Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.107.1

एवमुक्तस्तदा तेन विश्वामित्रेण धीमता ।
नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥ ५.१०७.१ ॥

智者毗奢弥多罗如此说后,迦罗伐当时既不坐,也不卧,也不进食。

5.107.2

त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः ।
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ।
गालवो दुःखितो दुःखाद्विललाप सुयोधन ॥ ५.१०७.२ ॥

只剩皮骨,沉溺于忧虑与悲伤,过度哀号,被愤懑焚烧,迦罗伐因痛苦而悲泣,哦,苏尤陀那。

5.107.3

कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः ।
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥ ५.१०७.३ ॥

我那些养育的朋友在哪里?我积累的财富在哪里?我那如月般洁白的八百匹马在哪里?

5.107.4

कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे ।
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥ ५.१०७.४ ॥

我对饮食的兴趣何在?我对幸福的信心何在?连对生命的希望也已断绝,这生命于我又有何用?

5.107.5

अहं पारे समुद्रस्य पृथिव्या वा परं परात् ।
गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे ॥ ५.१०७.५ ॥

我将前往海洋彼岸,或大地的尽头,结束自己的生命。这生命对我又有何用?

5.107.6

अदनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।
ऋणं धारयमाणस्य कुतः सुखमनीहया ॥ ५.१०७.६ ॥

对于不进食、目的未达、被种种果报所弃、背负债务的人,无欲之乐又在何处?

5.107.7

सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ ५.१०७.७ ॥

若享用了朋友的财富,得到了他们期望的情谊,却无法报answer,那么对他来说死比活更好。

5.107.8

प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥ ५.१०७.८ ॥

若许诺说“我会做”,却不履行该尽的义务,被虚言所烧的人,其祭祀与布施的功德便会丧失。

5.107.9

न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः ।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥ ५.१०७.९ ॥

虚妄没有形体,虚妄没有子嗣,虚妄也没有主权;那么它从哪里能得到善的归宿呢?

5.107.10

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ ५.१०७.१० ॥

忘恩负义者哪里有名声,哪里有地位,哪里有幸福?忘恩负义者不可信赖,对忘恩负义者也没有补救。

5.107.11

न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् ।
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ॥ ५.१०७.११ ॥

贫穷的罪人活不下去;罪人哪里有庇护?罪人必定走向毁灭,连自己所做的善也一并毁掉。

5.107.12

सोऽहं पापः कृतघ्नस्य कृपणश्चानृतोऽपि च ।
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ॥ ५.१०७.१२ ॥

我是罪人、忘恩负义者、吝啬者,也是虚妄之人:虽已完成了老师的使命,却不认为已做成,也不践行自己所说的话。

5.107.13

सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ।
अर्थिता न मया काचित्कृतपूर्वा दिवौकसाम् ॥ ५.१०७.१३ ॥

我竭尽最大努力后将舍弃生命;我从未向天界的居民请求过任何事。

5.107.14

मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ।
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥ ५.१०७.१४ ॥

在祭祀的集会上,诸神都敬重我;但我要去见黑天,毗湿奴,诸神中最优秀者,三界之主,求取归宿者中最上的归宿。

5.107.15

भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् ।
प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम् ॥ ५.१०७.१५ ॥

一切享受都从他而建立,他遍及诸神与阿修罗——我愿意俯身礼拜,得见不朽的瑜伽士黑天。

5.107.16

एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥ ५.१०७.१६ ॥

如此说完,他的朋友、毗那达之子迦楼罗现身相见,他心中欢喜,为了令对方高兴,便说道。

5.107.17

सहृद्भवान्मम मतः सुहृदां च मतः सुहृत् ।
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥ ५.१०७.१७ ॥

你是我的知心人,依我看,你是朋友中的至交;有财物时,你应当凭你所求之愿与我相合。

5.107.18

विभवश्चास्ति मे विप्र वासवावरजो द्विज ।
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥ ५.१०७.१८ ॥

婆罗门啊,再生者啊,我也有财富;因陀罗的幼弟(毗湿奴)此前已为你说话,由于他,我的愿望也得以实现。

5.107.19

स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।
देशं पारं पृथिव्या वा गच्छ गालव मा चिरम् ॥ ५.१०७.१९ ॥

你来吧,我们走;我会让你舒适地前行。去往大地彼岸的国度吧,迦罗婆,不要耽搁。