Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.129

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.129.1

कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः ।
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥ ५.१२९.१ ॥

闻克里希纳之言,人主持国者般遮罗怛罗(Dhṛtarāṣṭra)急切地对通晓一切法的毗杜罗说道。

5.129.2

गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम् ।
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ॥ ५.१२९.२ ॥

去吧,我的孩子,大智者,把远见的甘陀利请到这里来;我将与她一同劝说那恶念之人。

5.129.3

यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम् ।
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ॥ ५.१२९.३ ॥

即使她无法平息那心志邪恶、性情败坏的恶人,我们作为克里希纳的朋友,仍将遵从他的话。

5.129.4

दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ।
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् । ॥ ५.१२९.४ ॥

或许,她为平息心志邪恶、友党不善的难敌而说的话,能使这由难敌酿成的可怕大灾难离我们而去。

5.129.5

शमयेच्चिररात्राय योगक्षेमवदव्ययम् ।
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् । ॥ ५.१२९.५ ॥

愿她长久地确立那带来安泰与保障的不坏之和平。国王的话语传到,毗杜罗便就远见的甘陀利之事行动起来。

5.129.6

आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥ ५.१२९.६ ॥

依照般遮罗怛罗的命令,毗杜罗把甘陀利带了来。

5.129.7

एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥ ५.१२९.७ ॥

甘陀利啊,你的儿子心术邪恶,违抗命令。因贪图权位,他将失去权位与性命。

5.129.8

अशिष्टवदमर्यादः पापैः सह दुरात्मवान् ।
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ॥ ५.१२९.८ ॥

他不守礼法,毫无分寸,与恶人为伍,心术邪恶。愚昧之中违背了善友的劝告,他已离开了朝堂。

5.129.9

सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी ।
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥ ५.१२९.९ ॥

甘陀利公主听了丈夫的话,为求最大的福祉,说出了这番话。

5.129.10

आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् ।
नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ।
आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा ॥ ५.१२९.१० ॥

快把那因渴望王位而焦躁的儿子召来。毁坏法与利的无礼之人,不可能得到王国;即使得到了,无谦逊之人也无论如何不能保住。

5.129.11

त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः ।
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ॥ ५.१२९.११ ॥

持国啊,在此你自己最应受责备,溺爱诸子。明知他的恶行,你仍然顺从他的主见。

5.129.12

स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः ।
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ॥ ५.१२९.१२ ॥

他被欲望与愤怒所迷惑,已然沉溺于贪欲。大王啊,今天你已无法以武力将他扭转回来。

5.129.13

राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः ।
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्रुते फलम् ॥ ५.१२९.१३ ॥

愚昧、痴愚、心怀恶意、身边多是恶人且贪婪的持国,将承受其交出王国之果。

5.129.14

कथं हि स्वजने भेदमुपेक्षेत महीपतिः ।
भिन्नं हि स्वजनेन त्वां प्रहरिष्यन्ति शत्रवः ॥ ५.१२९.१४ ॥

国王怎能忽视自家亲族之间的分裂?被亲族所离间的你,将遭敌人打击。

5.129.15

या हि शक्या महाराज साम्ना भेदेन वा पुनः ।
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥ ५.१२९.१५ ॥

大王,在可以以和解或离间度过的灾难中,谁会对自己的亲族施加惩罚呢?

5.129.16

शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् ।
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥ ५.१२९.१६ ॥

依持国之命,并依母亲之言,刹多使难以忍耐的难敌再次进入议会。

5.129.17

स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् ।
अभिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः ॥ ५.१२९.१७ ॥

他渴望母亲的话,再次进入议会,双眼通红,因愤怒如蛇般喘息。

5.129.18

तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ॥ ५.१२९.१८ ॥

甘陀利见儿子走入议会,且已走上邪途,便责备他,并为求和平而说了这番话。

5.129.19

दुर्योधन निबोधेदं वचनं मम पुत्रक ।
हितं ते सानुबन्धस्य तथाऽऽयत्यांसुखोदयम् ॥ ५.१२९.१९ ॥

