摩诃婆罗多 · 章 5.113
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.113.1
ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ ।
शाण्डिलीं ब्राह्मणीं तत्र ददृशो तपोन्विताम् ॥ ५.११३.१ ॥
于是,两只鸟婆罗门从Ṛṣabha山峰降下,看见了在那里修苦行的婆罗门女Śāṇḍilī。
5.113.2
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् ।
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः ॥ ५.११३.२ ॥
金翅鸟恭敬地行礼,伽拉瓦也敬重她;听了她的欢迎之语,两人便在座位上坐下。
5.113.3
सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् ।
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ ॥ ५.११३.३ ॥
她给了他们以供养咒语加持的熟食;二人吃饱后,被昏沉所迷,便躺在地上睡着了。
5.113.4
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।
तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम् ॥ ५.११३.४ ॥
片刻之间,金翅鸟醒来,想要离去;看见这位全身俱美的苦行、梵行女子——
5.113.5
ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् ।
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥ ५.११३.५ ॥
他决心要抓住她,因她的容貌仿佛吉祥天女本人;然而这时那鸟看见自己身体和肢体都已脱落。
5.113.6
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः ।
गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत ॥ ५.११३.६ ॥
那鸟变得像一团肉,只剩嘴和脚。伽拉瓦看见他这副模样,心中忧虑,便问他。
5.113.7
किमिदं भवता प्राप्तमिहागमनजं फलम् ।
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥ ५.११३.७ ॥
你来此所得的果报是什么?我们二人在此将停留多久?
5.113.8
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥ ५.११३.८ ॥
你心中起了何种不善之念,污染了法?你的过失必定不小。
5.113.9
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥ ५.११३.९ ॥
于是金翅鸟对婆罗门说:“再生者啊,我已坚决思定,要将此成就者从此带往生主所在之处。”
5.113.10
यत्र देवो महादेवो यत्र विष्णुः सनातनः ।
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥ ५.११३.१० ॥
天神大天所在之处,永恒的毗湿奴所在之处,法与祭祀所在之处,愿此人便住于那里。
5.113.11
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया ।
मयैतन्नाम प्रध्यातं मनसा शोचसा किल ॥ ५.११३.११ ॥
我俯身礼敬,为了所爱之人的心愿,向那位尊贵的女神祈求。我以心念与忧思,确实深深地思念此名。
5.113.12
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् ।
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ॥ ५.११३.१२ ॥
因此,出于极大的敬重,我在此做了你所不愿的事。无论是善是恶,你都应以你的崇高而宽恕它。
5.113.13
सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ ।
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ॥ ५.११३.१३ ॥
于是她欢喜地对那两位——鸟王与再生者中的上士说道:“不要害怕,你是金翅鸟;金翅鸟啊,放下慌乱吧。”
5.113.14
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।
लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत् ॥ ५.११३.१४ ॥
孩子,你责备了我;但我不宽恕这种责备。凡责备我的罪人,将立刻从诸世界中坠落。
5.113.15
हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया ।
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥ ५.११३.१५ ॥
我没有任何不吉祥的征兆,同样也无可指责,因持守良好的品行,我获得了这至高的成就。
5.113.16
आचारः फलते धर्ममाचारः फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ५.११३.१६ ॥
良好的品行结出法的果实,良好的品行结出财富的果实。凭借良好的品行,人获得吉祥;良好的品行消除不祥。
5.113.17
तदायुष्मन्खगपते यथेष्टं गम्यतामितः ।
न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित् ॥ ५.११३.१७ ॥
因此,长寿的鸟王啊,你可以随意从这里离去。你不应责备我,女人也永远不应受到责备。
5.113.18
यदि त्वमात्मनो ह्यर्थे मां चैवादातुमिच्छसि ।
तदेव नष्टदेहस्तु स्या वै त्वं पन्नगाशन ॥ ५.११३.१८ ॥
如果你为了自己也想带走我,那么,噬蛇者啊,你自己的身体将会毁坏。
5.113.19
तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् ।
त्वं तु साङ्गस्तु सञ्जातः पुनरेव भविष्यसि ॥ ५.११३.१९ ॥
因他的恩典,并因思念诸神之神,你将带着完整的肢体再度诞生。
5.113.20
भवितासि यथापूर्वं बलवीर्यसमन्वितः ।
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥ ५.११३.२० ॥
你将如从前一般,具备力量与勇气。于是他的两翼变得更加强盛。
5.113.21
अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् ।
नैव चासादयामास तथारूपांस्तुरङ्गमान् ॥ ५.११३.२१ ॥
得到śāṇḍilyā的允许后,他沿来时的路返回;然而他并未得到那般模样的马匹。
5.113.22
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः ।
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ ॥ ५.११३.२२ ॥
于是毗首弥多罗看见他和站在路上的伽罗婆,这位善言者在毗奈耶(迦楼罗)面前说道。
5.113.23
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज ।
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥ ५.११३.२३ ॥
婆罗门啊,你自己许诺于我之事,请告诉我你认为完成它的合适时间。
5.113.24
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् ।
यथासंसिध्यते विप्र स मार्गस्तु निशाम्यताम् ॥ ५.११३.२४ ॥
婆罗门啊,我会等待这么长的时间,甚至更久,以使此事得以成就。现在请听那条路。
5.113.25
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥ ५.११३.२५ ॥
于是金翅鸟对极度悲痛、困苦的伽罗婆说:"现在我亲眼看到了,毗湿伐蜜多罗所说的话是真的。"
5.113.26
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम् ॥ ५.११३.२६ ॥
"那么,二生者中最优秀的伽罗婆,来吧,我们商议一下。不把全部报酬交给老师,你是不能停留的。"