Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 5.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.104.1

मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः ।
अब्रवीद्देवराजं तमार्यकं कुरुनन्दन ॥ ५.१०४.१ ॥

マータリの言葉を聞いて、聖者の中の最上の者ナーラダは神々の王に語った、クルの喜びよ。

5.104.2

सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् ।
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥ ५.१०४.२ ॥

マータリという御者は、シャクラの愛する友である。清らかで、善行と徳を備え、輝かしく、勇敢で力強い。

5.104.3

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।
अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥ ५.१०४.३ ॥

彼はシャクラの友であり、顧問であり、また御者でもある。どの戦いでも、その力はヴァーサヴァとわずかの差しかない。

5.104.4

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।
देवासुरेषु युद्धेषु मनसैव नियच्छति ॥ ५.१०४.४ ॥

神々とアスラの戦いにおいて、彼は千頭の金色の馬で牽かれたこの最上の勝利の戦車を、心だけで御する。

5.104.5

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ॥ ५.१०४.५ ॥

彼が勝ち取った馬によって、ヴァーサヴァは両腕で勝利する。彼によって、バラを滅ぼす者は先に打たれた時には打ち返す。

5.104.6

अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ॥ ५.१०४.६ ॥

彼の娘は、腰の美しい女で、大地で美貌に並ぶ者なく、真実と善行と徳を備え、グナケーシーとして名高い。

5.104.7

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते ।
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥ ५.१०४.७ ॥

彼女のために三界をくまなく探したところ、不死者のように輝くお方よ、あなたの孫スムカが娘の夫として私の気に入りました。

5.104.8

यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् ।
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ॥ ५.१०४.८ ॥

もしこれが十分にお気に召すなら、蛇の中の最上のお方よ、遅れてはなりません。尊き方よ、乙女を迎える決意を速やかになさい。

5.104.9

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥ ५.१०४.९ ॥

ヴィシュヌの家にラクシュミーがあり、ヴィバーヴァス(アグニ)の家にスヴァーハーがあるように、あなたの家にも細い腰の美女グナケーシーがあらんことを。

5.104.10

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥ ५.१०४.१० ॥

ですから、孫のためにグナケーシーをお受け取りください。ヴァーサヴァ(インドラ)にシャチーがふさわしいように、ヴァーサヴァと同じ姿の彼にふさわしい人です。

5.104.11

पितृहीनमपि ह्येनं गुणतो वरयामहे ।
बहुमानाच्च भवतस्तथैवैरावतस्य च ॥ ५.१०४.११ ॥

父を持たない者ですが、その徳ゆえに私たちは彼を婿に選びます。あなたへの深い敬意から、そしてアイラーヴァタへの敬意からも同様です。

5.104.12

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ।
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।
मातलिस्तस्य संमानं कर्तुमर्हो भवानपि ॥ ५.१०४.१२ ॥

スムカの徳と、その品行、清浄、克己などのゆえに、この方(カンヴァ)自らがおいでになり、乙女を差し出そうとしておられます。あなたもまたマータリに敬意を示すにふさわしい方です。

5.104.13

स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः ।
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥ ५.१०४.१३ ॥

悲しみながらも喜んで、アーリヤカはナーラダに語った。孫が婿に選ばれようとしており、息子はすでに死んでいたときに。

5.104.14

मन्ये नैतद्बहुमतं महर्षे वचनं तव ।
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्।
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ॥ ५.१०४.१४ ॥

アーリヤカは言った。大仙よ、あなたの言葉を私は重んじません。インドラの友と結ばれた者を、誰が望まないことがあろうか。しかし理由の弱さゆえに、大仙よ、私は思い悩んでいる。

5.104.15

अस्य देहकरस्तात मम पुत्रो महाद्युते ।
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥ ५.१०४.१५ ॥

