摩诃婆罗多 · 章 5.127
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.127.1
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥ ५.१२७.१ ॥
杜尔约达那在俱卢议会上听到那番不悦之言后,回答了大臂、名声显赫的婆苏提婆。
5.127.2
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव ।
मामेव हि विशेषेण विभाष्य परिगर्हसे ॥ ५.१२७.२ ॥
啊,羯舍婆,你应当仔细思量后再说;你特别地责备的是我。
5.127.3
भक्तिवादेन पार्थानामकस्मान्मधुसूदन ।
भवान्गर्हयति नित्यं किं समीक्ष्य बलाबलम् ॥ ५.१२७.३ ॥
啊,摩图苏陀那,你借着对普利塔之子的忠诚,为何无故地常常责备我?你是否权衡过强弱?
5.127.4
भवान्क्षत्ता च राजा वाऽप्याचार्यो वा पितामहः ।
मामेव परिगर्हन्ते नान्यं कंचन पाण्डवम् ॥ ५.१२७.४ ॥
你、克沙塔、国王、师尊或祖父,都只责备我一人,而不责备任何其他般度之子。
5.127.5
न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः ।
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥ ५.१२७.५ ॥
我自己并未察觉有任何过失;然而你们所有人连同诸王都憎恨我。
5.127.6
न चाहं कंचिदत्यर्थमपराधमरिन्दम ।
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥ ५.१२७.६ ॥
啊,降敌者,羯舍婆,即便我反复思量最细微的过失,也看不到任何重大的罪过。
5.127.7
प्रियाभ्युपगते द्यूते पाण्डवा मधूसूदन ।
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥ ५.१२७.७ ॥
摩陀婆啊,当那钟爱的赌博被接受时,般度子被沙古尼在国土上击败。我在其中有何过错?
5.127.8
यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः ।
तेभ्य एवाभ्यनुज्ञातं तत्तद मधुसूदन ॥ ५.१२७.८ ॥
摩陀婆啊,般度子在那里重新赢得的任何财富,都只允许归还给他们。
5.127.9
अपराधो न चास्माकं यत्ते ह्यक्षैः पराजिताः ।
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥ ५.१२७.९ ॥
他们因骰子而败,这不是我们的过错。胜者中的最优者啊,不可战胜的普利塔之子被流放到森林中。
5.127.10
केन वाऽप्यपवादेन विरुद्ध्यन्त्यरिभिः सह ।
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥ ५.१२७.१० ॥
他们以何种指责与敌人对立?克里希那啊,无力的般度子们欣喜地像敌人一样行事。
5.127.11
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि ।
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥ ५.१२७.११ ॥
我们对他们做了什么,或犯了何罪?般度子与索罗奈人一道,为何想杀死持国之子?
5.127.12
न चापि वयमुग्रेण कर्मणा वचनेन वा ।
प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम् ॥ ५.१२७.१२ ॥
我们并非因粗暴的行为或言语而堕落;在此,我们甚至出于恐惧而向百祭者(因陀罗)致敬。
5.127.13
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् ।
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥ ५.१२७.१३ ॥
克里希那啊,我看不到有谁奉行刹帝利之法,并敢在战斗中战胜我们,灭敌者啊。
5.127.14
न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन ।
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥ ५.१२७.१४ ॥
毗湿摩、克里帕、德罗纳与迦尔纳,摩图苏登啊,即便诸神也不能在战斗中战胜,何况般度之子。
5.127.15
स्वधर्ममनुपश्यन्तो यदि माधव संयुगे ।
अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत् ॥ ५.१२७.१५ ॥
摩陀婆啊,若我们顾念自身之法,在战斗中于适时被兵器所杀,那便正是通往天界之死。
5.127.16
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन ।
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ॥ ५.१२७.१६ ॥
遮那陀那啊,这正是我们刹帝利的首要之法:在战斗中躺在箭床之上。
5.127.17
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे ।
अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव ॥ ५.१२७.१७ ॥
摩陀婆啊,若我们在战斗中获得英雄之床,不向敌人低头,他们便不会折磨我们。
5.127.18
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् ।
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित् ॥ ५.१२७.१८ ॥
谁出身刹帝利之家,依刹帝利之法谋生,会因恐惧而在此低头行礼,只为顾惜生计?
5.127.19
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेदिह कर्हिचित् ॥ ५.१२७.१९ ॥
人应当奋起而不屈服,因为努力本身就是男子气概。即使在厄运之时折断,也绝不应在此屈服。
5.127.20
इति मातङ्गवचनं परिप्सन्ति हितेप्सवः ।
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ॥ ५.१२७.२० ॥
因此,追求福祉的人珍视摩坦伽的这句话。像我这样的人,只应为法义和婆罗门而屈身行礼。
5.127.21
अचिन्तयन्कंचिदन्यं यावज्जीवं तथा चरेत् ।
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥ ५.१२७.२१ ॥
不顾他人,终身都应如此行事。这是刹帝利的法,也是我始终的看法。
5.127.22
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत् ।
न स लभ्यः पुनर्जातु मयि जीवति केशव ॥ ५.१२७.२२ ॥
我父亲先前允许给我的那份王国,只要我还活着,哦,凯沙瓦,就永远不可能再夺回。
5.127.23
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन ।
न्यस्तशस्त्रा वयं ते वाऽप्युपजीवाम माधव ।
अप्रदेयं पुरा दत्तं राज्यं परवतो मम ॥ ५.१२७.२३ ॥
只要国王持国还在,哦,遮那陀那,我们放下武器,便只能依靠你而生活,哦,摩陀婆。先前由他人所给、本不该给的王国,是属于我的。
5.127.24
अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन ।
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन ॥ ५.१२७.२४ ॥
即使因无知或恐惧而给予我的,哦,遮那陀那,今天的般度子孙也不可能再得回来,哦,婆利西尼族的喜悦。
5.127.25
ध्रियमाणे महाबाहौ मयि संप्रति केशव ।
यावद्धि तीक्ष्णया सूच्या विद्ध्येदग्रेण केशव ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ ५.१२७.२५ ॥
克舍婆啊,只要我还活着,哪怕是锐利针尖所能刺入的一点土地,也不能让给般度之子们。