Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.133

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.133.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विदुलायाश्च संवादं पुत्रस्य च परन्तप ॥ ५.१३३.१ ॥

此处人们也讲述这古老的故事——毗杜拉与其子的对话,啊,灼烧敌人者。

5.133.2

ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि ।
यशस्विनी मन्युमती कुले जाता विभावरी ॥ ५.१३३.२ ॥

那么你应当如实讲述何为更善,以及更多。毗跋婆梨光荣而有勇气,生于高贵的家族。

5.133.3

क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी ।
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ॥ ५.१३३.३ ॥

毗杜拉专心于武士之法,克制自持,深谋远虑,在王廷集会中享有盛名;她的言辞被人听从,她博学多闻。

5.133.4

विदुला नाम राजन्या जगर्हे पुत्रमौरसम् ।
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ॥ ५.१३३.४ ॥

毗杜拉是一位刹帝利公主,她斥责自己亲生的儿子——他被信度王击败,心灰意冷地躺卧着。

5.133.5

अनन्दन मया जात द्विषतां हर्षवर्धन ।
न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि ॥ ५.१३३.५ ॥

啊,无喜之人,增添敌人喜悦者!你既非我所生,也非父亲所生。你从何处而来?

5.133.6

निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः ।
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ॥ ५.१३३.६ ॥

你毫无斗志,微不足道,依赖阉人的手段。终身你都绝望;为了福祉,请负起重轭。

5.133.7

माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः ।
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर ॥ ५.१३३.७ ॥

不可轻视自己,也不可以少许去扶持他。使心趋向吉祥,不要恐惧,收回它吧。

5.133.8

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ।
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ॥ ५.१३३.८ ॥

起来吧,懦夫!不要这样被击败而躺着。使所有敌人欢喜,失去荣誉,不要成为给亲属带来悲伤的人。

5.133.9

सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः ।
सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति ॥ ५.१३३.९ ॥

小池容易注满,老鼠的一捧也容易满。懦夫极易满足,只需少许便感到满意。

5.133.10

अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज ।
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः ॥ ५.१३३.१० ॥

即使拔断蛇的毒牙,也要迅速走向死亡;或者冒险之际,即使在生命中也要展现勇力。

5.133.11

अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।
विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः ॥ ५.१३३.११ ॥

像鹰隼一样盘旋,去寻找敌人的空隙;无论争辩还是沉默,都要像天空一样不让人怀疑。

5.133.12

त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा ।
उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः ॥ ५.१३३.१२ ॥

你为何像尸体一样躺着,仿佛被雷electric击中?起来吧,懦夫!不要因被敌人征服而睡去。

5.133.13

माऽस्तं गमस्त्वं कृपणो वि श्रूयस्व स्वकर्मणा ।
मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ॥ ५.१३३.१३ ॥

不要像懦夫一样陨落;凭你自己的行动而闻名。不要留在中间,不要在后面,也不要在下方;昂首怒吼,挺身而立。

5.133.14

अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल ।
मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः ॥ ५.१३३.१४ ॥

哪怕只一瞬间,也要像丁度迦树的火把那样燃烧;不要因贪生而像糠火一样无焰冒烟。

5.133.15

मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् ।
मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः ॥ ५.१३३.१५ ॥

燃烧一瞬,胜过长久冒烟。不要在别人家中,像国王的母亲一般,柔声细语地苟且度日。

5.133.16

कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् ।
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥ ५.१३३.१६ ॥

完成人之本分,奔赴战场直至极致,人便得以偿清法之债,也不会自责。

5.133.17

अलब्ध्वा यदि वा लब्ध्वा नानुशोचति पण्डितः ।
आनन्तर्यं चारभते न प्राणानां धनायते ॥ ५.१३३.१७ ॥

无论得到还是失去,智者都不悲伤;他着手下一件事,也不把生命之气当作财富。

5.133.18

उद्भावयस्वं वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।
धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ॥ ५.१३३.१८ ॥

显露你的勇气,或走向那坚定之途。把法置于诸子之前,你究竟为何还活着?

5.133.19

इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता ।
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ॥ ५.१३३.१९ ॥

哎,懦夫!你的祭祀与功德,以及你全部的名声都已毁灭;享乐的根本已被斩断。那么你为了什么缘故还活着呢?

5.133.20

शत्रुर्निमञ्जता ग्राह्यो जङ्घायां प्रपतिष्यता ।
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन ॥ ५.१३३.२० ॥

将沉没之人应抓住敌人的大腿;即便是跌倒、根已断绝的人,也决不可灰心丧气。

5.133.21

उद्यम्य धुरमुत्कर्षेदाजानेयकतं स्मरन् ।
कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः । ॥ ५.१३३.२१ ॥

举起车轭,记起良驹的作为,将它拉起;保持勇气与尊严,并知道你自身的男子气概属于你自己。

5.133.22

उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ।
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ॥ ५.१३३.२२ ॥

为你而沉沦的家族,你自己去振兴吧;不要成为那种人们从不谈论其伟大而奇妙品行的人。

5.133.23

राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ।
दाने तपसि सत्ये च यस्य नोच्चरितं यशः ॥ ५.१३३.२३ ॥

