摩诃婆罗多 · 章 5.130
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.130.1
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् ।
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ॥ ५.१३०.१ ॥
然而他无视母亲有意义的话语,怀着愤怒再次前往那些心未调伏之人的所在。
5.130.2
ततः सभाया निर्गम्य मन्त्रयामास कौरवः ।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥ ५.१३०.२ ॥
随后,这位俱卢之子走出大殿,与擅长掷骰子的苏跋罗之子沙恭尼王商议。
5.130.3
दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीति ।
नोचेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः ।
बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत ॥ ५.१३०.३ ॥
难敌之弟难降对持国之子难敌和迦尔纳说:大王,若你不以自己的意愿与般度五子讲和,他们必将把你捆绑起来交给般度之子,婆罗多的后裔啊。
5.130.4
वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते ॥ ५.१३०.४ ॥
婆罗多中的雄牛啊,他们会把毗迦尔丹那(迦尔纳)、你、我,以及这三人,交给般度五子;还有毗湿摩、德罗纳,以及你的父亲。
5.130.5
दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ ।
दुर्योधनो धार्तराष्ट्रो निश्वस्य प्रहसन्निव ॥ ५.१३०.५ ॥
婆罗多中的雄牛啊,持国之子难敌听了难降的这番话,深深叹息,仿佛在笑……
5.130.6
एकान्तमुपसृत्येह मन्त्रं पुनरमन्त्रयत् ।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥ ५.१३०.६ ॥
他于此处独处之后,又与擅长掷骰子的苏跋罗之子沙恭尼王商议。
5.130.7
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥ ५.१३०.७ ॥
这是难敌、迦尔纳、沙恭尼、萨乌跋罗的阴谋,独臂的第四人是难降。
5.130.8
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः ।
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ ५.१३०.८ ॥
在这位行动迅捷的阇那陀那抓住我们之前,他会与持国王和善天之子联手。
5.130.9
वयमेव हृषीकेशं निगृह्णीम बलादिव ।
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥ ५.१३०.९ ॥
我们自己便用强力擒住希利基什,如因陀罗擒住毗卢遮那之子那样,擒住这位人中虎。
5.130.10
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥ ५.१३०.१० ॥
听闻婆利瓦尼被擒,般度诸子心神沮丧,失去斗志,如同折断毒牙的蛇。
5.130.11
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च ।
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्।
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥ ५.१३०.११ ॥
他是他们所有人的庇护与铠甲。这位赐恩的、萨陀多人中的牡牛,一旦被擒,般度诸子与索摩迦人将失去行动之力。
5.130.12
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् ।
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥ ५.१३०.१२ ॥
因此,就在此地,把迅捷行动的羯舍婆单独绑住,待持国王哭喊之时,我们便与敌人作战。
5.130.13
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् ।
इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः ॥ ५.१३०.१३ ॥
善于察言观色的萨谛奇迅速察觉了那些心术不正、作恶之人的罪恶意图。
5.130.14
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः ।
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ॥ ५.१३०.१४ ॥
为此他走出去,与希尔迪基亚并肩而立,对克里塔瓦尔曼说:“快速列阵集结军队。”
5.130.15
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ।
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे ॥ ५.१३०.१५ ॥
你要布好军阵,披上铠甲,守在议事厅门口,直到我把此事告诉那位行事不费力的克里希那。
5.130.16
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव ।
आचष्ट तमभिप्रायं केशवाय महात्मने ॥ ५.१३०.१६ ॥
这位英雄如狮子走入山洞一般进入议会,将那一图谋告诉了大度的克舍婆。
5.130.17
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ।
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥ ५.१३०.१७ ॥
随后他也对持国与毗杜罗说话,仿佛微笑着,说明了他们的这一图谋。
5.130.18
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् ।
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन ॥ ५.१३०.१८ ॥
愚昧之人想在此行那为善人所鄙弃的事,而这事无论以何种方式都不可能成就,无论出于法、利还是欲。
5.130.19
पुरा विकुर्वते मूढाः पापात्मानः समागताः ।
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥ ५.१३०.१९ ॥
古来愚昧、心怀罪恶的人聚集在一起,行事颠倒;被欲望与愤怒所制服,他们受愤怒与贪婪的支配。
5.130.20
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः ।