难敌啊,我的儿子,听我这句话吧。它对你和你的亲属都有益,将来会带来幸福的升起。

5.129.20

दुर्योधन यदाह त्वां पिता भरतसत्तम ।
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ॥ ५.१२९.२० ॥

难敌啊,婆罗多中最好的人,照你父亲对你所说的去做,照诸位善友毗湿摩、德罗纳、钵罗、刹多(毗undefined陀罗)所说的去做吧。

5.129.21

भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥ ५.१२९.२१ ॥

若你平息,便是尊敬了毗湿摩、你的父亲和我,也尊敬了以德罗纳为首的诸位善友。

5.129.22

न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।
अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम ॥ ५.१२९.२२ ॥

大智者啊,婆罗多中最好的人,王国不可单凭自己的欲望而获得、守护,或享受。

5.129.23

न ह्यवश्येन्द्रियो राज्यमश्रीयाद्दीर्घमन्तरम् ।
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥ ५.१२९.२३ ॥

感官不受控制的人不能长久享有王国;而已经战胜自己的智者才能统治它。

5.129.24

कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ ५.१२९.२४ ॥

欲望与愤怒把人从其目标拉开。国王若完全战胜这两个敌人,便能征服大地。

5.129.25

लोकेश्वर प्रभुत्वंहि महदेतद्दुरात्मभिः ।
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ॥ ५.१२९.२५ ॥

统治诸界的权力对邪恶之人而言确实伟大;所渴望的王位,即王权,他们无法守住。

5.129.26

इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥ ५.१२९.२६ ॥

欲求大成者应在财富与法之事上约束诸根;诸根受制,智慧便如薪柴助火而增长。

5.129.27

अविधेयानि हीमानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ५.१२९.२७ ॥

这些不受驯服的诸根确实能够毁灭人,正如路上未驯的马毁掉拙劣的御者。

5.129.28

अविजित्य य आत्मानममात्यान्विजिगीषते ।
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥ ५.१२९.२८ ॥

若人未先克服自己而想征服大臣,或未克服大臣而想征服敌人,他便无助而败亡。

5.129.29

आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ५.१२९.२९ ॥

应先将自己视为敌人加以约束;如此,征服大臣与敌人的愿望便不会落空。

5.129.30

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते ॥ ५.१२९.३० ॥

财富极其眷顾那位意志坚定的人:诸根已被驯服,已征服大臣,对作恶者执行刑罚,经过审察而后行事。

5.129.31

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ॥ ५.१२९.३१ ॥

如同两条鱼被细孔的网覆盖,居于身中的欲望与愤怒,夺走了智慧。

5.129.32

याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् ।
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥ ५.१२९.३२ ॥

正是因为欲望与愤怒被滋养,诸神恐惧升天者会离欲,于是关闭了天门。

5.129.33

कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ ५.१२९.३३ ॥

能够完全战胜欲望、愤怒、贪婪、傲慢与骄矜之道的君王,便能获得大地。

5.129.34

सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥ ५.१२९.३४ ॥

君王应当始终专注于制御诸根,追求利益与正法,并希望敌人失败。

5.129.35

कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ ५.१२९.३५ ॥

若被欲望所支配或因愤怒而虚妄行事,无论亲族或他人,都不会成为他的助手。

5.129.36

एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः ।
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ॥ ५.१२९.३६ ॥

我的孩子,你将与团结一致、极具智慧、英勇而能摧毁敌人的般度五子一同,安乐地享有大地。

5.129.37

यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः ।
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥ ५.१२९.३७ ॥

正如山塔努之子毗湿摩与大车战士德罗纳所说,亲爱的,那是真实的:黑天与般度五子是不可战胜的。

5.129.38

प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम् ।
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥ ५.१२९.३८ ॥