他只不过是增添财富堆的人;在布施、苦行与真实中从未被称颂其名声的人,既不是女人,也不是男人。

5.133.24

विद्यायामर्थलाभे वा मातुरुच्चार एव सः ।
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा ॥ ५.१३३.२४ ॥

在学问或获取财富上一无所成的人,不过是其母亲的粪便;同样,不因学识、苦行、财富或勇力而闻名的人也是如此。

5.133.25

जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ।
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ॥ ५.१३३.२५ ॥

以行为胜过他人的人才是真正的男子。你不应追求卑贱、乞丐般的生活。

5.133.26

नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ।
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ॥ ५.१३३.२६ ॥

这是残酷、不光彩、痛苦且只适合懦夫的境地。敌人见到这样虚弱的人便会欢喜。

5.133.27

लोकस्य समवज्ञातं निहीनासनवाससम् ।
अहोलाभकरं हीनमल्पजीवनमल्पकम् ॥ ५.१३३.२७ ॥

为世人所轻视,座位与衣着低贱,带来微薄收益,卑下,寿命短促,渺小。

5.133.28

नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ।
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ॥ ५.१३३.२८ ॥

有这样的亲属,亲族不得幸福兴旺。失去生计,被逐出王国,我们将会灭亡。

5.133.29

सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः ।
अवल्गुकारिण सत्सु कुलवंशस्य नाशनम् ॥ ५.१३३.२९ ॥

失去一切欲望的享乐,从地位跌落,一无所有,在善人之中行为不端,我们将成为家族血脉的毁灭者。

5.133.30

कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ।
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ॥ ५.१३३.३० ॥

桑惹耶啊,我以儿子之名生下了你,实为迦利(厄运)——无愤怒,无热情,无勇力,令敌人欢喜。

5.133.31

मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ।
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ॥ ५.१३३.३१ ॥

愿无一位贵妇生下这样的儿子。不要像烟一样闷烧,而要冲上去打倒敌人。

5.133.32

ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ।
एतावानेव पुरुषो यदमर्षी यदक्षमी ॥ ५.१३३.३२ ॥

即使只是片刻,也要在敌人的头上燃烧。人之所以为人,正在于此:愤怒而不能忍耐。

5.133.33

क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ।
संतोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च ॥ ५.१३३.३३ ॥

能忍耐而无怨怒的人,既非女子,也非男子。知足必定毁掉福运,怜悯也是如此。

5.133.34

अनुत्थानभये चोभे निरीहो नाश्रुते महत् ।
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ॥ ५.१३३.३४ ॥

怯于起身、又被二者(怠惰与怜悯)所缠的无为之人,不能得到伟大之物。请以自身之力,从这些罪恶的迷惑中解脱自己。

5.133.35

आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ।
परं विषहते यस्मात्तस्मात्पुरुष उच्यते ॥ ५.१३३.३५ ॥

把心变成铁石,重新寻回你自己的本性。因为能忍受他人(敌人)的人,才被称为男子汉。

5.133.36

तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ।
शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः ॥ ५.१३३.३६ ॥

在此,像女人一样生活的人被称为名不副实之人;而具有强大力量、以狮子之勇前行的英雄,则与之相反。

5.133.37

दिष्टभावं गतस्यापि विषये मोदते प्रजा ।
य आत्मनः प्रियमुखे हित्वा मृगयते श्रियम् ॥ ५.१३३.३७ ॥

即使在命运已然改变者的国土上,百姓仍会欢喜;然而那抛弃亲爱之面、追求财富的人——

5.133.38

अमात्यानामथो हर्षमादधात्यचिरेण सः ॥ ५.१३३.३८ ॥

随后,他很快便使大臣们欢喜。

5.133.39

किं नु मे मामपश्यन्त्याः पृथिव्या अपि सर्वया ।
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा । ॥ ५.१३३.३९ ॥

既然整个大地都不再见到我,你的饰物又有何用?享乐或生命又有何益?

5.133.40

पैरर्विहन्यमानस्य जीवितेनापि किं फलम् ।
निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।
ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ॥ ५.१३३.४० ॥

被敌人击倒之人,即使活着又有何益?愿怀恨者得到那无怒者的世界;愿我们的朋友前往那自尊者的世界。

5.133.41

भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् ।
कृपणानामसत्वानां मा वृत्तिमनुवर्तिथाः ॥ ५.१३३.४१ ॥

不要效仿那些被仆人抛弃、靠他人食物为生的卑微而怯懦之人的生活。

5.133.42

अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।
पर्यन्यमिव भूतानि देवा इव शतक्रतुम् ॥ ५.१३३.४२ ॥

亲爱的儿子,愿婆罗门与朋友都依靠你而生存,正如众生依靠雨云、诸天依靠百祭之因陀罗而生存一样。

5.133.43

यमाजीवन्ति पुरुषं सर्वभूतानि संजय ।
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ॥ ५.१३३.४३ ॥

桑闍耶啊,一切众生依赖他而生活,犹如众生依靠结满熟果的树,他的生命是有意义的。

5.133.44

यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् ।
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥ ५.१३३.४४ ॥

英雄以其勇力使亲族安乐兴盛,如诸天依赖因陀罗,他在此世的生命是圆满的。

5.133.45

स्वबाहुबलमाश्रित्य योहि जीवति मानवः ।
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ॥ ५.१३३.४५ ॥

凭借自己臂力而生活的人,在此世获得名声,在来世也获得吉祥的归宿。