摩诃婆罗多 · 章 5.131
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.131.1
विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा ।
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥ ५.१३१.१ ॥
毗都罗如此说后,杀灭敌军众多的克沙婆(黑天)这位勇武者,对持国之子难敌说道。
5.131.2
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥ ५.१३१.२ ॥
苏耶纳,你因迷惑而以为‘我孤身一人’,轻视我而想要擒拿我,你这恶劣之人啊。
5.131.3
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥ ५.१३१.३ ॥
这里有所有般度之子,同样也有安陀迦与毗湿尼族。这里有阿底提耶、楼陀罗与婆苏,还有大仙人们。
5.131.4
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा ।
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ।
युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः ॥ ५.१३१.४ ॥
说完这话,杀灭敌方英雄的克沙婆大笑起来。从那位微笑的大德勇士毗湿尼身中,一切如闪电般的天神同时显现出来。
5.131.5
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः ।
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ॥ ५.१३१.५ ॥
三十三位天神各如拇指大小,光辉如火焰。梵天位于他的额上,楼陀罗则出现在他的胸前。
5.131.6
लोकपाला भुजेष्वासन्नग्निरास्यादजायत ।
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ॥ ५.१३१.६ ॥
世界护法出现在他的臂中,阿耆尼从他的口中诞生。还有阿底提耶与萨提耶,婆苏,然后是双马童。
5.131.7
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ।
बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः ॥ ५.१३१.७ ॥
摩噜多与因陀罗一同,一切天神亦然,相继出现;夜叉、乾闼婆、蛇神与罗刹也相继产生。
5.131.8
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ ।
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥ ५.१३१.८ ॥
同样,从两臂中显现了桑卡尔沙那与达南遮耶:右侧是持弓的阿周那,左侧是执犁的罗摩。
5.131.9
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः ।
अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः ॥ ५.१३१.९ ॥
毗摩与坚战,以及玛德丽的两个儿子在后方;安陀迦与毗湿尼以普罗陀牟那为首随后。
5.131.10
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥ ५.१३१.१० ॥
在黑天面前,高举着大兵器:海螺、轮、杵、枪、弓沙朗伽、犁与难陀迦剑。
5.131.11
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च ।
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥ ५.१३१.११ ॥
黑天众多臂中所举的一切兵器皆显现出来,四面闪耀。
5.131.12
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः ।
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥ ५.१३१.१२ ॥
从双眼、鼻孔与双耳,四面涌现出极为可怖、带着烟雾的火焰。
5.131.13
रोमकूपेषु च तथा सूर्यस्येव मरीचयः ।
सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक् ॥ ५.१३१.१३ ॥
他毛孔中也有如太阳般的光芒。那威严的形体有千足、百臂、千目。
5.131.14
तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा ।
चन्द्रसूर्यौ तथा नेत्रे ग्रहः वै सर्वतः स्थिताः ॥ ५.१३१.१४ ॥
那时,在他的踝骨之下,显现出龙族的世界。月与日是他的双眼,群星则散布四方。
5.131.15
ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः ।
सरितः सागराश्चैव स्वेदस्तस्य महात्मनः ॥ ५.१३१.१५ ॥
所有上界都位于他的腹中。江河与大海,以及那位大德的汗水,也都在那里。
5.131.16
अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि ।
निमेषणं रात्र्यहनी जिह्वायां शारदा तथा ॥ ५.१३१.१६ ॥
所有山岳是他的骨骼,树木是他的毛发。昼夜是他眼睑的开合;舌上则住着沙罗达(萨罗室伐底)。
5.131.17
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ।
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥ ५.१३१.१७ ॥
众王见大德之keśava那可怖的形体,心中惊恐,便闭上了眼睛。
5.131.18
ऋत द्रोणं च भीष्मं च विदुरं च महामतिम् ।
संजयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान् ॥ ५.१३१.१८ ॥
接着他们看见了德罗纳、毗湿摩、大智的维杜罗、桑闪耶、持国,以及以苦行为财富的仙人们。
5.131.19
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥ ५.१३१.१९ ॥
世尊生主(Janārdana)赐予他们神圣之眼。
5.131.20
धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी ।
ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः ॥ ५.१३१.२० ॥
世尊赐予持国两只神圣之眼,阿΄比迦之子持国见到了至上之相。
5.131.21
ततो देवाः सगन्धर्वाः किन्नराश्च महोरगाः ।
ऋषयश्च महाभागा लोकपालैः समन्विताः ।
प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलिस्थिताः ॥ ५.१३१.२१ ॥
于是诸天与乾达婆、紧那罗、大蛇、大福的仙人及世界守护者,俯首致礼,合掌而立,赞颂这位神。
5.131.22
क्रोधं प्रभो संहर संहर स्वं ।
रूपं च यद्दर्शितमात्मसंस्थम् ।
यावत्त्विमे देवगणैः समेता ।
लोकाः समस्ता भुवि नाशमीयुः ॥ ५.१३१.२२ ॥
主啊,请收敛你的愤怒,收敛吧;收回你所显现的形相,免得这些世界连同诸神之众,在大地上毁灭。
5.131.23
त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे ।
त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ५.१३१.२३ ॥
你是创造者,也是毁灭者,你也守护着一切;这整个世界,动与不动,皆被你遍满。
5.131.24
कियन्मात्रा महीपालाः किंवीर्याः किंपराक्रमाः ।
तेषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान्।
एवमुच्चारिता वाचः सह देवार्विभुं तदा ॥ ५.१३१.२४ ॥
诸王有多少,其力量几何,其勇猛几何?啊,大臂者,你为了他们显现了神圣之相。于是,那时诸神与众人一同向那遍在的主说出了这些话。
5.131.25
