Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.106

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.106.1

अनर्थे जातिनिर्बन्धं परार्थे लोभमोहितम् ।
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥ ५.१०६.१ ॥

执迷于宗族之固执而走向毁灭者,为他人之利而被贪欲所迷惑,乐于与卑劣之人相伴,并已决意赴死。

5.106.2

ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् ।
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥ ५.१०६.२ ॥

使亲族受苦、使亲属增悲、使朋友受辱、使仇敌增喜之人。

5.106.3

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः ।
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥ ५.१०६.३ ॥

为何亲族不在此阻止这偏离正道之人?或者满怀友爱的尊贵祖父为何不加阻止?

5.106.4

उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् ।
उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥ ५.१०६.४ ॥

请听尊者所说之言、毗湿摩所说之适当之言,以及那罗陀以多种方式所说之言。

5.106.5

दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
तिष्ठते हि सुह्यद्यत्र न बन्धुस्तत्र तिष्ठते ॥ ५.१०६.५ ॥

真正能倾听的朋友难得,有益的朋友也难得。朋友所在之处,亲族并不停留。

5.106.6

श्रोतव्यमपि पश्यापि सुहृदां कुरुनन्दन ।
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥ ५.१०६.६ ॥

哦,库鲁之喜悦者,应当倾听并思考朋友之言。不可固执,因为固执极为可怕。

5.106.7

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥ ५.१०६.७ ॥

此处也引用这段古老的故事:伽拉瓦因固执而遭致失败。

5.106.8

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा ।
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥ ५.१०६.८ ॥

往昔,法神出于好奇,化作尊者仙人婆私吒的模样,亲自前往正在苦修的毗首弥多罗那里。

5.106.9

सप्तर्षीणामन्यतमं वेषमास्थाय भारत ।
बभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य तु ॥ ५.१०६.९ ॥

婆罗多,他化作七仙之一的模样,饥饿而想要进食,大王,来到了憍尸迦的修道院。

5.106.10

विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।
परमान्नस्य यत्नेन न च तं प्रत्यपालयत् ॥ ५.१०६.१० ॥

于是毗首弥多罗慌乱地让人煮好祭饭;虽然他用心烹制上好的食物,却没有顾及那位客人。

5.106.11

अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।
अथ गृह्णान्नमत्युष्णं विश्वामित्रोऽप्युपागमत् ॥ ५.१०६.११ ॥

当他吃完其他苦行者所给的食物后,毗首弥多罗也端着非常热的食物走了过来。

5.106.12

भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ ।
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥ ५.१०६.१२ ॥

他说:“我已经吃过了;你现在等一等。”说完,尊者便离去了。大王,于是大光明的毗首弥多罗就站在原地。

5.106.13

भक्तं प्रगृह्य मूर्ध्ना वै बाहुभ्यां संशितव्रतः ।
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥ ५.१०६.१३ ॥

他以双臂将食物举过头顶,坚守誓言,站在近旁如同木桩,纹丝不动,以风为食。

5.106.14

तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥ ५.१०६.१४ ॥

仙人迦罗婆尽心服侍他,出于敬重与极大的尊崇,怀着深情,并希望使他欢喜。

5.106.15

अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् ।
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥ ५.१०६.१५ ॥

此后百年期满,法神再次前来,化作婆悉吒的形象,为求食物来到憍尸迦处。

5.106.16

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥ ५.१०६.१६ ॥

他看见那位伟大的仙人、智慧的毗首密多罗站立着,以风为食,将食物举过头顶。

5.106.17

प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।
भुक्त्वा प्रीतोस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥ ५.१०६.१७ ॥

法神便接受了这热而新鲜的食物,吃完后说:“婆罗门中的仙人啊,我很欢喜。”说完,那位仙人便离去了。

5.106.18

क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः ।
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तथाऽभवत् ॥ ५.१०६.१८ ॥

他离开了刹帝利的身份,获得了婆罗门的地位;因法神之言而欢喜,毗首密多罗便成为了这样的人。

5.106.19

विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह ॥ ५.१०६.१९ ॥

毗湿伐弥特罗因苦行弟子伽罗婆的侍奉与虔诚而欢喜,便如此说道。

5.106.20

अनुज्ञातो मया वत्स यथेष्टं गच्छ गवालव ।
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् ॥ ५.१०६.२० ॥

"孩子,我准许你,随你所愿去吧,伽婆罗婆。"伽罗婆听闻此言,便对这位最优秀的仙人回答道。

5.106.21

प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ।
दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि ॥ ५.१०६.२१ ॥

伽罗婆因其甘美的言语而欢喜,对光辉的毗湿伐弥特罗说:"为了上师的事业,我应献上什么供养给您?"

5.106.22

दक्षिणाभिरुपेतं हि कर्म सिद्ध्यति मानद ।
दक्षिणानां हि दाता वै अपवर्गेण युज्यते ॥ ५.१०६.२२ ॥

尊崇者啊,伴随供养的仪式确实成就;而施供养者确实与解脱相连。

5.106.23

स्वर्गे क्रतुफलं तद्धि दक्षिणा शान्तिरुच्यते ।
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥ ५.१०६.२३ ॥

在天界,那便是祭祀的果报;供养被称为寂静。为上师我该带来什么?请尊者告诉我。

5.106.24

स जानानस्तु भगवान्खिन्नं शुश्रूषणेन वै ।
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥ ५.१०६.२४ ॥

尊者毗湿伐弥特罗虽知他因侍奉而疲惫,仍一再催促他:"去吧,去吧。"

5.106.25

असकृद्गच्छगच्छेति विश्वामित्रेण भाषितः ।
किं ददानीति बहुशो गालवः प्रत्यभाषत ॥ ५.१०६.२५ ॥

毗首弥多罗一再说:

5.106.26

निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः ।
किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥ ५.१०६.२६ ॥

苦行者迦罗婆反复催促,毗首弥多罗稍感激动,便说了这些话。

5.106.27

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
अष्टौ शतानि मे देहि गच्छ गालव मा चिरम् ॥ ५.१०६.२७ ॥

「迦罗婆啊,给我八百匹如月光般明亮、一侧耳朵乌黑的马。去吧,不要耽搁太久。」