投靠黑天吧,那位大臂者,行事毫不费力。若毛发者(克沙婆)欢喜,双方都将获得幸福。

5.129.39

सुहृदामर्थकामानां यो न तिष्ठति शासने ।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥ ५.१२९.३९ ॥

不遵从那些渴求利益与欲望的良友、智者与博学者之教导的人,便是令仇敌欢喜的人。

5.129.40

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् ।
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥ ५.१२९.४० ॥

亲爱的,战争之中没有善果;其中既无法也无财富,那幸福从何而来?胜利也不会永远存在。不要把心思放在战争上。

5.129.41

भीष्मेण हि महाप्राज्ञ पित्र ते बाह्लिकेन च ।
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम ॥ ५.१२९.४१ ॥

大智者啊,毗湿摩、你的父亲和巴赫利迦确实已给了般度之子应得的一份;降敌者啊,由于兄弟之间的分裂……

5.129.42

तस्थ चैतत्प्रदानस्य फलमद्यानुपश्यसि ।
यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम् ॥ ५.१२९.४२ ॥

那布施的果报你今日已经看到:你享有整个大地,其荆棘已被英雄们清除。

5.129.43

प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ।
यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम् ॥ ५.१२९.४३ ॥

降敌者啊,若你想与大臣们共享半个王国,那就把应得的份额交给般度之子。

5.129.44

अलमर्धं पृथिव्यास्ते महामात्यस्य जीवितुम् ।
सुहृदां वचने तिष्ठन्यशः प्राप्स्यति भारत ॥ ५.१२९.४४ ॥

婆罗多之子啊,半个大地对你已足够,对你的大臣的生活也足够了。若你坚守友人的忠告,便将获得名声。

5.129.45

श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः ।
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥ ५.१२९.४५ ॥

亲爱的孩子,与那些光荣、克己、智慧、已制伏诸根的般度五子为敌,将使你从大福乐中坠落。

5.129.46

निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् ।
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ॥ ५.१२९.४६ ॥

婆罗多中最优秀者啊,压制对友人的愤怒,将自己应有的部分交给般度之子,并依礼治理国家。

5.129.47

अलमङ्ग निकारोऽयं त्रयोदशसमाः कृतः ।
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥ ५.१२९.४७ ॥

亲爱的,这份不义已持续足够的十三年了。大智慧者啊,请平息这由欲望与愤怒点燃的敌意。

5.129.48

न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति ।
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥ ५.१२९.४८ ॥

那为你而想要此事的御者之子,怒意坚定,还有你的兄弟难敌之弟难降,二人都无力战胜普利塔之子。

5.129.49

भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये ।
धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ॥ ५.१२९.४९ ॥

若毗湿摩、德罗纳、克利巴、迦尔纳、怖军、财军以及愤怒的德里斯塔笈摩参战,众生必定不能幸存。

5.129.50

अमर्षवशमापन्नो मा कुरूंस्तात जीघनः ।
एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम् ॥ ५.१२९.५० ॥

孩子啊,不要被愤怒所支配而杀害俱卢族。愿这整个大地不因你而遭受毁灭。

5.129.51

यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः ।
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥ ५.१२९.५१ ॥

愚人啊,你以为毗湿摩、德罗纳、克利巴等人会竭尽全力作战,但今天这种想法并不合理。

5.129.52

समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् ।
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥ ५.१२९.५२ ॥

对于了悟自我的人而言,王国、情爱与地位对般度之子和你们都是平等的;然而法更为重要。

5.129.53

राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥ ५.१२९.५३ ॥

即使这些人因畏惧享用国王食禄的债务而舍弃性命,他们仍无法直视国王坚战。

5.129.54

न लोभादर्थसंपत्तिर्नराणामिह दृश्यते ।
तदलं तात लोभेन प्रशाम्य भरतर्षभ ॥ ५.१२९.५४ ॥

人因贪婪而得财富,在此并不可见。因此,孩子啊,舍弃贪欲,平静下来吧,婆罗多族的雄牛。