坚毅的人应说有意义的话。应与有大志的善人相交。因此,坚毅的人不应伤害善人。

5.10.25

इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् ।
सत्यवादी ह्यनिन्द्यश्च धर्मवित्सूक्ष्मनिश्चयः ॥ ५.१०.२५ ॥

因陀罗受善人尊敬,是大德者的居所。他说真话,无可指责,通晓法,判断精微。

5.10.26

तेन ते सह शक्रेण सन्धिर्भवतु नित्यदा ।
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥ ५.१०.२६ ॥

愿你与那位帝释常保盟约。如此生起信任,你的心智不要有别的想法。

5.10.27

महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः ।
अवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥ ५.१०.२७ ॥

大光明者听了大仙的话,对他们说:“诸位尊贵的苦行者,我必定应当尊敬你们。”

5.10.28

ब्रवीमि यदहं देवास्तत्सर्वं क्रियते यदि ।
ततः सर्वं करिष्यामि यदूचुर्मां दिवौकसः ॥ ५.१०.२८ ॥

“诸天啊,若我所说的一切都能做到,那么天界的居民对我所说的一切,我都会去做。”

5.10.29

न शुष्केण न चाद्रेण नाश्मना न च दारुणा ।
न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि ॥ ५.१०.२९ ॥

不以干物,也不以湿物;不以石头,也不以木头;不以兵器,也不以投射之器;不在白天,也不在夜里。

5.10.30

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ।
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ॥ ५.१०.३० ॥

愿我与诸天神一同被帝释(因陀罗)所杀,诸位婆罗门中的至尊啊;我认为与帝释永远结盟才是我所愿。

5.10.31

बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ ।
एवं वृत्ते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ॥ ५.१०.३१ ॥

诸仙人对他说:“很好,就这样吧。”婆罗多族的雄牛啊!如此盟约既成,弗栗多十分欢喜。

5.10.32

ततः सन्धिं मिथः कृत्वा ऋषयो दीप्ततेजसः ।
शक्रस्य सह वृत्रेण पुनर्जग्मुर्यथागतम् ॥ ५.१०.३२ ॥

随后,光辉灼灼的诸仙人使帝释与弗栗多彼此立约,便循原路返回了。

5.10.33

युक्तः सदाऽभवच्चापि शक्रो हर्षसमन्वितः ।
वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत् ॥ ५.१०.३३ ॥

帝释也始终欣喜而警觉,开始思索与诛杀弗栗多相关的种种计策。

5.10.34

अभिसन्धिर्महेन्द्रस्य सन्धिकर्मणि यः कृतः ।
ऋषिभिस्त्वीरितं यच्च महेन्द्रस्तदनुस्मरन् ॥ ५.१०.३४ ॥

大因陀罗回想起在立约之时所怀的意图,以及诸仙人所说的话……

5.10.35

छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट् ।
स कदाचिन्समुद्रान्ते समपश्यन्महासुरम् ॥ ५.१०.३५ ॥

诸神之王常怀忧虑,四处寻找破绽而居。他某次在大海边,看见了那位大阿修罗。

5.10.36

सन्ध्याकाल उपावृत्ते मुहूर्ते चातिदारुणे ।
ततः संचिन्त्य भगवान्वरदानं महात्मनः ॥ ५.१०.३६ ॥

黄昏临近,在那极其可怖的时刻,世尊思量这位大德者的恩赐之后,

5.10.37

सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ।
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥ ५.१०.३७ ॥

这是可怕的黄昏,既非夜晚也非白昼。而这弗栗多,是夺走我一切的仇敌,必须将他杀死。

5.10.38

यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् ।
महाबलं महाकायं न मे श्रेयो भविष्यति ॥ ५.१०.३८ ॥

若今日我不以诡计杀死大阿修罗弗栗多,那么只要这位大力、巨身者存在,我便无福可言。

5.10.39

एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् ।
अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमप् ॥ ५.१०.३९ ॥

沙迦罗如此思量时,忆念毗湿奴。随即他在海中看见一团如山的泡沫。

5.10.40

नायं युष्को न चाद्रोऽयं न च शस्त्रमिदं तथा ।
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥ ५.१०.४० ॥

此物既非干燥,亦非湿润,也不是兵器。我要将它掷向弗栗多,他将在一瞬间灭亡。

5.10.41

सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् ।
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥ ५.१०.४१ ॥

随即他连同金刚杵迅速将那团泡沫掷向弗栗多。毗湿奴进入那泡沫之中,摧毁了弗栗多。

5.10.42

निहते तु ततो वृत्रे दिशो वितिमिराऽभवन् ।
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तथा ॥ ५.१०.४२ ॥

弗栗多被杀之后,诸方不再昏暗,吉祥的风吹拂起来,众生也同样欢喜。

5.10.43

ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः ।
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥ ५.१०.४३ ॥

于是诸天与乾达婆、夜叉、罗刹、大蛇及仙人,以种种赞歌赞颂大因陀罗。

5.10.44

नमस्कृतः सर्वभूतैः सर्वभूतान्यसान्त्वयत् ।
हत्वा शत्रुं प्रहृष्टात्मा वासवः सह दैवतैः ॥ ५.१०.४४ ॥

受到一切众生的礼敬,他安抚了所有众生;杀死敌人后,心怀喜悦的婆娑与诸天同在。

5.10.45

विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ।
ततो हते महावीर्ये वृत्रे देवभयङ्करे ॥ ५.१०.४५ ॥

知法者礼拜三界中最尊贵的毗湿奴;此后,令诸天恐惧的大勇者弗栗多被杀……

5.10.46

अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ।
त्रैशीर्षयाऽभिभूतश्च स पूर्वं ब्रह्महत्यया ॥ ५.१०.४६ ॥

舍脂被虚妄所压,内心极为烦恼;他先前也曾因杀害三头者而被婆罗门杀罪所压。

5.10.47

महादेवस्य भूतैश्च स पुनर्ब्रह्महा इति ।
आक्रुष्टो निर्भयैर्भूयो व्रीडितो बलवृत्रहा ॥ ५.१०.४७ ॥

摩诃提婆的随从鬼众与无畏者再次斥骂他为“杀婆罗门者”,杀死强大弗栗多的因陀罗又一次感到羞愧。

5.10.48

सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकर्मभिः ॥ ५.१०.४८ ॥

他投身于世界的尽头,失去知觉,变得毫无意识;被自己的所作所为所压倒,众神之王因陀罗已无人认出。

5.10.49

प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः ।
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्या भयार्दिते ॥ ५.१०.४९ ॥

他隐匿于水中居住,像蛇一样扭动。随后因陀罗消失,诸神因杀婆罗门之罪的恐惧而痛苦……

5.10.50

भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना ।
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥ ५.१०.५० ॥

大地仿佛破碎一般,无树木,森林枯干;河流的水道被切断,湖泊变得无水。

5.10.51

संक्षोभश्चापि सत्वानामनावृष्टिकृतोऽभवत् ।
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥ ५.१०.५१ ॥

因缺雨,众生也陷入骚动;诸神极为惊恐,所有大仙人也同样如此。

5.10.52

अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।
ततो भीताऽभवन्देवाः को नो राजा भवेदिति ॥ ५.१०.५२ ॥

没有国王,整个世界被灾祸所笼罩;于是诸神惊恐地说:“谁来做我们的王?”

5.10.53

दिवि देवर्षयश्चापि देवराजविनाकृताः ।
न स्म कश्चन देवानां राज्ये वै कुरुते मतिम् ॥ ५.१०.५३ ॥

天界的神仙圣人也失去了众神之王;众神中没有人有意于王位。