摩诃婆罗多 · 章 5.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.124.1
भगवन्नेवमेवैतद्यथा वदसि नारद ।
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥ ५.१२४.१ ॥
尊者啊,您所说的正是如此。我也如此愿望,但尊者啊,我并非能主宰此事。
5.124.2
एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः ।
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥ ५.१२४.२ ॥
说完这些,科罗婆便对克里希那说道:"克沙婆,你对我所说的,通向天界,利于世间,合乎正法与公道。"
5.124.3
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् ।
न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन ॥ ५.१२४.३ ॥
但是,亲爱的,我并非自主。正在进行的事情并不令我喜悦;而且,ジャナールダナ啊,我那些心术不正的儿子是不会接受的。
5.124.4
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ।
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ॥ ५.१२४.४ ॥
亲爱的克里希那啊,请努力劝服我那违背经典的愚蠢的难敌。大臂者啊,人中之最啊,请尽力而为。
5.124.5
न श्रृणोति महाबाहो वचनं साधु भाषितम् ।
गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः ।
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ॥ ५.१२४.५ ॥
他不听取甘陀利、智者维杜罗以及毗湿摩等其他希望他安好的友人的良言。大臂者啊,感官之主啊。
5.124.6
स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् ।
अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् ॥ ५.१२४.६ ॥
你应亲自教诲并约束那位心术邪恶、残忍、心怀恶念、昏昧无知的恶毒之王难敌。
5.124.7
सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन ॥ ५.१२४.७ ॥
朱那尔达那啊,这将是朋友为你所做的极大之事。
5.124.8
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥ ५.१२४.८ ॥
于是精通一切法与利之真义的伐尔希尼耶转向愤怒的难敌,以温和的话语说道。
5.124.9
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम ।
शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ॥ ५.१२४.९ ॥
俱卢中最优秀的难敌啊,请听我的话。婆罗多啊,这尤其是为了你和你的随从的福祉。
5.124.10
महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि ।
श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ॥ ५.१२४.१० ॥
你生于大智慧之家,理应如此行事。你具备学识与德行,拥有一切美德。
5.124.11
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥ ५.१२४.११ ॥
只有出身卑贱、心怀恶意、残忍无耻之人,才会做出你所想的这种事,孩子。
5.124.12
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् ।
असतां विपरीता तु लक्ष्यते भरतर्षभ ।
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ॥ ५.१२४.१२ ॥
在这个世界上,善人的行为被看到与法和利相合,而恶人的行为则被看到相反。婆罗多之牛啊,在你身上,这种行为却屡屡显得相反。
5.124.13
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ।
अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ॥ ५.१२४.१३ ॥
此处非法之后果可怖、夺命且巨大;它是不吉而无因的,哦,婆罗多,也无法避免。
5.124.14
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ।
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ॥ ५.१२४.१४ ॥
避开那场灾祸,你将成就自身之福,也将成就兄弟、臣仆与朋友之福,哦,焚烧敌人者。
5.124.15
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥ ५.१२४.१५ ॥
你将从不义而致污名之行为中解脱。
5.124.16
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः ।
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ।
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ॥ ५.१२४.१६ ॥
哦,人中之虎,婆罗多族之牛,应与般度诸子和好;他们智慧、勇武、充满大志、自制且博学。这对智慧的持国王既有利又令其欢喜。
5.124.17
पितामहस्य द्रोणस्य विदुरस्य महामतेः ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ॥ ५.१२४.१७ ॥
(应采纳)祖父、德罗纳、大智的维杜罗、克里帕、索摩达塔以及智慧的跋利迦的意见。
5.124.18
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः ।
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप ॥ ५.१२४.१८ ॥
(应采纳)阿湿缚达曼、毗迦尔纳、삼遮耶与毗文尸帝的意见,尤其是亲族与朋友的意见,哦,焚烧敌人者。
5.124.19
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ।
ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् ।
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥ ५.१२४.१९ ॥
和平之中才有众人与世界的福祉,我的孩子。你知羞耻,出身高贵,博学而仁慈。婆罗多之雄,要坚守父亲与母亲的教诲。
5.124.20
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।
उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम् ॥ ५.१२४.२० ॥
婆罗多啊,人们认为父亲所教导的才是最好的。你从前陷于困境时曾这样说过;你还记得父亲的教诲吗?
