Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.109

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.109.1

इयं विवस्वदा पूर्वं श्रौतेन विधिना किल ।
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यते च दिक् ॥ ५.१०९.१ ॥

往昔毗婆娑瓦特(太阳)依吠陀仪轨将此达克西那供奉给了上师,因此此方被称为南方。

5.109.2

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः ।
अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज ॥ ५.१०९.२ ॥

此处确立了这三界的祖灵之侧;婆罗门啊,此处据说是乌什马帕诸神的居所。

5.109.3

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते ।
इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् ॥ ५.१०९.३ ॥

此处的毗溯提婆众神始终与祖灵同住;在诸界受到供奉,他们已获得同等的份额。

5.109.4

एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज ।
त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः ॥ ५.१०९.४ ॥

婆罗门啊,这被称为神的第二道门;时间的确定甚至以“楚提”和“拉瓦”来计算。

5.109.5

अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा ।
तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ॥ ५.१०९.५ ॥

此处恒有神圣的仙人居住,祖灵界的仙人亦然;所有王仙都在此居住,远离忧苦。

5.109.6

अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते ।
गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम् ॥ ५.१०९.६ ॥

此处亦宣说法、真实与业;婆罗门中最优秀者啊,这是完成其业者的归宿。

5.109.7

एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते ।
वृता त्वनवबोधेन सुखं तेन न गम्यते ॥ ५.१०९.७ ॥

二生者中最优秀的人啊!这就是众人所抵达的方向;但被无知所蒙蔽者,不能轻易到达那里。

5.109.8

नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ ।
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ॥ ५.१०९.८ ॥

二生者中的雄牛啊!这里被造出了成千上万种敌对的涅利提形象,只有自我未净化的人才会遇见它们。

5.109.9

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च ।
गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज ॥ ५.१०९.९ ॥

二生者啊!这里在曼陀罗山的林间和婆罗门仙人的住处,乾闼婆们吟唱着能夺走心智的歌谣。

5.109.10

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।
गतदारो गतामात्यो गतराज्यो वनं गतः ॥ ५.१०९.१० ॥

在这里,罗摩陀(Raivata)听到伴随诗句吟唱的娑摩歌,之后妻子离去,大臣离去,王国失去,他便进入了森林。

5.109.11

अत्र सावर्मिना चैव यवक्रीतात्मजेन च ।
मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ॥ ५.१०९.११ ॥

在这里,萨瓦尔敏与耶婆克利多之子设立了一条界限,太阳也不逾越。

5.109.12

अत्र राक्षसराजेन पौलस्त्येन महात्मना ।
रावणेन तपः कृत्वा सुरेभ्योऽमरता वृता ॥ ५.१०९.१२ ॥

在这里,罗刹王、补罗斯底耶之子、大心的罗波那修行苦行,从诸神那里求得了不死的恩赐。

5.109.13

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् ।
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ॥ ५.१०९.१३ ॥

在此,凭借行为,弗栗多也成为了帝释天的敌人。在此,所有阿婆们抵达后,又以五种方式返回。

5.109.14

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।
अत्र वैतरणी नाम नदी वैतरणैर्वृता ॥ ५.१०९.१४ ॥

在此,哦伽罗婆,行恶业的人被煮烤。此处有一条名为伐多罗尼的河,被伐多罗们环绕。

5.109.15

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ।
अत्रावृत्तो दिनकरः सुरसं क्षरते पयः ॥ ५.१०९.१५ ॥

到了此处,人便达到快乐的终结和痛苦的终结。在此,太阳回转,流出甘美味道的乳汁。

5.109.16

काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः ।
अत्राहं गालव पुरा क्षुधाऽऽर्तः परिचिन्तयन् ॥ ५.१०९.१६ ॥

到达婆西什提方位,它又放出雪。在此,哦伽罗婆,从前我因饥饿所苦,正在沉思。

5.109.17

लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ।
अत्र चक्रधनुर्नाम सूर्याञ्जातो महानृषिः ॥ ५.१०९.१७ ॥

他在此得到两个正在争斗的大型生物,一头象和一只龟。在此,名为轮弓的大仙从太阳诞生。

5.109.18

विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः ।
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ॥ ५.१०९.१८ ॥

那位神灵迦毗罗,被苦恼的萨加拉之子们所知晓;此处有名为湿婆的成就婆罗门,精通吠陀。

5.109.19

अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम् ।
अत्र भोगवती नाम पुरी वासुकिपालिता ॥ ५.१०९.१९ ॥

学习了所有吠陀之后,他们获得了不灭的解脱。这里有一座名为跋伽伐蒂的城市,由婆苏吉守护。

5.109.20

तक्षकेण च नागेन तथैवैरावतेन च ।
अत्र निर्याणकालेऽपि तमः संप्राप्यते महत् ॥ ५.१०९.२० ॥

在这里,即使在离世之时,也会遭遇巨大的黑暗,既来自蛇王德叉迦,也同样来自爱罗婆多。

5.109.21

अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ।
एष तस्यापि ते मार्गः परिचारस्य गालव ।
ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु चापराम् ॥ ५.१०९.२१ ॥

即使是太阳也无法穿透,或者连黑暗之路本身也无法穿透;这也是他的道路,哦,迦罗婆,是你仆人的道路。如果你必须前往西方,就告诉我;也请听听另一个方向。