Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.100.1

हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् ।
दैत्यानां दानवानां च मायाशतविचारिणाम् ॥ ५.१००.१ ॥

这座伟大而卓越的城市名为黄金城,属于那些施展百般幻术的提陀族与檀那伐族。

5.100.2

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा ।
मयेन मनसा सृष्टं पातालतलमाश्रितम् ॥ ५.१००.२ ॥

此城由毗首羯摩费大力气建造,由摩耶以心念创造,位于地底的深渊之中。

5.100.3

अत्र मायासहस्राणि वविकुर्वाणा महौजसः ।
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ॥ ५.१००.३ ॥

此处居住着大力的勇猛檀那伐族,他们施展千般幻术,往昔曾得到恩赐的赠予。

5.100.4

नैते शक्रेण नान्येन यमेन वरुणेन वा ।
शक्यन्ते वशमानेतुं तथैव धनदेन च ॥ ५.१००.४ ॥

无论是因陀罗、其他任何神,阎摩、伐楼那,还是俱毗罗,都无法制服他们。

5.100.5

असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः ।
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये ॥ ५.१००.५ ॥

阿修罗、迦罗康阇,生于毗湿努足的,罗刹、食人鬼,以及生于梵天足的那些,

5.100.6

दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः ।
मायावीर्योपसंपन्ना निवसन्त्यत्र मातले ॥ ५.१००.६ ॥

獠牙者、速度可怖者、具有风般迅捷与勇力者、具备幻术之力者,居住在此摩陀罗(Mātala)的领域之中。

5.100.7

निवातकवचा नाम दानवा युद्धदुर्मदाः ।
जानासि च यथा शक्रो नैताञ्शक्रोति बाधितुं ॥ ५.१००.७ ॥

名为尼瓦塔卡瓦恰的檀那婆,在战斗中狂妄自负。你知道因陀罗也无法制服他们。

5.100.8

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः ।
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ॥ ५.१००.८ ॥

摩多利啊,你和你的儿子郭牟卡曾多次被击败;舍质之夫、天王也与其子一同被击溃。

5.100.9

पश्य वेश्मानि रौक्माणि मातले राजतानि च ।
कर्मणा विधियुक्तेन युक्तान्युपगतानि च ॥ ५.१००.९ ॥

摩多利啊,请看那金银的宫殿,它们依法建造,工艺精巧地组合在一起。

5.100.10

वैदूर्यमणिचित्राणि प्रवालरुचिराणि च ।
अर्कस्फटिकशुभ्राणि वज्रसारोञ्ज्वलानि च ॥ ५.१००.१० ॥

以猫眼石和诸宝装饰而五彩斑斓,珊瑚使其更加可爱,如日光石与水晶般洁白,闪耀着金刚之精华。

5.100.11

पार्थिवानीव चाभास्ति पद्मरागमयानि च ।
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत ॥ ५.१००.११ ॥

它们如大地般闪耀,以红宝石制成;看起来如山峦,又如木制的一般。

5.100.12

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च ।
मणिजालविचित्राणि प्रांशूनि निबिडानि च ॥ ५.१००.१२ ॥

它们闪耀如太阳之形,又如熊熊烈火;以宝网装饰而五彩斑斓,高大而密集。

5.100.13

नैतानि शक्यं निर्देष्टु रूपतो द्रव्यतस्तथा ।
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ॥ ५.१००.१३ ॥

这些事物无法以形态、质料或品质来描述;它们已臻圆满,具备尺度与殊胜。

5.100.14

आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत ।
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ॥ ५.१००.१४ ॥

看那些檀那婆的游乐之所,还有他们的卧榻,以及镶嵌宝石、极为珍贵的器皿与座椅。

5.100.15

जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च ।
कामपुष्पफलांश्चापि पादपान्कापचारिणः ॥ ५.१००.१५ ॥

如云的山峦、泉水与瀑布;随意开花结果、自在移动的树木。

5.100.16

मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् ।
अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे ॥ ५.१००.१६ ॥

摩多梨啊,或许在此你也能得到一件称心的恩赐;或者,若你认为可以,我们就去大地的另一个方向。

5.100.17

मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् ।
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ॥ ५.१००.१७ ॥

摩多梨对如此言说的他说:「天仙啊,我不该去做令三界天人不悦之事。」

5.100.18

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः ।
परपक्षेण संबन्धं रोचयिष्याम्यहं कथम् ॥ ५.१००.१८ ॥

天神与檀那婆虽为兄弟,却常被仇怨所缠;我又怎能愿意与敌对一方结亲?

5.100.19

अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् ।
जानामि तव चात्मानं हिंसात्मकमनं तथा ॥ ५.१००.१९ ॥

我们去别处吧;我不适合去见檀那婆。我也知道你的心和它暴戾的本性。