摩诃婆罗多 · 章 5.134
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.134.1
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि ।
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥ ५.१३४.१ ॥
如今处于这种境地,你却想舍弃男子汉的气概,不久便会走上卑贱之人所行的道路。
5.134.2
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात् ।
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥ ५.१३४.२ ॥
刹帝利若贪生怕死,不依自身之力以勇武减损其威势,人们便称他为盗贼。
5.134.3
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च ।
नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥ ५.१३४.३ ॥
言之有理、合乎道义、又蕴含美德的话,也无法传到你的心中,正如药物无法救治垂死之人。
5.134.4
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः ।
दौर्बल्यादासते मूढा व्यसतौघपतीक्षिणः ॥ ५.१३४.४ ॥
信度王国的臣民中确有不满之人;愚昧之辈因怯弱而坐待灾祸的洪流。
5.134.5
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः ।
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥ ५.१३४.५ ॥
他们聚集盟友,各处组织起来,其他人见你的男子气概,便会反过来与你为敌。
5.134.6
तैः कृत्वा सह संघातं गिरिदुर्गालयं चर ।
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥ ५.१३४.६ ॥
与他们结盟,居于山岳堡垒之中,待时机成熟便伺机而动;此人并非不老不死。
5.134.7
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि ।
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥ ५.१३४.७ ॥
你名叫桑阇耶,但我在你身上看不到这一点。孩子,要名副其实;不要成为名不副实的人。
5.134.8
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् ।
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥ ५.१३४.८ ॥
那位具正确见识、大智慧的婆罗门曾对年幼的你说:'此人遭遇大难之后,将重新走向兴盛。'
5.134.9
तस्य स्मरन्ती वचनमाशंसे विजयं तव ।
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः ॥ ५.१३४.९ ॥
我记着他的话,期望你获胜。因此,亲爱的孩子,我对你说,并将一再地说。
5.134.10
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥ ५.१३४.१० ॥
凡其成就目标时,他人也得以增强者,若依循政略而行、遵从目标,其成功必定可期。
5.134.11
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय ।
एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः ॥ ५.१३४.११ ॥
桑阇耶啊,无论我祖先的境遇是兴盛还是衰败,你明白此理之后,便应将心思放在战事上,切勿退缩。
5.134.12
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ ५.१३४.१२ ॥
商婆罗说,再没有比这更险恶的境况了:在那里,今日和明晨都见不到食物。
5.134.13
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् ।
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥ ५.१३४.१३ ॥
她说,这比丈夫和儿子被杀更为深重的痛苦。所谓贫穷,实际上就是一种死亡。
5.134.14
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता ।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ ५.१३४.१४ ॥
我出身于显赫的家族,如同从一湖流入另一湖般来到此处。我身为主妇,诸事吉祥,深受丈夫敬重。
5.134.15
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् ।
पुरा हृष्टः सुहृद्वर्गो मामपश्यत्सुहृद्गताम् ॥ ५.१३४.१५ ॥
从前,我身佩珍贵的花环与饰物,穿着光洁华美的衣裳,每当我来到朋友之中,亲友们都欢喜地望着我。
5.134.16
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम् ।
न तदा जीवितेनार्थो भविता तव सञ्जय ॥ ५.१३४.१६ ॥
Sañjaya,当你看到我和你的妻子极度衰弱时,那时你的生命就没有意义了。
5.134.17
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् ।
अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥ ५.१३४.१७ ॥
若你看到我们因生计匮乏而抛弃供役的仆人、师长、祭司与家庭祭司,那么你活着还有什么用处呢?
5.134.18
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा ।
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥ ५.१३४.१८ ॥
若今日我不再见你像从前那样尽到值得称赞、能带来荣誉的职责,那我的心还有什么安宁可言?
