摩诃婆罗多 · 章 5.132
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.132.1
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च ।
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥ ५.१३२.१ ॥
随后他走进她的屋子,向她的双足致敬,简略地讲述了在俱卢议会上发生的事。
5.132.2
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् ।
ऋषिभिश्चैव च मया न चासौ तद्गृहीतवान् ॥ ५.१३२.२ ॥
圣者与我以多种方式说出了值得接受、且有理由的话语,但他并未接受。
5.132.3
कालपक्वमिदं सर्वं सुयोधनवशानुगम् ।
सर्वक्षत्रं क्षणेनैव दह्यते पार्थवह्निना ।
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ॥ ५.१३२.३ ॥
这一切在时间中成熟,顺从苏约达纳的意志。整个刹帝利种姓将在一瞬间被普特之子的火焰焚烧。我向您告辞,即将前往般度诸子那里。
5.132.4
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ।
तद्ब्रूहि त्वं महाप्रज्ञे शुश्रूषे वचनं तव ॥ ५.१३२.४ ॥
依您之言,我该向般度之子说些什么?请您告诉我,大智慧者;我愿意聆听您的话语。
5.132.5
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् ।
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥ ५.१३२.५ ॥
克沙婆啊,你去告诉正义之心的国王坚战:‘孩子,你的法正在大为衰减;不要徒劳行事。’
5.132.6
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ॥ ५.१३२.६ ॥
国王啊,你的智慧就像一个愚钝无知的诵读婆罗门,仅因背诵而变得迟钝,只看见法。
5.132.7
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा ।
बाहुभ्यां क्षत्रियाः सृष्टा बाहुवीर्योपजीविनः ॥ ५.१३२.७ ॥
看看你自己的肢体,思量你的法,正如自生者所创造的那样。刹帝利从臂中被造,依靠臂力的勇武为生。
5.132.8
क्रूराय कर्मणे नित्यं प्रजानां परिपालने ।
श्रृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया ॥ ५.१३२.८ ॥
对于那始终承担保护臣民之责的严酷之业,请听这里的一个譬喻,那是我从长者处听来的。
5.132.9
मुचुकुन्दस्य राजर्षेरददत्पृथिवीमिमाम् ।
पुरा वैश्रवणः प्रीतो न चासौ तद्गृहीतवान् ॥ ५.१३२.९ ॥
很久以前,喜悦的毗湿罗婆那(俱毗罗)将这片大地赠予王仙穆楚坤达,但他没有接受。
5.132.10
बाहुवीर्यार्जितं राज्यमश्रीयामिति कामये ।
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥ ५.१३२.१० ॥
“我所希望的,只是凭借臂力所获得的王国。”于是喜悦而惊讶的毗湿罗婆那(俱毗罗)便如此行事。
5.132.11
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् ।
बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः ॥ ५.१३२.११ ॥
于是,国王穆楚坤达依循刹帝利之法,恰当地统治着这片凭借臂力所得的大地。
5.132.12
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा विन्देन भारत ॥ ५.१३२.१२ ॥
婆罗多之子啊,臣民在此受国王良好守护所行的任何法,国王得其法的四分之一。
5.132.13
राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।
स चेदधर्मं चरति नरकायैव गच्छति ॥ ५.१३२.१३ ॥
若王行法,则必能配得神性;若王行非法,则必堕入地狱。
5.132.14
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति ।
प्रयुक्तास्वामिना सम्यगधर्मेभ्यो नियच्छति ॥ ५.१३२.१४ ॥
刑罚之道以各自的本分约束四种姓;由主君正确施行时,便使他们远离非法。
5.132.15
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते ।
तदा कृतयुं नाम कालः श्रेष्ठः प्रवर्तते ॥ ५.१३२.१५ ॥
当王在刑罚之道中完全而正确地行事时,名为克里塔的最殊胜之时代便随之而来。
5.132.16
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥ ५.१३२.१६ ॥
时代是王的原因,还是王是时代的原因——愿你不要有这样的疑惑。王才是时代的原因。
5.132.17
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ ५.१३२.१७ ॥
王是克里塔时代的创造者,也是特列塔与德瓦帕拉时代的创造者;王亦是第四时代的原因。
5.132.18
