Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.121

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.121.1

अथ प्रचलितः स्थानादासनाच्च परिच्युतः ।
कम्पितेनेव मनसा धर्षितः शेकवाह्निना ॥ ५.१२१.१ ॥

于是他离开座位,从原处跌落;心神颤抖,被忧愁之火所灼伤。

5.121.2

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः ।
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥ ५.१२१.२ ॥

花环枯萎,失去知觉,冠冕与臂钏脱落,眩晕旋转,四肢松弛,饰物与衣裳散落。

5.121.3

अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः ।
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ॥ ५.१२१.३ ॥

他们看不见他,他看着他们却又看不见,一次又一次,心神空虚,即将坠落于大地之上。

5.121.4

किं मया मनसा ध्यातमशुभं धर्मदूषणम् ।
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥ ५.१२१.४ ॥

“我心中思念了何种不吉、败坏法则的念头,以致我被从原位动摇?”国王如此思量。

5.121.5

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा ।
अपश्यन्त निरालम्बं तं ययातिं परिच्युतम् ॥ ५.१२१.५ ॥

那里的诸王、悉陀与天女也都在场,他们看见失去依托、坠落的耶亚提。

5.121.6

अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः ।
ययातिमब्रवीद्राजन्द्रेवराजस्य शासनात् ॥ ५.१२१.६ ॥

这时,有一个功德耗尽、堕落的人来到,奉天王之命对耶亚提说:“大王!”

5.121.7

अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे ।
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ॥ ५.१२१.७ ॥

你因过度的傲慢而昏醉,不敬任何人。因骄慢,你的天界已失去;王子啊,你不配拥有它。

5.121.8

न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ।
पतेयं सत्स्विति वचस्त्रिरुत्त्का नहुषात्मजः ॥ ५.१२१.८ ॥

“你无人识得;去吧,坠落!”他被如此告知。于是那位那呼沙之子三次说道:“我将坠落于善人之中。”

5.121.9

पतिष्यंन्तयामास गतिं गतिमतां वरः ।
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् ॥ ५.१२१.९ ॥

行者中最优者将坠落之际,……此时在那弥沙林,(他看见)诸王中的雄牛……

5.121.10

चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह ।
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः ॥ ५.१२१.१० ॥

国王看见其中四位;他坠落于他们之中——他们是普拉塔尔丹那、婆苏摩那斯、乌尸那罗之子尸毗与阿什塔卡。

5.121.11

वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ।
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् ॥ ५.१२१.११ ॥

他们以婆阇波夷祭使诸神之主(因陀罗)欢喜;他们祭祀所生的烟已抵达天门。

5.121.12

ययातिरुपजिघ्रन्वै निपपात महीं प्रति ।
भूमौ स्वर्गे च संबद्धां नदीं धूममयीमिव ।
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥ ५.१२१.१२ ॥

耶阇提嗅到那烟气便向大地坠落。他攀附于那连接大地与天界、如流向大地的恒河般的烟之河,这世界之主便坠落了。

5.121.13

श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु ।
मध्ये निपतितो राजा लोकपालोपमेषु सः ॥ ५.१२१.१३ ॥

在他自己最殊胜的阿婆利陀沐浴祭礼上,在与世界护持者相等的四位亲族之中,这位光辉的国王跌落在他们中间。

5.121.14

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु ।
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ॥ ५.१२१.१४ ॥

在四团如同已献祭品的火焰之中,在如王中雄狮的大火之间,当福德耗尽时,王仙耶耶地跌落在它们中间。

5.121.15

तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया ।
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ॥ ५.१२१.१५ ॥

所有国王对他说,他如同因光辉而闪耀:您是谁?是谁的亲族?来自哪个国家或城市?

5.121.16

यक्षो वाऽप्यथवा देवो गन्धर्वो राक्षसोऽपि वा ।
न हि मानुषरूपोसि कोवार्थः काङ्क्ष्यते त्वया ॥ ५.१२१.१६ ॥

您是夜叉、天神、乾闥婆,还是罗刹?您并非人形。您所求的是什么目的?

5.121.17

ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः ।
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ॥ ५.१२१.१७ ॥

我是耶耶地,王仙,福德耗尽而从天上坠落。心想:愿我跌落在善人之中,于是我跌落在你们中间。

5.121.18

सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ ।
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ॥ ५.१२१.१८ ॥

愿此为真,愿您的愿望得以实现,人中之牛啊!请接受我们所有人的祭祀之果与功德。

5.121.19

नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियोऽह्यहम् ।
न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥ ५.१२१.१९ ॥

我不是靠受施为生的婆罗门,我是刹帝利。我的心也不倾向于毁灭他人的功德。

5.121.20

एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् ।
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥ ५.१२१.२० ॥

就在此时,诸王看见以鹿行之方式前来的摩达维,恭敬地向她致礼,并说了这些话。

5.121.21

किमागमनकृत्यं ते किं कुर्मः शासनं तव ।
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ॥ ५.१२१.२१ ॥

你来的目的是什么?你有何命令,我们该做什么?我们都是你的儿子,可听你差遣,哦苦行之财富。

5.121.22

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा ।
पितरं समुपागच्छद्ययातिं सा ववन्द च ॥ ५.१२१.२२ ॥

摩达维听了他们的话,满心欢喜地走到父亲耶耶提身边,向他行礼。

5.121.23

स्पृष्ट्वा मूर्धनि तान्पुत्रांस्तापसी वाक्यमब्रवीत् ।
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ॥ ५.१२१.२३ ॥

这位苦行女抚摸着那些儿子的头,说了这些话:哦,诸王之主,他们是你的外孙,是我的儿子;他们对你并非陌生人。

5.121.24

इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ।
अहं ते दुहिता राजन्माधवी मृगचारिणी ॥ ५.१२१.२४ ॥

这些孩子将救度你,这是古老的定数。哦,国王,我是你的女儿摩达维,如鹿般四处漫游。

5.121.25

मयाऽप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ।
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः ॥ ५.१२१.२५ ॥

我也积累了功德,请接受其中的一半;因为,国王啊,所有人都分享子嗣之果。

5.121.26

तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ।
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ॥ ५.१२१.२६ ॥

因此他们希望有女儿所生的外孙,正如你所愿,大地之主啊。于是那些国王都低头向母亲致敬。

5.121.27

अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ।
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् ।
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् । ॥ ५.१२१.२७ ॥

他们行礼致敬后,对外祖父说话,以无比柔和的声音充满大地,众王救拔从天堂坠落的外祖父。

5.121.28

राजधर्मगुणोपेताः सत्यधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥ ५.१२१.२८ ॥

我们具备王法之德,拥有真实法之德,是你的外孙。国王啊,大地之主啊,升上天堂吧。

5.121.29

अथाकस्मादुपगतो गालवोऽप्याह पार्थिवम् ।
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ॥ ५.१२१.२९ ॥

这时,迦罗婆也忽然来到国王面前说:“愿你以我苦行的八分之一,升上天堂。”