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले ।
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥ ५.१३१.२५ ॥
众人在摩陀婆的殿堂中目睹这大奇迹,天界的鼓声响起,花雨飘落。
5.131.26
त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः ।
तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि ॥ ५.१३१.२६ ॥
莲花眼者啊,唯有你是整个世界的福祉。因此,最优秀的耶达婆啊,你应当赐我恩惠。
5.131.27
भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः ।
भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे ॥ ५.१३१.२७ ॥
尊贵的主啊,我愿我的双眼重新失明,因为我已见到你;此处我无力再看见其他任何人。
5.131.28
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन ॥ ५.१३१.२८ ॥
于是臂力强大的生主(克里希纳)对持国王说:"俱卢之喜啊,愿你的双眼不再能视物。"
5.131.29
तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी ।
लब्धवान्वासुदेवाच्च विश्वरूपदिदृक्षया ॥ ५.१३१.२९ ॥
大王啊,那里发生了一件奇妙之事:持国王因渴望见到宇宙之形,从婆苏提婆那里获得了双眼。
5.131.30
लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः ।
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् ॥ ५.१३१.३० ॥
众王见持国王已复得双目而坐,惊叹不已,便与仙人们一同赞颂摩陀苏陀那(克里希纳)。
5.131.31
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥ ५.१३१.३१ ॥
整个大地震动,大海也翻腾起来;诸王啊,婆罗多族的雄牛,无不感到极度的惊讶。
5.131.32
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् ।
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ॥ ५.१३१.३२ ॥
于是,那位人中之虎、降敌者收回了自己的形体——那神圣、奇异、奇妙而充满光华的形相。
5.131.33
ततः सात्यकिमादाय पाणौ विदुरमेव च ।
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥ ५.१३१.३३ ॥
于是,摩图苏健那牵着萨谛奇和毗杜罗的手,得到那些仙人的许可,走了出去。
5.131.34
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।
तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत् ॥ ५.१३१.३४ ॥
于是,那烂陀等仙人隐没而去;那场喧哗发生之后,此事仿佛成了一件奇事。
5.131.35
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम् ॥ ५.१३१.३५ ॥
诸俱卢族人与诸王见他出发,便随着这位人中之虎前行,犹如诸天神随从百祭之因陀罗。
5.131.36
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।
निश्चक्राम ततः शौरिः सधूम इव पावकः ॥ ५.१३१.३६ ॥
无量自性的沙利不理会那整个王众,如同笼罩烟雾的火焰一般走了出去。
5.131.37
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हेमजालविचित्रेण लघुना मेघनादिना ॥ ५.१३१.३७ ॥
于是,乘坐一辆洁白宏大的战车,车上悬挂着叮当作响的铃铛,饰有金网,轻捷而如雷鸣般作响,
5.131.38
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना ।
शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ ५.१३१.३८ ॥
达鲁迦出现在一辆装备精良、洁白的战车上,车以虎皮覆盖并有护甲,由舍奥与苏羯哩婆驾驭。
5.131.39
तथैव रथमास्थाय कृतवर्मा महारथः ।
वृष्णीनां संमतो वीरो हार्दिक्यः समदृश्यत ॥ ५.१३१.३९ ॥
同样,大车将、赫尔迪迦之子、为伐瑟尼族所敬重的英雄黑利底迦(Kṛtavarman)登车出现。
5.131.40
उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् ।
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥ ५.१३१.४० ॥
大王持国再次对即将出发、车已备好的敌人制伏者舍利(黑天)说道。
5.131.41
यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन ।
प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन ॥ ५.१३१.४१ ॥
遮那陀那啊,你看到我的儿子们所拥有的力量;折磨敌人者啊,对你而言,没有任何事物是明显的,也没有任何事物是隐秘的。
5.131.42
कुरूणां शममिच्छन्तं यतमानं च केशव ।
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥ ५.१३१.४२ ॥
羯舍婆啊,你既知我此时的处境——我希望俱卢族和平并为此努力——便不应过分猜疑。
5.131.43
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ।
ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः ॥ ५.१३१.४३ ॥
啊,克沙瓦,我对般度之子并无恶意。我对难敌所说的有益之言,人人皆已知晓。
5.131.44
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।
शमे प्रयतमानं मां सर्वयत्नेन माधव ॥ ५.१३१.४४ ॥
啊,摩陀婆,所有俱卢族人和大地上的诸王都知道,我正竭尽全力追求和平。
5.131.45
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥ ५.१३१.४५ ॥
于是大臂的遮那陀那对持国王、德罗纳、祖父毗湿摩、刹帝利(毗杜罗)、跋利迦和克利巴说道。
5.131.46
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि ।
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ॥ ५.१३१.४६ ॥
在俱卢议会中发生的事,是在你们所有人面前发生的;而这愚人像无教养者一样,今日因愤怒而起身,也是在你们眼前。
5.131.47
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः ।
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥ ५.१३१.४७ ॥
持国王说自己无能为力。我向你们所有人告辞,现在要去见坚战。
5.131.48
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ ।
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥ ५.१३१.४८ ॥
人中之牛啊,当舍利(克里希纳)告辞后乘车出发时,大弓箭手、勇士们和婆罗多族的俊杰们跟随在他身后。
5.131.49
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः ।
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥ ५.१३१.४९ ॥
毗湿摩、德罗纳、克里帕、克沙塔、持国、巴赫利迦、马嘶摩、毗迦尔纳,以及大车将尤尤呈苏。
5.131.50
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥ ५.१३१.५० ॥
随后,他乘上明亮宏大、饰有铃铛的战车,在俱卢人注视下,前去探望父亲的姐妹。