5.124.21
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः ।
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम् ॥ ५.१२४.२१ ॥
我的孩子,愿你和父亲都乐意与般度之子和好。库鲁之最,愿这连同大臣们的和解使你们二人都满意。
5.124.22
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।
विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥ ५.१२४.२२ ॥
凡人听了朋友的劝告却不遵从,最后就会被它焚烧,如同吃了金邦伽果的人。
5.124.23
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥ ५.१२४.२३ ॥
然而,凡因迷惑而不接受通向至善之言的人,拖延懈怠,失去了目标,事后便被悔恨所缠。
5.124.24
यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते ।
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥ ५.१२४.२४ ॥
若有人听闻至善之言,立即接受,并放弃自己的成见,他便在此世间因幸福而兴盛。
5.124.25
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥ ५.१२४.२५ ॥
若有人因逆反而不能忍受追求财富与欲乐者的话,只听逆耳之言,便会落入仇敌之手。
5.124.26
सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥ ५.१२४.२६ ॥
若有人无视善人的意见,依恶人的意见行事,他遭遇灾难时,朋友很快便会为他悲叹。
5.124.27
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥ ५.१२४.२७ ॥
若有人舍弃主要大臣而侍奉卑贱之人,陷入可怕的灾难后,便找不到脱身之路。
5.124.28
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम् ।
परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत ॥ ५.१२४.२८ ॥
若有人侍奉恶人,行为虚妄,不听朋友与善人之言,选择外人而憎恶自己人,婆罗多啊,大地便舍弃他。
5.124.29
तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि ।
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥ ५.१२४.२९ ॥
因此你与那些英雄为敌,却在此寻求庇护。婆罗多中的雄牛啊,你向无德、无能、愚昧之人求救。
5.124.30
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥ ५.१२४.३० ॥
除了你,世上哪个人会舍弃与因陀罗相等的亲族和大车战士,而指望别人的庇护呢?
5.124.31
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥ ५.१२४.३१ ॥
自出生以来,昆提之子常受你的侵害,然而法心的般度之子从不愤怒。
5.124.32
मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः ।
त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः ॥ ५.१२४.३२ ॥
亲爱的,大臂者!自出生以来,亲族便遭受虚假的对待,然而有荣名者却正当地对待你。
5.124.33
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ ।
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥ ५.१२४.३३ ॥
婆罗多之牛,你也应当如此行事;不可被愤怒所支配,对待你自己的主要亲族。
5.124.34
त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ ।
धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः ॥ ५.१२४.३४ ॥
婆罗多之牛,智者的行事以三大目标为本;三者不可兼得时,人们便追求法与利。
5.124.35
पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते ।
मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते ॥ ५.१२४.३५ ॥
在各自专注的人中,坚定者追求法,中等者追求利,而愚者只追求争斗与欲望。
5.124.36
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
कामार्थावनुपायेन लिप्समानो विनश्यति ॥ ५.१२४.३६ ॥
凡夫受感官支配,因贪婪而舍弃法,以不正当手段求取欲与利,终将毁灭。
5.124.37
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ॥ ५.१२४.३७ ॥
追求欲望与财富的人,应从一开始就践行法,因为财富或欲望从不离开法。
5.124.38
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते ।
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥ ५.१२४.३८ ॥
人主啊,据说法才是三类目标的途径;追求者借此迅速成长,如同火在干草中蔓延。
5.124.39
स त्वं तातानुपायेन लिप्ससे भरतर्षभ ।
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥ ५.१२४.३९ ॥
婆罗多之雄,亲爱的,你以那不当之道,追求在诸王之中享有盛名的伟大而光耀的霸权。
5.124.40
आत्मानं तक्षति ह्येष वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ।
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ॥ ५.१२४.४० ॥
犹如以斧砍伐森林,行为虚假者在行为端正者之中,自斩其身,大王啊。对于你不希望其败亡的人,不应斩断他的智慧。
5.124.41
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः ।
आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ॥ ५.१२४.४१ ॥
判断不断绝者,其心专注于善。婆罗多啊,自律之人在三界中不应轻视任何人。
5.124.42
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान् ।
अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः ॥ ५.१२४.४२ ॥
