Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.125

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.125.1

ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् ।
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ॥ ५.१२५.१ ॥

于是,山遮努之子毗湿摩听了柯沙婆的话,对易怒的难敌说道:婆罗多族的雄牛啊。

5.125.2

कृष्णेन वाक्यमुक्तोऽसि सृहृदां शममिच्छता ।
अन्वपद्यस्व तत्तात मा मन्युवशमन्वगाः । ॥ ५.१२५.२ ॥

克里希那愿众友平安,已向你说了这番话。孩子啊,请听从他,不要陷入愤怒的掌控。

5.125.3

अकृत्वा वचनं तात केशवस्य महात्मनः ।
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ॥ ५.१२५.३ ॥

孩子啊,若不遵行伟大灵魂柯沙婆的话,你将永远得不到福祉、快乐或吉祥。

5.125.4

धर्म्यमर्थ्यं महाबाहुराह त्वां तात केशवः ।
तदर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ॥ ५.१२५.४ ॥

臂力强大的柯沙婆已对你说了合乎法义而有益的话。孩子啊,为此请顺从他。国王啊,不要毁灭百姓。

5.125.5

ज्वलितां त्वमिमां लक्ष्मीं भारतीं सर्वराजसु ।
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भंशयिष्यसि ॥ ५.१२५.५ ॥

只要持国王还在世,你因恶行而将毁掉这婆罗多族的光耀荣华,它在诸王之中熠熠生辉。

5.125.6

आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम् ।
अहमित्यनया बुद्ध्या जीविताद्धंशयिष्यतसि ॥ ५.१२५.६ ॥

以“我”之念头,你将连同大臣、子孙、兄弟和亲族,一起从生命中丧失自己。

5.125.7

अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् ।
पितुश्च भारतश्रेष्ठ विदुरस्य च धीमतः ॥ ५.१२५.७ ॥

婆罗多之最啊,违背了克沙firstly的真实而有益之言、你父亲之言以及智者毗杜罗之言的人。

5.125.8

मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः ।
मातरं पितरं चैव मा मञ्जीः शोकसागरे ॥ ५.१२५.८ ॥

毁灭家族的卑劣之人、心术不正者,不要走上邪路;不要让母亲和父亲沉没于忧愁之海。

5.125.9

अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः ।
अमर्षवशमापन्नं निःश्वसन्तं पुनःपुनः ॥ ५.१२५.९ ॥

于是德罗纳在那里对陷于愤怒之中、不断叹息的难敌说了这些话。

5.125.10

धर्मार्थयुक्तं वचनमाह त्वां तात केशवः ।
तथा भीष्मः शान्तनवस्तञ्जुषस्व नराधिप ॥ ५.१२५.१० ॥

亲爱的,克沙对你说了关联法与利益的话,静乔努之子毗湿摩也如此。人主啊,请采纳之。

5.125.11

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ ।
आहतुस्त्वां हितं वाक्यं तञ्जुषस्व नराधिप ॥ ५.१२५.११ ॥

两位智慧、明达、自制、愿你得利且博学的人,对你说了有益之言。人主啊,请采纳之。

5.125.12

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः ।
माधवं बुद्धिमोहेन माऽवमंस्थाः परन्तप ॥ ५.१२५.१२ ॥

大智者啊,请遵从克利希那与毗湿摩所说的话;降伏敌人者啊,不要因心智迷惑而轻慢摩陀婆(克利希那)。

5.125.13

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् ।
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ॥ ५.१२५.१३ ॥

那些鼓励你的人绝不会害你;在战场上,他们将把仇恨加在敌人的颈项之上。

5.125.14

मा जीघनः प्रजाः सर्वाः पुत्रान्भ्रातॄंस्तथैव च ।
वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान् ॥ ५.१२५.१४ ॥

不要杀害所有的民众、你的儿子和兄弟;要知道,凡是有婆苏提婆和阿周那之处,他们都是不可战胜的。

5.125.15

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः ।
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ॥ ५.१२५.१५ ॥

克利须那与毗湿摩这两位好友的意见确实是真实的。亲爱的,若你不接受,日后必将悔恨,婆罗多的后裔啊。

5.125.16

यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः ।
कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः ।
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ ॥ ५.१२५.१६ ॥

正如持斧罗摩(阇摩陀吉尼之子)所说,这位阿周那更为伟大。德瓦基之子克利须那,即使诸神也难以抵挡。婆罗多族的雄牛啊,寻求你欢喜的人所说的话,对你有何益处?

5.125.17

एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु ।
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ॥ ५.१२५.१७ ॥

我已将这一切告诉你;你愿意怎样就怎样做吧。婆罗多族中最优秀的人啊,我不敢再向你进言了。

5.125.18

तस्मिन्वाक्यान्तरे वाक्यं क्षत्ताऽपि विदुरोऽब्रवीत् ।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ ५.१२५.१८ ॥

在这些话语的间隙,克沙塔(管家)维杜罗也开口了,他注视着愤怒的持国之子难敌。

5.125.19

दुर्योधन न शोचामि त्वामहं भरतर्षभ ।
इमो तु वृद्धौ शोचामि गान्धारीं पितरं च ते ॥ ५.१२५.१९ ॥

杜尤陀那啊,婆罗多族的雄牛,我不为你悲伤。但我为这两位老人——甘陀利和你的父亲——而悲伤。

5.125.20

यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा ।
हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ ॥ ५.१२५.२० ॥

只要你这恶心的主人在位,他们两人便会无依无靠地流浪,朋友与大臣被杀,如同断了翅膀的鸟。

5.125.21

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ।
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ॥ ५.१२५.२१ ॥

这两人将在这片大地上悲伤地流浪为乞丐,因为他们生下了你这样灭族、邪恶、卑劣的人。

5.125.22

अथ दुर्योधं राजा धृतराष्ट्रोऽभ्यभाषत ।
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ ५.१२५.२२ ॥

于是国王持国对杜尤陀那说话,他与兄弟们同坐,被众王围绕。

5.125.23

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना ।
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ॥ ५.१२५.२३ ॥

杜尤陀那啊,听听伟大的舍利(克里希纳)所说的话吧。接受它吧,这至为吉祥,带来利益与安稳,且不会消逝。

5.125.24

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा ।
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ ५.१२५.२४ ॥

有这位行事毫不费力的克里希纳为助,我们将在诸王之中获得所有想要的目的。

5.125.25

सुसंहतः केशवेन तात गच्छ युधिष्ठिरम् ।
चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम् ॥ ५.१२५.२५ ॥

孩子啊,与克舍婆同心协力前往坚战处;为婆罗多族的全部福祉与安宁举行吉祥之礼。

5.125.26

वासुदेवेन तीर्थेन तात गच्छस्व संशमम् ।
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ॥ ५.१२५.२६ ॥

孩子啊,借婆修提婆之力走向和平;我认为此刻正是时机。不要走上难敌的道路。

5.125.27

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥ ५.१२५.२७ ॥

若你拒绝那为求和平而恳求、为你的利益而殷切陈说的克舍婆,那你便无法避免失败。