アーリヤカは言った。愛しき者よ、輝ける者よ、この身体を形づくった私の息子は、ヴィナターの子(ガルダ)に喰われてしまった。それゆえ我らは悲しみに苦しんでいる。

5.104.16

पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥ ५.१०४.१६ ॥

さらに、去りながらヴィナターの子は言った。『主よ、もう一か月後に私はスムカを喰らうであろう。』

5.104.17

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् ।
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥ ५.१०४.१७ ॥

必ずやそうなるであろう。我々は彼の決意を知っている。スパルナ(ガルダ)のその言葉によって、私の喜びは失われた。

5.104.18

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया ।
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥ ५.१०४.१८ ॥

しかしマータリは彼に言った。『ここで私はこの決意をした。あなたの息子の息子スムカは、婿として選ばれたのだ。』

5.104.19

सोऽयं मया च सहितो नारदेन च पन्नगः ।
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥ ५.१०४.१९ ॥

この蛇は私とナーラダと共に行き、三界の主、神々の王ヴァーサヴァ(インドラ)に会うがよい。

5.104.20

शेषेणैवास्य कार्येण प्रज्ञास्वाम्यहमायुषः ।
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥ ५.१०४.२० ॥

善き者の中の最上者よ、この務めの残りによって私は自らの寿命を知るであろう。そしてスパルナ(ガルダ)を妨げるよう努めよう。

5.104.21

सुमुखश्च मया सार्धं देवेशमिगच्छतु ।
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ॥ ५.१०४.२१ ॥

スムカもまた私と共に神々の主のもとへ行くがよい。任務を成し遂げるために、そなたに幸いあれ、蛇よ。

5.104.22

आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत ।
ततस्ते सुमुखं गृह्य सर्व एव महौजसः।
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥ ५.१०४.२२ ॥

アーリヤカに許され「行け」と言われて、バラタの子よ、彼ら大力の者たちはみなスムカを連れ、座している大いなる輝きの神々の王シャクラを見た。

5.104.23

सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥ ५.१०४.२३ ॥

そこの集会には世尊ヴィシュヌが四本の腕をもって居られた。そしてナーラダはマータリにそのすべてを語った。

5.104.24

ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम् ।
अमृतं दीयतामस्मै क्रियताममरैः समः ॥ ५.१०४.२४ ॥

そこでヴィシュヌは世界の主プランダラ(インドラ)に言った。「彼に甘露を与え、不死の神々と等しき者とせよ」。

5.104.25

मातलिर्नारदश्चैव सुमुखश्चैव वासव ।
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥ ५.१०४.२५ ॥

マータリ、ナーラダ、そしてスムカもまた、ヴァーサヴァよ。あなたから望みのままに、この望まれた恩寵を授かりますように。

5.104.26

पुरन्दरोऽथ संचिन्त्य वैनतेयपराक्रमम् ।
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥ ५.१०४.२६ ॥

するとプランダラは、ヴァイナテーヤの武勇を考え、ヴィシュヌその人に言った。「あなた自身がお与えください。」

5.104.27

ईशस्त्वं सर्वलोकानां चराणामचराश्च ये ।
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥ ५.१०४.२७ ॥

あなたはすべての世界の主、動くものと動かぬものの主です。あなたが与えたもの、与えなかったものを、誰がなすことを敢えてするでしょうか、ヴィブホよ。

5.104.28

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् ।
न त्वेनममृतप्राशं चकार बलवृत्रहा ॥ ५.१०४.२८ ॥

するとシャクラはその蛇に最上の寿命を与えた。しかし力によってヴリトラを倒した者は、彼に甘露を飲ませなかった。

5.104.29

लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह ।
कृतदारो यथाकामं जगाम च गृहान्प्रति ॥ ५.१०४.२९ ॥

恩寵を得て、スムカは実に顔の晴れやかな者となった。妻を娶り、望みのままに自分の家々へと去った。

5.104.30

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥ ५.१०४.३० ॥

ナーラダとアーリヤカもまた、目的を果たし、喜びのうちに共に、大いに輝く神々の王を礼拝して、その御前に進み出た。