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्रुते ।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्रुते ॥ ५.१३२.१८ ॥
因创造克里塔时代,王便完全得到天界;因创造特列塔时代,王则不能完全得到天界。
5.132.19
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्रुते ।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्रुते ॥ ५.१३२.१९ ॥
君王推动双足时代,便依其份额享受果报;推动迦利时代,君王则完全承受罪业。
5.132.20
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।
राजदोषेण हि जगत्स्पृश्यते जगतः स च ॥ ५.१३२.२० ॥
此后,作恶者将在地狱中居住永久之年;因君王之过,世间确实受到牵连,而他也是世间的一部分。
5.132.21
राजधर्मानवेक्षस्व पितृपैतामहोचितान् ।
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ॥ ५.१३२.२१ ॥
应当审视王者之法,那是你父与祖所应遵行的;你想要坚持的这种行为,并非王仙的行为。
5.132.22
न हि वैक्लब्यसंसृष्ट आनृशंस्ये व्यवस्थितः ।
प्रजापालनसंभूतं फलं किंचन लब्धवान् ॥ ५.१३२.२२ ॥
因为,被软弱所困、不立于仁慈者,未曾获得任何由护持百姓而生的果报。
5.132.23
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः ।
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥ ५.१३२.२३ ॥
般度、我,或你的祖父,从前都未曾把这份祝福(教诲)授予你,你正以那样的智慧行事。
5.132.24
यज्ञो दानं तपः शौर्यं प्रज्ञा सन्तानमेव च ।
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥ ५.१३२.२४ ॥
祭祀、布施、苦行、勇力、智慧、子嗣、尊严、力量与活力——这些我一直为你所祈愿。
5.132.25
नित्यं स्वाहा स्वधा नित्यं दद्युर्मानुषदेवताः ।
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ॥ ५.१३२.२५ ॥
愿以娑婆诃与斯瓦陀恰当供奉的人间神明,永远赐予长寿、财富与子嗣。
5.132.26
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ।
दानमध्ययनं यज्ञः प्रजानां परिपालनम् ॥ ५.१३२.२६ ॥
祖先与诸神始终期望子孙行布施、学习、祭祀以及护佑百姓。
5.132.27
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः ।
ते तु वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥ ५.१३२.२७ ॥
无论这是法还是非法,你生来便与之相伴。孩子,那些学者生于贤良之家,却因生计无着而困苦。
5.132.28
यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः ।
प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥ ५.१३२.२८ ॥
饥饿的大地居民若得到慷慨而勇敢的主君,满足地安居,那还有什么法比这更大呢?
5.132.29
दानेनान्यं बलेनान्यं तथा सूनृतयाऽपरम् ।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ ५.१३२.२९ ॥
以布施获取一物,以武力获取另一物,以甜美的真言获取又一物——正法之人在此获得王国后,应从各方面收受。
5.132.30
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् ।
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥ ५.१३२.३० ॥
婆罗门应乞食游方,刹帝利应守护,吠舍应求取财富,首陀罗应侍奉他们。
5.132.31
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते ।
क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता ॥ ५.१३२.३१ ॥
乞食对你是被禁止的,耕种也不适合你。你是刹帝利,庇护受伤者,凭借双臂的勇力而生活。
5.132.32
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर ।
साम्ना भेदेन दानेन दण्डेनाथ नयेन वा ॥ ५.१३२.३२ ॥
啊,大臂者,请重新收回已沉没的祖传之份——以怀柔、离间、布施、刑罚,或以策略。
5.132.33
इतो दुःखतरं किं नु यदहं दीनबान्धवा ।
परपिण्डमुदीक्षे वै त्वां सूत्वा मित्रनन्दन ॥ ५.१३२.३३ ॥
还有什么比这更痛苦呢:我身为孤苦者的亲人,生了你,却还要看着别人的饭食,啊,朋友们的欢喜!
5.132.34
युध्यस्व राजधर्मेण मा निमञ्जीः पितामहान् ।
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिं ॥ ५.१३२.३४ ॥
依王者之法而战;不要让祖父们沉没。不要在功德耗尽之时,与你的幼弟们一同走向罪恶的归宿。