摩诃婆罗多 · 章 5.128
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.128.1
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ ५.१२८.१ ॥
于是达沙尔哈(克里希纳)大笑,双目因愤怒而激动,在俱卢集会上对难敌说了这些话。
5.128.2
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि ।
स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥ ५.१२८.२ ॥
你将得到英雄的床榻,这正是你所愿,你将得到它。与大臣们一起坚定吧;将有大毁灭。
5.128.3
यच्चैतन्मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः ।
पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप ॥ ५.१२८.३ ॥
愚人啊,你以为我对般度之子没有任何过失——人主啊,你要明白这一切。
5.128.4
श्रियां संतप्यमानेन पाण्डवानां महात्मनाम् ।
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥ ५.१२८.४ ॥
婆罗多啊,因为伟大的般度之子们的财富而心怀焦虑,你与苏波罗之子(沙恭尼)以恶谋策划了这场赌博。
5.128.5
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः ।
तथाऽन्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥ ५.१२८.५ ॥
孩子啊,受善人尊敬的高贵亲属怎会去行不义?他们走正路,而你却是走歪路的人。
5.128.6
अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम् ।
असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥ ५.१२८.६ ॥
大智者啊,骰子赌博毁坏善人的判断;在恶人之中,由此产生分裂与灾祸。
5.128.7
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् ।
असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः ॥ ५.१२८.७ ॥
你以赌博为开端,造成了这场可怕的灾祸,不顾善人的良好品行,与罪恶之徒为伍。
5.128.8
कश्चान्यो भ्रातृभार्यां वै विप्रकर्तृं तथार्हति ।
आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया ॥ ५.१२८.८ ॥
还有谁会如此羞辱兄弟的妻子呢?如所明言,你把德罗波蒂带到议事厅,羞辱了她。
5.128.9
कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी ।
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥ ५.१२८.९ ॥
出身高贵、品德兼备,比生命还珍贵的潘杜诸子之正妃——你却如此羞辱了她。
5.128.10
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि ।
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ॥ ५.१२८.१० ॥
诸位俱卢都知道,正如俱卢议会中所说:因为难降,贡蒂之子——敌人的焚烧者——踏上了流放之路。
5.128.11
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु ।
स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् ॥ ५.१२८.११ ॥
对于自己的亲族——他们始终品行端正、不贪婪、奉行法道——哪个善人会如此不当地行事呢?
5.128.12
नृशंसानामनार्याणां तथा परुषभाषणम् ।
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥ ५.१२८.१२ ॥
残忍卑劣之人的粗暴言辞,被迦尔纳与难降多次说出,你也曾多次如此。
5.128.13
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते ।
आस्थितः परमो यत्नो न समृद्धश्च तत्तव ॥ ५.१२८.१३ ॥
你与他们的母亲一同在婆罗那瓦塔竭力想要烧死那些孩子,但你的计划并未成功。
5.128.14
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा ।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ ५.१२८.१४ ॥
那时般度五子隐匿起来,与母亲一同在一个名为一轮城的地方,于婆罗门的家中居住了很长时间。
5.128.15
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया ।
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥ ५.१२८.१५ ॥
你以毒药和蛇缚等一切手段企图毁灭般度五子,但你的计划并未成功。
5.128.16
एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् ।
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥ ५.१२८.१६ ॥
你对般度五子怀有这样的心思,且一贯行为虚伪,对伟大的般度五子怎会没有过错呢?
5.128.17
एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत् ।
स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन ॥ ५.१२८.१७ ॥
行为如此的罪人,你怎配留在王国之中?辱没家族的人啊,你将失去王国与幸福。
5.128.18
यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति ।
तच्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः ॥ ५.१२८.१८ ॥
你不肯给那些索要父辈应得之份的人,罪人啊,你自己将不得不给予;失去权势之后,你将被推倒。
5.128.19
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् ।
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥ ५.१२८.१९ ॥
你对般度之子做了许多不当之事,如同残忍之人,你这虚伪的卑劣者,披甲而行,走上了歧途。
5.128.20
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च ।
शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव ॥ ५.१२८.२० ॥
母亲、父亲、毗湿摩、德罗纳和维杜罗屡次对你说:「平息吧」;然而,国王啊,你并不平息。
5.128.21
शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः ।
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ॥ ५.१२८.२१ ॥
和平之中对你与阿周那双方都有极大的好处;国王啊,你却不喜欢。这除了心智的轻浮,还能是什么呢?