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥ ५.१३०.२० ॥
这些心智低劣的人想要抓住这位莲花眼者,就如同孩童或愚人想用布去抓燃烧的火焰。
5.130.21
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ।
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥ ५.१३०.२१ ॥
维杜罗闻知萨提奇的这番话,这位远见卓识者在俱卢议会中对大臂的持国王说道。
5.130.22
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप ।
असक्यमयशस्यं च कर्तुं कर्म समुद्यताः ॥ ५.१३०.२२ ॥
国王啊,焚烧敌人者!你所有的儿子都已气数将尽;他们竟决意去做不可能成功且有辱名声的事。
5.130.23
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ।
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥ ५.१३०.२३ ॥
他们想要制服这位莲花眼者并强行擒住他;他们联合起来,想要拘禁因陀罗的幼弟。
5.130.24
इमं पुरुषशार्दूलमप्रधृष्यं दुरसदम् ।
आसाद्य नभविष्यन्ति पतङ्गा इव पावकम् ॥ ५.१३०.२४ ॥
他们一旦靠近这位人中之虎——不可战胜、难以接近之人,就会如飞蛾扑火般灭亡。
5.130.25
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः ।
सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम् ॥ ५.१३०.२५ ॥
若Janārdana愿意,他会像愤怒的狮子驱赶大象一样,把所有这些交战者送往阎摩之处。
5.130.26
न त्वयं निन्दितं कर्म कुर्यात्पापं कथंचन ।
न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः ॥ ५.१३०.२६ ॥
这位人中之最、阿017尤塔绝不会做任何可责的罪恶之事,也不会背离法。
5.130.27
यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा ।
सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः ॥ ५.१३०.२७ ॥
正如Kṛṣṇa焚毁了婆罗奈城及其战马、战车与战象,连同其随从杀死了迦尸的雄牛(国王)。
5.130.28
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः ।
स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् ॥ ५.१३०.२८ ॥
同样,执掌海螺、轮盘与铁杵者,焚毁那伽普罗后,自己成为时间之主,将消灭俱卢族。
5.130.29
पारिजातहरं ह्येनमेकं यदुसुखावहम् ।
नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह ॥ ५.१३०.२९ ॥
对这位夺取波利阇多花、为耶度族带来欢喜的单独之人,愤怒的斩杀弗栗多者因陀罗即使与诸婆薮一起,也未曾进攻。
5.130.30
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः ।
हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान् ॥ ५.१३०.३० ॥
到达解脱之处后,婆苏提婆走近俱卢族,取得了那六千勇捷者的绳索,将他们带走。
5.130.31
द्वारमासाद्य सौभस्य विधूय गदया गिरिम् ।
द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः ॥ ५.१३०.३१ ॥
抵达娑婆门,以金刚杵撼动山岳,丢摩陀那与众大臣一同被黑天击倒。
5.130.32
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः ।
क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम् ॥ ५.१३०.३२ ॥
因俱卢族尚有余债,又顾念正法,莲花眼的阿周陀虽有能力,仍宽恕那些作恶之人。
5.130.33
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः ।
अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते ॥ ५.१३०.३३ ॥
若这些人与诸王一同求取戈文达,那么今天他们都将成为阎摩的宾客。
5.130.34
यथा वायोस्तृणाग्रणि वशं यान्ति बलीयसः ।
तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः ॥ ५.१३०.३४ ॥
如草尖顺从强风,所有俱卢族都将归服于持轮者。
5.130.35
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ।
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः ॥ ५.१३०.३५ ॥
毗杜罗如此说罢,克沙瓦望着持国,众友人彼此倾听,便说出了这番话。
5.130.36
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ।
एते वा मामहं वैनाननुजानीहि पार्थिव ॥ ५.१३०.३६ ॥
大王啊,若这些人愤怒而以力捉拿我,或者我自己捉拿他们,陛下,请允许我这样做。
5.130.37
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे ।
न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन ॥ ५.१३०.३७ ॥
我能够制止这些愤怒的人,但我绝不会以任何方式做出可耻的罪恶之事。
5.130.38
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान्हास्यन्ति ते सुताः ।
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥ ५.१३०.३८ ॥
为了般度之子,你那贪婪的儿子们将舍弃自己的利益,如果他们这样希望,而坚战已完成其所愿。
5.130.39
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत ।
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥ ५.१३०.३९ ॥
婆罗多的后裔啊,国王!若我今日便擒住他们及其随从,交给般度之子,那又有什么恶行呢?
