摩诃婆罗多 · 章 5.122
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.122.1
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः ।
समारुरोह नृपतिरस्पृशन्वसुधातलम् ।
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥ ५.१२२.१ ॥
那些善人刚刚认出他,这位人中雄牛般的国王便升起,足不沾地。耶耶提获得了天界的形象,病痛全消。
5.122.2
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ।
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥ ५.१२२.२ ॥
他身着天界的花环与衣裳,佩戴天界的饰物,散发天界的香气,足未触地。
5.122.3
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ।
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥ ५.१२२.३ ॥
于是,早在世间以施主之主闻名的筏苏摩那斯高声向那位国王说道。
5.122.4
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥ ५.१२२.४ ॥
我在世间于各个种姓中无可指责地所得的一切,我也将奉献出去;愿你与之相合。
5.122.5
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥ ५.१२२.५ ॥
施舍之人的果报,忍耐之人的果报,以及我在点燃圣火时所得的果报——愿你与之相合。
5.122.6
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः ।
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥ ५.१२२.६ ॥
于是,刹帝利中的最杰出者补罗达那也说出了这些话——他始终喜好正法,始终致力于战斗。
5.122.7
प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः ।
वीरशब्दफलं चैव तेन संयुज्यतां भवान् ।
यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज ॥ ५.१२२.७ ॥
愿你与我在世间以刹帝利种姓所得的名声和英雄之名的果报相连。愿你常乐于法,凭此真实,升往天界。
5.122.8
शिबिरौशीनरो धीमानुवाच मधुरां गिरम् ।
यथा बालेषु नारीषु वैवाह्येषु तथैव च ॥ ५.१२२.८ ॥
智者乌希纳罗之子湿毗以甜美的言语说道:如同(我从未对)孩童、妇女以及婚姻之事(说过假话)一样。
5.122.9
सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च ।
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥ ५.१२२.९ ॥
在战斗中、在敌人倒下时,以及在那些灾难中,我从未说过假话。凭此真实,升往天界。
5.122.10
यथा प्राणांश्च राज्यं च राजन्कामसुखानि च ।
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥ ५.१२२.१० ॥
大王啊,我可以舍弃性命、王国和欲乐,但决不再舍弃真实。凭此真实,升往天界。
5.122.11
यथा सत्येन मे धर्मो यथा सत्येन पावकः ।
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ॥ ५.१२२.११ ॥
正如依靠真实我的法得以成立,依靠真实火神欢喜,百祭之因陀罗也欢喜,凭此真实,升往天界。
5.122.12
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः ।
अनेकशतयज्वानं नाहुषं प्राह धर्मवित् ॥ ५.१२२.१२ ॥
于是,精通法的王仙、俱舍家族之后、摩陀维之子阿湿陀迦,对曾行百次祭祀的那诃沙之子说道。
5.122.13
शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो ।
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥ ५.१२२.१३ ॥
啊主人,我曾举行数百次白莲祭、牛祭以及婆遮帕耶祭;愿你获得它们的果报。
5.122.14
न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा ।
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥ ५.१२२.१४ ॥
我的珠宝、财富和其他物品都未曾用于祭祀;凭着那份真实,你升往天界吧。
5.122.15
यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।
तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥ ५.१२२.१५ ॥
外孙们越是呼唤那位人主,国王便越是离开大地,升往天界。
5.122.16
एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा ।
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥ ५.१२२.१६ ॥
如此,那些国王以各自的善业合力,立刻拯救了从天界坠落的雅亚提。
5.122.17
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।
चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः।
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ॥ ५.१२२.१७ ॥
这些生于四个王族、光大家门的外孙,凭着自身的法行和祭祀布施的功德,将他们睿智的外祖父送上了天界。
5.122.18
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥ ५.१२२.१८ ॥
我们这些外孙,具备王者之法的美德,也具备一切法的美德。啊,国王,啊,大地之主,请升上天界吧。