5.128.22
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः ।
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥ ५.१२८.२२ ॥
国王啊,违背朋友们的话,你不会得到安宁;大地之主啊,你正在做不义而可耻的事。
5.128.23
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् ।
दुःशासन इदं वाक्यमब्रवीत्करुसंसदि ॥ ५.१२८.२३ ॥
达沙尔诃(克利须那)如此说话时,难降在俱卢议会中对愤怒的难敌说了这番话。
5.128.24
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः ।
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥ ५.१२८.२४ ॥
国王啊,如果你不出于自愿与般度五子讲和,俱卢族就会把你捆绑起来,交给贡蒂之子。
5.128.25
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥ ५.१२८.२५ ॥
人中之牛啊!毗迦尔坦那(迦尔纳)、你、我,以及这三人——毗湿摩、德罗纳和你的父亲——将把我们交给般度之子。
5.128.26
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः ।
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥ ५.१२८.२६ ॥
般度之子……不,是持国之子难敌听到兄长的这番话后,怒气冲冲地站起身,像一条大蛇般嘶嘶作响地离去了。
5.128.27
विदुरं च सोमदत्तं च महाराजं च बाह्लिकम् ।
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥ ५.१२८.२७ ॥
维杜罗、索摩达多、大王与跋利迦、克里帕与索摩达多、毗湿摩、德罗纳和阇那德那(黑天)——
5.128.28
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः ।
अशिष्टवदमर्यादो मानी मान्यावमानिता ॥ ५.१२८.२८ ॥
他轻视所有这些人,那恶意的、无耻的、无礼的、不守规矩的、自负的人,羞辱了本应受尊敬的人。
5.128.29
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् ।
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥ ५.१२८.२९ ॥
众兄弟见那人中之牛离去,连同大臣,所有的国王也都跟随其后。
5.128.30
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह ।
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ॥ ५.१२८.३० ॥
见难敌怒气冲冲地从会堂中站起,与兄弟们一同离去,檀努之子毗湿摩便开口说道。
5.128.31
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते ।
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥ ५.१२८.३१ ॥
舍弃法与利而纵容愤怒的人,在其败亡之时,仇敌很快便会嘲笑他。
5.128.32
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् ।
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥ ५.१२८.३२ ॥
这位心术邪恶的王子,持国之子,不知正当的手段,对王国怀有虚妄的骄傲,受愤怒与贪婪的支配。
5.128.33
कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन ।
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥ ५.१२८.३३ ॥
遮那陀那啊,我认为这整个刹帝利族已被时间催熟了,因为众王由于迷惑,都与他们的大臣一同追随了这一切。
5.128.34
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः ।
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥ ५.१२८.३४ ॥
听完毗湿摩的话,有力的莲花眼达舍阿尔诃(克里希那)向以毗湿摩、德罗纳为首的所有人发言。
5.128.35
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।
प्रसह्य मन्दमैश्वर्ये न नियच्छन्ति यन्नृपम् ॥ ५.१२८.३५ ॥
这是所有库鲁长老的大过错:他们不制止那个愚昧的国王,他凭借权势强行施为。
5.128.36
तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः ।
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं श्रृणुतानघाः ॥ ५.१२८.३६ ॥
降伏敌人的诸位啊,我认为那里该做的事已经到了时候;若去做,便会有福祉。无罪的诸位啊,请听全部。
5.128.37
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः ।
भवतामानुकूल्येन यदि रोचेत भारताः ॥ ५.१२८.३७ ॥
这对你们来说是显而易见的,婆罗多的后裔们:如果我将说的有益之言合乎你们的心意,那就这样吧。
5.128.38
पुत्रो वै भोजराजस्य दुराचारो ह्यनात्मवान् ।
जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः ॥ ५.१२८.३८ ॥
博惹王之子,行为恶劣、缺乏自制,在其父仍在世时夺取了王权,最终落入死亡之手。
5.128.39
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः ।
ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥ ५.१२८.३९ ॥
乌格拉塞纳之子刚萨被亲族抛弃,在大战中被我所杀,我是为了族人的利益而愿如此。
5.128.40
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः ।
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥ ५.१२८.४० ॥
我们族人再次尊敬阿胡迦,并立乌格拉塞纳为王,他是博惹王族的光大者。
5.128.41
संसमेकं परित्यज्य कुलार्थे सर्वयादवाः ।
संभूय सुखमेधन्ते भारतान्धकवृष्णयः ॥ ५.१२८.४१ ॥
为了家族,舍弃一人,所有的耶达瓦人聚合在一起,安乐地兴盛——婆罗多啊,安达卡与毗瑟尼。
5.128.42
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः ।
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥ ५.१२८.४२ ॥
国王啊,至高的众生之主生主(Prajāpati)也曾说过,当天神与阿修罗的战斗排开阵势、兵器已高举之时。
5.128.43
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत ।
अब्रवीत्तु तदा देवो भगवाँल्लोकभावनः ॥ ५.१२८.४३ ॥
婆罗多啊,当诸世界分裂为二而趋于毁灭时,那时世界的护持者圣神之主天神说道。
5.128.44
पराभविष्यन्त्यसुरा दैतेया दानवैः सह ।
आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः ॥ ५.१२८.४४ ॥
阿修罗与提迭耶及檀那婆将被击败;阿底提耶、婆苏、楼陀罗及天界诸神将获胜。
5.128.45
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।
अस्मिन्युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम् ॥ ५.१२८.४५ ॥
天神、阿修罗、人类、乾闼婆、龙蛇与罗刹,在此战中极度愤怒,将彼此相杀。
5.128.46
वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति ।
इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः ।
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥ ५.१२८.४६ ॥
如此思量之后,至尊生主对法神说:“将这些提迭耶与檀那婆缚住,交给伐楼那;否则现存的这个世界将不会持续片刻。”
5.128.47
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः ।
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥ ५.१२८.४७ ॥
至尊之主如此吩咐,法神便遵其命,将所有提迭耶与檀那婆缚住,交给伐楼那。
5.128.48
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः ।
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥ ५.१२८.४८ ॥
伐楼那,水之主,以法之绳索及自己的绳索缚住他们,常在海中警惕守护檀那婆。
5.128.49
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् ।
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥ ५.१२८.४९ ॥
同样,把难敌、迦尔纳、苏跋罗之子沙恭尼和难降也捆绑起来,交给般度五子。
5.128.50
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ५.१२८.५० ॥
为家族可舍弃一人,为村落可舍弃家族,为国土可舍弃村落,为自身可舍弃大地。
5.128.51
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः ।
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥ ५.१२८.५१ ॥
国王啊,先把难敌捆住,然后与般度五子讲和,使刹帝利不因你而灭亡,刹帝利中的最优者啊。