摩诃婆罗多 · 章 5.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.105.1
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥ ५.१०५.१ ॥
威猛的迦楼罗在那里听闻了事情的经过:因陀罗赐予了那条蛇生命,婆罗多啊。
5.105.2
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः ।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥ ५.१०५.२ ॥
以巨大的翅膀之风遮蔽三界,极为愤怒的苏跋那(迦楼罗)向婆薮(因陀罗)猛扑而去。
5.105.3
भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम ।
कामकारवरं दत्त्वा पुनश्चलितवानसि ॥ ५.१०५.३ ॥
尊者啊!为何出于轻慢阻断了我的生计?你既赐予我随意行动的恩惠,如今却又动摇了。
5.105.4
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे ।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥ ५.१०५.४ ॥
依据一切众生的本性,万物之主造物者为我规定了食物;你为何要阻止它?
5.105.5
वृतश्चैष महानागः स्थापितः समयश्च मे ।
अनेन च मया देव भर्तव्यः प्रसवो महान् ॥ ५.१०५.५ ॥
这条大蛇是我所选定的,我的约定也已确立。天神啊!我必须借由它与我自身,养活我庞大的子嗣。
5.105.6
एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ॥ ५.१०५.६ ॥
但在此情形下,我不愿伤害他者。天王啊,你凭己意,随心所欲地游戏。
5.105.7
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम ।
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥ ५.१०५.७ ॥
我将舍弃性命,我的家人和家中的仆役也一样。愿你欢喜,婆薮啊。
5.105.8
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा ।
त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् ।
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ॥ ५.१०५.८ ॥
苏摩迦与杜尔摩迦闻听金翅鸟之语,遂舍弃本形,面色失色,化为蛇形。他们来到毗湿奴面前,拥抱他的脚凳。
5.105.9
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि ।
दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना ।
श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ॥ ५.१०५.९ ॥
这不是我所做,维纳特亚啊,你不应对我发怒。威力强大的毗湿奴已赐予苏摩迦无畏。闻帝释天所言,毗那多之子答道。
5.105.10
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् ।
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥ ५.१०५.१० ॥
我也应当再次获得这些,斩杀弗栗多的力者啊。身为三界之主,我却沦为他人的仆役。
5.105.11
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम ।
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ॥ ५.१०५.११ ॥
天神之主啊,只要你存在,毗湿奴就不是我的因由。婆薮啊,三界之王的王权在你身上永恒不灭。
5.105.12
ममापि दक्षस्य सुता जननी कश्यपः पिता ।
अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा ॥ ५.१०५.१२ ॥
我的母亲也是达刹之女,父亲是迦叶波。我凭借威力,能够从四面八方承载诸世界。
5.105.13
असह्यं सर्वभूतानां ममापि विपुलं बलम् ।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ॥ ५.१०५.१३ ॥
我的广大力量也是众生所无法承受的;我也在与达提耶人的战斗中建立了极大的功业。
5.105.14
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ॥ ५.१०५.१४ ॥
室鲁多室利、室鲁多塞那、毗婆娑、罗遮那穆卡、普罗苏多和迦罗迦差,这些提提之子也被我杀死。
5.105.15
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् ।
वहामि चैवानुजं ते तेन मामवमन्यसे ॥ ५.१०५.१५ ॥
我居于旗杆之处,尽心侍奉你,甚至还承载你的幼弟,而你却轻视我。
5.105.16
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ॥ ५.१०५.१६ ॥
除我之外,还有谁能承受重担?还有谁比我更强大,能以卓越之身连同亲族承载此人?