5.130.40
एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः ।
नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः ॥ ५.१३०.४० ॥
国王啊,这是我的决心;若这也是他的决心,就让海螺与战鼓、大鼓齐声轰鸣吧。
5.130.41
अनायासेन पार्थानां पर्वतां च शिवं महत् ।
निगृह्य राजन्पार्थेभ्यो दद्यां चेत्सुकृतं भवेत् ॥ ५.१३०.४१ ॥
国王啊,若我毫不费力地擒住这些如山岳般伟大而吉祥的人,交给般度之子,那便是善行。
5.130.42
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ।
सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥ ५.१३०.४२ ॥
婆罗多的后裔啊,但我不会去做这种可耻的事;伟大的国王啊,在您面前,我绝不会去做这种由愤怒和罪恶之心所生的事。
5.130.43
एष दुर्योधनो राजन्यथेच्छति तथाऽस्तु तत् ।
अहं तु सर्वांस्तनयाननुजानामि ते नृप ॥ ५.१३०.४३ ॥
大王啊,就照难敌所愿吧。但是,大王啊,我允许你所有的儿子。
5.130.44
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत ।
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥ ५.१३०.४४ ॥
德里塔拉什特拉听了这话,对毗杜罗说:“快把那个贪图王国的恶人苏耶陀那带来。”
5.130.45
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् ।
शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥ ५.१३०.४५ ॥
如果我能够连同他的朋友、大臣、兄弟和随从,把他重新引回正道。
5.130.46
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्मभाम् ।
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ ५.१३०.४६ ॥
于是毗杜罗把不情愿、被兄弟和诸王围绕的难敌重新带进了议会。
5.130.47
अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम् ॥ ५.१३०.४७ ॥
于是国王德里塔拉什特拉对被迦尔纳、难降及诸王围绕的难敌说道。
5.130.48
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् ।
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥ ५.१३०.४८ ॥
残忍之人啊,罪孽深重之人啊,以卑劣之行为伴侣!你与邪恶的同伙结合,想要做罪恶的行为。
5.130.49
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥ ५.१३०.४९ ॥
那不可能成就、无益于名声、又为善人所责难的事,只有像你这样愚昧、玷污家族的人才会去谋划。
5.130.50
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥ ५.१३०.५० ॥
你竟想联合邪恶的同伙,去擒拿这位莲花眼、不可侵犯、难以接近的人。
5.130.51
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः ।
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥ ५.१३०.५१ ॥
你企求的那人,即使诸神与因陀罗也无法以力量制服。愚人啊,你这样渴望他,就如同孩童想要月亮。
5.130.52
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः ।
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥ ५.१३०.५२ ॥
你不了解克舍瓦,连诸神、人类、乾达婆、阿修罗和龙蛇在战场上都无法抵挡他。
5.130.53
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात् ॥ ५.१३०.५३ ॥
用手难以抓住风,用手难以触及月亮,用头难以承载大地;同样,以力量擒获克舍瓦也是困难的。
5.130.54
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत् ।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ ५.१३०.५४ ॥
持国王如此说完,御者维度拉也望着愤怒的持国之子难敌,开口说道。
5.130.55
दुर्योधन निबोधेदं वचनं मम सांप्रतम् ।
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः।
शिलावर्षेण महता छादयामास केशवम् ॥ ५.१३०.५५ ॥
杜尔约陀那,现在听我这句话:在苏跋陀罗之门,名叫提维达的猴王以巨大的石雨覆盖了克沙瓦。
5.130.56
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।
ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात् ॥ ५.१३०.५६ ॥
他以全部勇力和努力想要擒住摩陀婆,却不能擒住他;而你却想以武力擒住他。
5.130.57
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ ५.१३०.५७ ॥
那里,那罗迦与檀那婆们一起也未能擒住前往光明城的舜里;而你却想以武力擒住他。
5.130.58
अनेकयुगवर्षायुर्निहत्य नरकं मृधे ।
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि ॥ ५.१३०.५८ ॥
他在战场上杀死了寿命以多个时代与年计的那罗迦,带走数千少女,依礼与她们成婚。
5.130.59
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ।
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥ ५.१३०.५९ ॥
在尼摩旃那,六千大阿修罗虽以绳索缚住他,却未能擒住;而你却想以武力擒住他。
5.130.60
अनेन हि हता बाल्ये पूतना शिशुना तदा ।
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥ ५.१३०.६० ॥
在童年时,他作为婴儿杀死了普坦那;婆罗多中的雄牛啊,为了牛群,曾举起了戈瓦尔丹山。
5.130.61
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः ।
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥ ५.१३०.६१ ॥
阿利什陀、德努迦、大力的遮那罗,以及马王(羯舍)也被杀;而刚萨则效仿阿利什陀的所为。
5.130.62
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् ।
बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ॥ ५.१३०.६२ ॥
在战场上,耆罗三德、伐迦、勇猛的始舒波罗与巴那被杀;众王也被消灭。
5.130.63
वरुणो निर्जितो राजा पावकश्चामितौजसा ।
पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥ ५.१३०.६३ ॥
国王伐罗那被征服,无量威力者又战胜了阿耆尼;劫走巴利耶多树者,亲自战胜了舍质之主因陀罗。
5.130.64
एकार्णवे च स्वपता निहतौ मधुकैटभौ ।
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ॥ ५.१३०.६४ ॥
在唯一的海洋中熟睡时,摩度与迦吒婆被杀;受生为另一身的马头(Hayagrīva)也同样被杀。
5.130.65
अयं कर्ता न क्रियते कारणं चापि पौरुषे ।
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ॥ ५.१३०.६५ ॥
此人并非被造作为行者,人的努力中也非其因;这位舍卢利(黑天)所欲为之事,他毫不费力便能完成。
5.130.66
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम् ।
आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम् ॥ ५.१३०.६६ ॥
哥频陀啊,你不了解那位勇力可怖的不退者(阿友多)——他如愤怒的毒蛇,是光明的聚合,无可指摘。
5.130.67
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् ।
पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि ॥ ५.१३०.६७ ॥
你挑衅那臂力强大、不费力行事的黑天,将与你的大臣们一同毁灭,如飞蛾扑向火焰。