Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.123

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.123.1

सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः ।
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ॥ ५.१२३.१ ॥

善人将他送上天界,与众多施予丰厚布施的国王一同,耀孙们辞别之后,耀帝升入天界。

5.123.2

अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना ।
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥ ५.१२३.२ ॥

他被众多芬芳花朵的雨水洒满,充满功德芬芳的圣洁之风拥抱了他。

5.123.3

अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् ।
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥ ५.१२३.३ ॥

他到达了不动之处,由外孙所施之果而赢得,以自己的业行而增长,以至上的光辉闪耀。

5.123.4

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः ॥ ५.१२३.४ ॥

众乾闼婆与阿ប្សរ以歌舞迎接他,在天界鼓声之中,他被欢喜地接纳。

5.123.5

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥ ५.१२३.५ ॥

天帝、仙人与持诵者以种种赞颂赞美他,他以上好的敬奉之物受到供养,诸神也欢喜地向他致贺。

5.123.6

प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः ।
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥ ५.१२३.६ ॥

既得天界之果,祖父便对他说话,仿佛以言语慰悦这位心已安宁满足的人。

5.123.7

चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा ।
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ॥ ५.१२३.७ ॥

你以世间之业依托具四足的法,你的此界不可败坏,你在天上的名声也不可败坏。

5.123.8

पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम् ।
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ॥ ५.१२३.८ ॥

王仙啊,又是你自己以你的行为毁坏了它;所有天上居住者的心都被黑暗所蔽。

5.123.9

येन त्वां नाभिजानन्ति ततोऽज्ञातोसि पातितः ।
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ॥ ५.१२३.९ ॥

因为他们不认识你,你便无人知晓地坠落;而正是出于深情,你的外孙们拯救了你,你才来到这里。

5.123.10

स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥ ५.१२३.१० ॥

你已得到凭自身之业所赢得的居所——不动、永恒、有功德、至上、坚固且不坏。

5.123.11

भगवन्संशयो मेऽस्ति कश्चितं छेत्तुमर्हसि ।
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥ ५.१२३.११ ॥

尊者啊,我心中有一个疑惑;请您为我解开,因为,世界的祖父啊,我不配去问别人。

5.123.12

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।
अनेकक्रतुदानौघैरार्जितं मे महत्फलम् ॥ ५.१२३.१२ ॥

我的大功果,因数千年间护佑臣民而增长,又由众多祭祀与布施之流所获得。

5.123.13

कथं तदल्पकालेन क्षीणं येनास्मि पातितः ।
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान् ।
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते ॥ ५.१२३.१३ ॥

我的一切为何在如此短暂的时间内耗尽,以致我被推落?尊者,您知道我所成就的永恒世界。光辉的大人啊,我的这一切为何完全毁灭了?

5.123.14

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥ ५.१२३.१४ ॥

你以众多祭祀和布施的洪流所积累的果报,因护佑百姓而增长,直到许多千年之末。

5.123.15

तदनेनैव दोषेण क्षीणं येनासि पातितः ।
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥ ५.१२३.१५ ॥

正因这过错,它耗尽了,你因此被推落。王中之王啊,因傲慢,天界的居民斥责了你。

5.123.16

नायं मानेन राजर्षे न बलेन न हिंसया ।
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥ ५.१२३.१६ ॥

王仙啊,此世界不因傲慢,不因力量,不因暴力,不因欺诈,不因幻术而成为永恒。

5.123.17

नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः ।
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित् ॥ ५.१२३.१७ ॥

王啊,你不可轻慢任何人,无论下等、上等或中等。被傲慢焚烧的人,任何地方、任何时候都不会有安宁。

5.123.18

पतनारोहणमिदं कथयिष्यन्ति ये नराः ।
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥ ५.१२३.१८ ॥

凡讲述此升降之事的人,即使遭遇艰难之境,也必能度过,此事毫无疑问。

5.123.19

एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।
निर्बध्नताऽतिमात्रं च गालवेन महीपते ॥ ५.१२३.१९ ॥

啊,大地之主,此过失往昔因傲慢降临于耶耶底,又因过度固执降临于伽罗婆。

5.123.20

श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम् ।
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥ ५.१२३.२० ॥

应当听从希望我们安好、愿友人得益者的话。不可固执,因为固执便是毁灭的升起。

5.123.21

तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥ ५.१२३.२१ ॥

因此,甘陀利之子啊,你也应舍弃傲慢与愤怒。英雄啊,与般度之子和解吧;君王啊,放下你的怒火。

5.123.22

स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम् ।
समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि ॥ ५.१२३.२२ ॥

愿你接受朋友有益的良言,而非谎言。与强者交战,你将陷入困境。

5.123.23

ददाति यत्पार्थिव यत्करति ।
यद्वा तपस्तप्यति यञ्जुहोति।
न तस्य नाशोऽस्ति न चापकर्षो ।
नान्यस्तदश्नाति स एव कर्ता ॥ ५.१२३.२३ ॥

君王啊,凡布施者、行事者、修苦行者、献祭者——对他而言既无损失,也无减少;他的果报不由他人享受,唯有行为者自己享受。

5.123.24

इदं महाख्यानमनुत्तमं हितं ।
बहुश्रुतानां गतरोषरागिणाम्।
समीक्ष्य लोके बहुधा प्रधारितं ।
त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥ ५.१२३.२४ ॥

此大叙事至上而有益。世间经过思虑,以多种方式为博学者及免于愤怒与贪爱者宣说;能洞察三种目标者,便能享有大地。

5.123.25

एतत्पुण्यतमं राजन्ययातेश्चरितं महत् ।
यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्तीह मानवाः ॥ ५.१२३.२५ ॥

大王,这是耶耶提(Yayāti)最为功德殊胜的伟大事迹。凡人闻之并使他人闻之,便能在此升往天界。