5.105.17
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥ ५.१०५.१७ ॥
婆娑啊,你轻慢我,把我从饮食中驱逐出去,因此我的尊严因你和此人而失去了。
5.105.18
अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ॥ ५.१०५.१८ ॥
在这些生于阿底提、具备力量与勇武的诸神之中,你的力量确实最为强大。
5.105.19
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ॥ ५.१०५.१९ ॥
我不知疲倦,只用一侧翅膀的一部分就能载你。亲爱的,请慢慢想想这里谁更强大。
5.105.20
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम् ।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥ ५.१०५.२० ॥
闻听此鸟言语,其后果何等可怖,持车轮者震动了不可动摇者,对迦叶之子说道。
5.105.21
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥ ५.१०५.२१ ॥
迦鲁特马特啊,你自以为强大,实则极其虚弱。卵生者啊,在我们面前夸耀自己已经够了。
5.105.22
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे ।
अहमेवात्मनात्मानं वहामि त्वां च धारये ॥ ५.१०५.२२ ॥
即便整个三界也无法承载我的身体。我自己便能背负自己,也能托住你。
5.105.23
न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् ।
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥ ५.१०५.२३ ॥
你用两只手无法承载我,你的夸口是徒劳的。先把我这一条手臂,左边或右边的,背起来给我看。若你连这一只也能托住,那你的夸口才算有了结果。
5.105.24
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् ।
आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।
निपपात स भारार्तो विहलो नष्टचेतनः ॥ ५.१०५.२४ ॥
说完这些,世尊把手臂搭在他的肩上。那重负压在他身上,他无法凭力量承担,被重担折磨,神志昏乱,失去知觉,便倒下了。
5.105.25
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ॥ ५.१०५.२५ ॥
整个大地连同群山的重量有多大,他便认为自己身体的一个肢体的重量就有多大。
5.105.26
न त्वेनं पीडयामास बलेन बलवत्तरः ।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥ ५.१०५.२६ ॥
然而那位最强大者并未以力量压迫他,因此不坏者没有夺去他的生命。
5.105.27
व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥ ५.१०५.२७ ॥
张着嘴,身体松垮,神志昏乱、惶恐的那只鸟,被沉重的负荷压迫,于是脱落了羽毛。
5.105.28
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः ।
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ॥ ५.१०५.२८ ॥
毗那妲之子那只鸟向毗湿奴低首致礼,神志昏乱、惶恐而可怜,于是说了几句话。
5.105.29
भगवँल्लोकसारस्य सदृशेन वपुष्मता ।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥ ५.१०५.२९ ॥
尊贵者啊!当您那与世界精华相等、形体光耀的手臂被随意放下时,我便在大地上被碾碎了。
5.105.30
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः ।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥ ५.१०५.३० ॥
神啊,您应当宽恕我——这只神志慌乱、见识浅薄、被力量之火烧灼、栖居于旗帜之上的鸟。
5.105.31
न हि ज्ञातं बलं देव मया ते परम विभो ।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ॥ ५.१०५.३१ ॥
神啊,威能者啊,我不知道你的至上力量;因此我认为自己的勇力不及他人。
5.105.32
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः ।
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥ ५.१०५.३२ ॥
于是世尊施恩于迦噜嚩,出于慈爱对他说:“不要再这样说。”
5.105.33
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि ।
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ॥ ५.१०५.३३ ॥
他以足趾将须弥口掷于迦噜嚩胸前;自那时起,王中之王啊,他便与蛇同在。
5.105.34
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः ।
गरुडो बलवान्राजन्वैनतेयो महायशाः ॥ ५.१०५.३४ ॥
如此,被毗湿奴之力所制伏,迦噜嚩的骄傲遂告消亡,王啊——那强大、名声远扬的毗娜塔之子迦噜嚩。
5.105.35
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे ।
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥ ५.१०५.३५ ॥
你也一样,甘陀利之子啊,只要你尚未在战场上遇见那些英雄——般度之子,你便还活着,孩儿。
5.105.36
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥ ५.१०५.३६ ॥
勇猛打击者中最优秀的、大力的风神之子毗摩,以及因陀罗之子大财,愿他们在战场上一个人也不杀。
5.105.37
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ॥ ५.१०५.३७ ॥
毗湿奴、风神、因陀罗、法神以及双阿输二神——你因何缘故能够看见这些神明?
5.105.38
तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥ ५.१०५.३८ ॥
因此,王子啊,与敌对已经足够;去求和平吧。你应当借助瓦苏提婆的方法来保护你的家族。
5.105.39
प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ॥ ५.१०५.३९ ॥
这位大苦行者那罗陀是一切的亲见者。那时,他正是见证毗湿奴伟大的人,那位手持轮与杵者。
5.105.40
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः ।
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ॥ ५.१०५.४० ॥
然而难敌听了这话,皱着眉头长叹一声,看着罗陀之子迦尔纳,随即大声笑了起来。
5.105.41
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥ ५.१०५.४१ ॥
那恶毒之人轻蔑地对待仙人迦那婆的那番话,拍打着形如象鼻的大腿,说出了这些话。
5.105.42
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः ।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥ ५.१०५.४२ ॥
正如我由主所造,照我的命运和我的道路,大仙啊,我如此行事;这番胡言能有何作用?
5.105.43
ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् ।
यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ॥ ५.१०५.४३ ॥
于是迦那愤怒地对愚昧的难敌说:“因为你拍打自己的大腿,大腿将成为你的死亡。”