摩诃婆罗多 · 章 5.111
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.111.1
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते ।
अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ॥ ५.१११.१ ॥
因为由此脱离罪过、得到至善,凭借这解脱之力,它被称为“北方(Uttarā)”,婆罗门啊。
5.111.2
उत्तरस्य हिरण्यस्य परिवापस्य गालव ।
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥ ५.१११.२ ॥
迦罗婆啊,北方金色的耕耘之地之路,被认为是介于西方与东方之间的中道。
5.111.3
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।
नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः ॥ ५.१११.३ ॥
在这尊贵的北方,婆罗门中的雄牛啊,既无恶性之人,也无不驯之心的人,亦无不义居留。
5.111.4
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥ ५.१११.४ ॥
此处,在跋达利的修道处,住着那罗延克里希那、胜者迦湿奴(阿周那),人中最上者,还有永恒的梵天。
5.111.5
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः ।
प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः ॥ ५.१११.५ ॥
在此喜马拉雅之巅,大自在天常住,与自性(Prakṛti)同在——即原人(Puruṣa),光辉如劫末之火。
5.111.6
न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः ।
गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते ॥ ५.१११.६ ॥
他不为众仙人所见,亦不为带着因陀罗的诸天所见,也不为乾达婆、夜叉、悉陀所见——唯那罗与那罗延除外。
5.111.7
अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः ।
सहस्रशिरसः श्रीमानेकः पश्यति मायया ॥ ५.१११.७ ॥
此处,千眼、千足、不灭的毗湿奴,千头的光辉者,独自以幻力观看。
5.111.8
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ।
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ॥ ५.१११.८ ॥
此处,月亮被册封为婆罗门之王;此处,大天神接住了从天而降的恒河。
5.111.9
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ।
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया ॥ ५.१११.९ ॥
他接受之后,将其施予世间的人类。最优秀的梵知者啊,此处女神为求得大自在天而修苦行。
5.111.10
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः ।
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ॥ ५.१११.१० ॥
此处,欲与怒、山与乌玛得以显现;此处,啊迦罗婆,乃罗刹、夜叉与乾闼婆的居所。
5.111.11
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ।
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ॥ ५.१११.११ ॥
在凯拉萨山上,财神(俱毗罗)也被册封为主。此处有可爱的策特拉罗陀,此处有吠喀那萨仙人的修道院。
5.111.12
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ।
अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते ॥ ५.१११.१२ ॥
此处有曼陀吉尼河与曼达罗山,啊再生者中的英杰。此处有香林,由涅哩底(罗刹)守护。
5.111.13
शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः ।
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ॥ ५.१११.१३ ॥
这里有青草地、芭蕉树干和桑塔纳卡树;这里住着常自我克制、随意游行的成就者。
5.111.14
विमानान्युनुरूपाणि कामभोग्यानि गालव ।
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ॥ ५.१११.१४ ॥
哦,迦罗婆,这里有适合随意享用的天车;这里有那七位仙人,还有天女阿伦达蒂。
5.111.15
अत्र तिष्ठति वै रात्रिन्दिवाप्यत्रावतिष्ठते ।
अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः ॥ ५.१११.१५ ॥
这里白天黑夜都停留并驻守;这里,抵达祭祀之后,祖父梵天必定稳固地站立。
5.111.16
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ।
अत्र गङ्गामहाद्वारं रक्षन्ति द्विजसत्तम ॥ ५.१११.१६ ॥
包括月亮和太阳在内的光明在此不断运转;哦,再生者中的最优者,他们在此守护恒河的大门。
5.111.17
धामा नाम महात्मानो मुनयः सत्यवादिनः ।
न तेषां ज्ञायते मूर्तिर्नाकृतिर्न तपश्चितम् ॥ ५.१११.१७ ॥
有名为达摩的大德仙人,言语真实;人们不知其形貌,也不知其相状,更不知其所积的苦行。
5.111.18
परिवर्तसहस्रामि कामभोज्याननि गालव ।
यथायथा प्रविशति तस्मात्परतरं नरः । ॥ ५.१११.१८ ॥
哦,迦罗婆,数千个循环之中可随意享用的事物……;人越是深入进去,那境界就越发遥远……
5.111.19
तथातथा द्विजश्रेष्ठ प्रविलीयति गालव ।
नैतत्केनचिदन्येन गतपूर्वं द्विजर्षभ ॥ ५.१११.१९ ॥
正是如此,二生者中最优秀的迦罗婆,它便消融隐去。二生者中的雄牛啊,这从未被他人所经历过。
5.111.20
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ।
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ॥ ५.१११.२० ॥
除了神那罗延,或那罗,不朽的胜者,此处被称为凯拉萨——那是爱罗毗罗的所在。
5.111.21
अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश ।
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥ ५.१११.२१ ॥
此处诞生了十位名为电光的天女。此处有名为毗湿奴足迹的地方,是毗湿奴跨步时所造。
5.111.22
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ।
अत्र राज्ञा मरुतेन यज्ञेनेष्टं द्विजोत्तम ॥ ५.१११.२२ ॥
在征服三界的步伐之中,婆罗门啊,它位于北方。此处国王摩录多以祭祀礼敬,二生者中最优秀的人啊。
5.111.23
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ।
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ॥ ५.१११.२३ ॥
婆罗门仙人啊,在乌希罗毗遮,那里有赡部金之湖:此处,大德婆罗门仙人耆穆多曾受人侍奉。
5.111.24
साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः ।
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ॥ ५.१११.२४ ॥
乃是喜马拉雅神圣无垢的金矿本身;以及在婆罗门之中,将全部大财富施舍后所安置之处。
5.111.25
वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः ।
अत्र नित्यं दिशांपालाः सायंप्रातर्द्विजर्षभ ॥ ५.१११.२५ ॥
那位大仙选择了耆摩陀的那份财富。这里方位的守护者始终在,早晚皆然,婆罗门中的雄牛啊。
5.111.26
कस्य कार्यं किमिति वै परिक्रोशान्ति गालव ।
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ॥ ५.१११.२६ ॥
他们喊道:“这是谁的事,是什么事?”哦,伽罗婆。如此,这北方以其他德性而殊胜,婆罗门中最上者啊。
5.111.27
उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा ।
एता विस्तरशस्तात तव शङ्गीर्तिता दिशः ॥ ५.१११.२७ ॥
她以“北方”之名闻名,在一切事务中她都是北方。亲爱的,这样,这些方位已向你详细宣说。
5.111.28
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ।
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः।
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥ ५.१११.२८ ॥
你想依次前往四个方位。婆罗门中最上者啊,我已准备好为你展示诸方,还有整个大地,哦婆罗门。因此,哦再生者,请登上我。