Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.108

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.108.1

अनुशिष्टोऽस्मि देवेन गालव ज्ञानयोनिना ।
ब्रूहि कामं तु कां यामि द्रष्टुं प्रथममो दिशम् ॥ ५.१०८.१ ॥

我已蒙知识之源的神明教导,迦罗婆啊。请按你的意愿告诉我,我应先往哪个方向去观看?

5.108.2

पूर्वां वा दक्षिणां वाहमथवा पश्चिमां दिशम् ।
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ॥ ५.१०८.२ ॥

向东、向南、向西,还是向北?二生者中最优秀的,迦罗婆啊,我该往哪个方向去?

5.108.3

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।
सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ॥ ५.१०८.३ ॥

在那个方向,产生一切世界的萨维特里最先升起,那里在黄昏时有萨提亚们的苦行。

5.108.4

यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् ।
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ॥ ५.१०८.४ ॥

在那个方向,思想最初生起,此世界为之遍布,那里有法的两只眼睛,他也安住于那里。

5.108.5

कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम् ।
एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाऽध्वनः ॥ ५.१०८.५ ॥

从那里,所行的祭祀、献祭与供品向一切方向散布——这便是白昼之门,二生者中最优秀的,也是道路之门。

5.108.6

अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ॥ ५.१०८.६ ॥

此处最初诞生了达刹的女儿们,即众生之母的妇女;在那个方向,迦叶波的自生之子们成长壮大。

5.108.7

अदोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत ।
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥ ५.१०८.७ ॥

婆罗门中的仙人啊,此处正是因陀罗被立为诸神之王的地方;诸神也在此以苦行积聚了根基无瑕的神之吉祥。

5.108.8

एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते ।
यस्मात्पूर्वतरे काले पूर्वमेवावृतासुरैः ॥ ५.१०८.८ ॥

婆罗门啊,因此这个方位被称为“前”(pūrvā,东方),因为在极古的时代,它先前就已被阿修罗所遮蔽。

5.108.9

अत एव च सर्वेषां पूर्वामाशां प्रचक्षते ।
पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता ॥ ५.१०८.९ ॥

因此,人们都称此为东方。希求安乐者,应先面向东方完成一切天神之事。

5.108.10

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः ।
अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ॥ ५.१०८.१० ॥

在此,昔日维持世界的世尊曾吟诵吠陀;也正是在此,萨维特里(太阳神)宣说了萨维特丽,它在梵论者之中广为人知。

5.108.11

अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम ।
अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते ॥ ५.१०८.११ ॥

二生者中的最优者啊,此处太阳赐予了夜柔吠陀的祭祀咒文。此处获得恩赐的苏摩,在祭祀中被诸神饮用。

5.108.12

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।
अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥ ५.१०८.१२ ॥

此处,满足的供物承载者——火神们享受着它们自己的根源;也在此,伐楼那依托地下世界而获得了吉祥。

5.108.13

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥ ५.१०८.१३ ॥

啊,再生者中的雄牛,此处显露古老的婆私吒的诞生、根基与终结。

5.108.14

ओङ्कारस्यात्र जायन्ते सृतयो दशतीर्दश ।
पिबन्ति मुनयो यत्र हविर्धूमं स्म धूमपाः ॥ ५.१०८.१४ ॥

此处由唵字涌出十乘十条溪流,饮烟的仙人在此饮用祭品之烟。

5.108.15

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने ।
शक्रेण यज्ञभागार्थे दैवतेषु प्रकल्पिताः ॥ ५.१०८.१५ ॥

此处林中众多野兽,如野猪等,被因陀罗洒水净化,为获取祭祀之分而列入诸神之中。

5.108.16

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये ।
उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ॥ ५.१०८.१६ ॥

忘恩负义的人与阿修罗被置于此处;他们一旦升起,毗婆苏(火)便以愤怒击杀他们所有人。

5.108.17

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च ।
एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि ॥ ५.१०८.१७ ॥

此处是三界、天堂与安乐之门,是四方之东部。你若愿意,可在此前往毗舍婆。

5.108.18

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः ।
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥ ५.१०८.१८ ॥

我所遵从其言的那位的事务,确实令我欢喜。说吧,迦罗婆;我将前往。也请听听另一方位。