Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.126

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.126.1

धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ ५.१२६.१ ॥

毗耶娑之子(?)不宜——婆罗多谱中,毗湿摩与德罗纳听闻持国王之言,二人同样忧伤,对违背命令的难敌说了这些话。

5.126.2

यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् ।
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ॥ ५.१२६.२ ॥

只要黑天与阿周那尚未披甲,只要甘提婆弓仍在,只要达乌姆亚尚未在祭火中献供,此地敌军便仍然存在。

5.126.3

यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः ।
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ ५.१२६.३ ॥

只要以羞耻为本的大弓手坚战在愤怒中尚未看向你的军队,这场屠杀便应停止。

5.126.4

यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः ।
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ ५.१२६.४ ॥

只要立于自军之中的普利塔之子(阿周那)未被看见,大弓手毗摩森那也未被看见,这场屠杀便应停止。

5.126.5

यावन्न चरते मार्गान्पृतनामभिधर्षयन् ।
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः ॥ ५.१२६.५ ॥

只要手持金刚杵的毗摩森那尚未冲击敌军、在路上奔走,便让般度诸子将其平息。

5.126.6

यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ।
गदया वीरघातिन्या फलानीव वनस्पतेः ।
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ॥ ५.१२६.६ ॥

只要杀英雄的金刚杵尚未在战场上打落象军勇士的头颅,如同树上熟透的果实按时落下,这场屠杀便应停止。

5.126.7

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥ ५.१२६.७ ॥

无种、偕天、猛光(即般遮之子)、毗罗吒、犀乾陀、以及希舒波罗之子,皆披甲而立。

5.126.8

यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥ ५.१२६.८ ॥

在这些精通武艺、迅速放箭的勇士如鳄鱼入海般冲入之前,愿这场杀戮平息。

5.126.9

यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् ।
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ॥ ५.१२६.९ ॥

在凶猛的鹫羽箭落在诸王柔嫩的身体上之前,愿这场杀戮平息。

5.126.10

चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च ।
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः ॥ ५.१२६.१० ॥

在大弓手的巨箭射中那些涂抹檀香与沉香、佩戴项链与金饰的勇士胸膛之前,

5.126.11

कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥ ५.१२६.११ ॥

在精通武艺者从远处迅速射出的铁箭落在选定目标之上之前,愿这场杀戮平息。

5.126.12

अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥ ५.१२६.१२ ॥

你低首向他致敬,愿法王坚战,诸王中的象王,以双手接纳你。

5.126.13

ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।
स्कन्धे निक्षिपतां बहुं शान्तये भरतर्षभ ॥ ५.१२६.१३ ॥

愿右手善巧的人,以极大的敬意将你刻有旗帜、象钩与幡旗之纹的右手置于自己肩上,为了和平,婆罗多族中的雄牛啊。

5.126.14

रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च ।
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥ ५.१२६.१४ ॥

以盛有宝石与药草之掌、镶嵌宝石的手指,让他在你端坐时抚摸你的背。

5.126.15

शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः ।
साम्नाऽभिवदतां चापि शान्तये भरतर्षभ ॥ ५.१२६.१५ ॥

你的亲族、肩如娑罗树、臂膀粗壮的狼腹(毗摩)也以和善之言向你致意,为了和平,婆罗多族中的雄牛啊。

5.126.16

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः ।
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव ॥ ५.१२६.१६ ॥

你已受阿周那、双子以及这三人的致礼,请俯首亲吻他们的头,并以慈爱回礼,国王啊。

5.126.17

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।
यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः ॥ ५.१२६.१७ ॥

看见你与英勇的般度诸子及兄弟们团聚,愿诸王尽情流下欢喜的泪水。

5.126.18

घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥ ५.१२६.१८ ॥

愿在各王都向所有富有的国王宣告:大地应以兄弟之情共享,你要摆脱忧愁。