若连某个平凡之人也陷入不忍之怒,更何况那些般度之雄呢!被愤怒所支配的人什么也察觉不到。
5.124.43
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ।
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ॥ ५.१२४.४३ ॥
凡所延展者皆将断绝;婆罗多啊,且看准则。亲爱的孩子,你最好远离恶人,与般度之子们和好。
5.124.44
तैर्हि संप्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि ।
पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ॥ ५.१२४.४४ ॥
因为你若与他们和悦相处,享用般度之子所建立的土地,王中之最,你将获得一切所欲。
5.124.45
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशससऽन्वतः ।
दुःशासने दुर्विषहे कर्णे चापि ससौबले ॥ ५.१२४.४५ ॥
你把般度之子置于身后,却向他人寻求庇护——求助于难以忍受的难降,求助于迦尔纳,也求助于苏婆罗之子沙恭尼。
5.124.46
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ।
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ॥ ५.१२४.४६ ॥
你把王权托付给这些人,渴望繁荣,婆罗多啊;然而在法与利的知识上,他们对你而言并不足够。
5.124.47
विक्रमे चाप्यपर्याप्तः पाण्डवान्प्रति भारत ।
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ॥ ५.१२४.४७ ॥
在对抗般度之子的勇武上,你也不足,婆罗多啊;确实,与你联合的这些国王也都不足以匹敌。
5.124.48
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ।
इदं सनिहितं तात समग्रं पार्थिवं बलम् ॥ ५.१२४.४८ ॥
为了在战场上目睹愤怒的婆罗多之子毗摩的面容,亲爱的孩子,这全部王军已在此集结。
5.124.49
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ।
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ॥ ५.१२४.४९ ॥
这是毗湿摩,这是德罗纳,这是迦尔纳,这是迦利巴。苏摩达塔之子布利瑟罗婆、马嘶、胜车也在此处。
5.124.50
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ।
अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः ।
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥ ५.१२४.५० ॥
这些人都无法与财富征服者(阿周那)对抗。在战斗中,阿周那即使对于天神、阿修罗、人类和乾达婆也是不可战胜的。不要把心思放在战斗上。
5.124.51
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले ।
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥ ५.१२४.५१ ॥
在整个王者军队中,能看到谁在战斗中遇到阿周那后还能平安回家吗?
5.124.52
किं ते जनक्षयेणेह कृतेन भरतर्षभ ।
यस्मिञ्चिते जितं ते स्यात्पुमानेकः स दृश्यतां ॥ ५.१२४.५२ ॥
婆罗多族之牛啊,在此造成人命的毁灭,对你有何益处?让那唯一一个人被看见吧,战胜他,你便能获胜。
5.124.53
यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।
अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः ॥ ५.१२४.५३ ॥
谁敢与那在甘达瓦普拉斯塔征服了包括天神、乾达婆、夜叉、阿修罗和龙蛇在内的一切者作战?
5.124.54
तथा विराटनगरे श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ ५.१२४.५४ ॥
同样,在毗罗陀城也听说过一件伟大而奇妙的事迹。一人对抗众人的这个例子就已足够。
5.124.55
युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः ।
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।
आशंससीह समरे वीरमर्जुनमूर्जितम् ॥ ५.१२४.५५ ॥
你在此战中希望战胜阿周那——那位在战斗中使大神湿婆亲自喜悦的强大英雄,那不可战胜、不可侵犯、胜利的、永不衰落的人。
5.124.56
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः ॥ ५.१२४.५६ ॥
谁还能向我的第二人、普利塔之子请求?即使在战斗中迎面而来的是城市摧毁者因陀罗本尊。
5.124.57
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ ५.१२४.५७ ॥
能以双臂举起大地、愤怒时焚烧这些众生、从天上打倒诸神的人,才能在战斗中战胜阿周那。
5.124.58
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा ।
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ॥ ५.१२४.५८ ॥
看看你的儿子、兄弟、亲族和姻亲吧;愿这些婆罗多中的优秀者不要因你而毁灭。
5.124.59
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥ ५.१२४.५९ ॥
让俱卢族的残余者存活吧;愿这一族不致败亡。啊,人主,愿你不被称为“灭族者”,愿你的名声不致丧失。
5.124.60
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ॥ ५.१२४.६० ॥
大车将领们会亲自立你为太子;在大王国里,他们也会立你的父亲持国王为人民之主。
5.124.61
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ॥ ५.१२४.६१ ॥
亲爱的儿子,不要轻视向你走来的福运。把一半交给普利塔之子,你将获得巨大的兴盛。
5.124.62
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।
संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ५.१२४.६२ ॥
与般度之子议和,听从益友的忠告,并受到朋友们的欢悦,你将长久获得福祉。