5.134.19
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम ।
न ह्यद न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥ ५.१३४.१९ ॥
若我对婆罗门说“不”,我的心将会碎裂。今日我既无子,亦无夫;而婆罗门也未曾被告以“不”。
5.134.20
वयमाश्रयणीयाः स्म न श्रोतारः परस्य च ।
अन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥ ५.१३४.२० ॥
我们是应当被依靠的人,不是听从他人之人。若投奔他人而苟活,我宁可舍弃此生。
5.134.21
अपारे भव नः पारमप्लवे भव नः प्लवः ।
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः ॥ ५.१३४.२१ ॥
在无边之处为我们作彼岸,在无舟之处为我们作舟楫。使不当之地成为可安身之处;使我们这些死者重获生命。
5.134.22
सर्वे ते शत्रवः शक्या न चेञ्जीवितुमर्हसि ।
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥ ५.१३४.२२ ॥
你若想活下去,你的所有敌人都可以被战胜,你也应当如此。然而若你反而采取这种怯懦的生活方式,
5.134.23
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् ।
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥ ५.१३४.२३ ॥
你若心灰意冷、意志消沉,便应舍弃这种罪恶的生计。英雄只需杀死一个敌人,便能获得名声。
5.134.24
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥ ५.१३४.२४ ॥
因子杀死弗栗多,因陀罗便成为大因陀罗。他获得了大因陀罗之位,成为诸世界的主宰。
5.134.25
नाम विश्राव्य वै शङ्ख्ये शत्रूनाहूय दंशितान् ।
सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम् ॥ ५.१३४.२५ ॥
在战场上宣告自己的名号,呼唤披甲的敌人,驱散军队的前锋,或杀死某位杰出的人——
5.134.26
यदैव लभते वीरः सुयुद्धेन महद्यशः ।
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥ ५.१३४.२६ ॥
英雄凭借良好的战斗获得巨大荣誉时,他的敌人便会惊惧并俯首。
5.134.27
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः ।
अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः ॥ ५.१३४.२७ ॥
怯懦的人们无可奈何地用一切欲望的丰饶,来慰藉那在战场上舍弃性命的熟练勇士。
5.134.28
राज्यं चाप्युग्रवि भ्रंशं संशयो जीवितस्य वा ।
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥ ५.१३४.२८ ॥
即便王国遭受惨重的丧失,或性命受到威胁,善人一旦擒获敌人,也不会留下任何残余。
5.134.29
स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम् ।
रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु ॥ ५.१३४.२९ ॥
视王国如天门或甘露,将其当作唯一之路而牢牢把守,如同坠落的火炬落入敌阵之中。
5.134.30
जहि शत्रून्रणे राजन्स्वधर्मनुपालय ।
मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम् ॥ ५.१३४.३० ॥
国王啊,在战场上杀死敌人,遵守你自己的本分;不要让敌人把你看作可怜之人,那只会增加他们的恐惧。
5.134.31
अस्मदीयैश्च शोचिद्भिर्नदद्भिश्च परैर्वृतम् ।
अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम् ॥ ५.१३४.३१ ॥
愿我永远不见你被我方哭泣之人与敌人的吼叫所包围,像最卑微的人中之最卑微者那样站立。
5.134.32
हृप्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा ।
मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥ ५.१३४.३२ ॥
与苏维罗的少女欢愉,如从前一样因财富而自豪;但不要沮丧地落入信度少女的掌控之中。
5.134.33
युवा रूपेण संपन्नो विद्ययाभिजनेन च ।
यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ॥ ५.१३४.३३ ॥
像你这样的青年,美貌、学识与高贵出身兼备,声名显赫,闻名于世,岂会如此行事?
5.134.34
अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत् ।
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ॥ ५.१३४.३४ ॥
若我见你为讨好他人而说悦耳之言,我便视之为死亡本身,如同不堪负轭的牛。
5.134.35
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ।
नास्मिञ्जातु कुले जातो गच्छेद्योन्यस्य पृष्ठतः । ॥ ५.१३४.३५ ॥
若见你随在他人身后而行,我心何以得安?生于此族者,从不跟随在他人身后。
5.134.36
न त्वं परस्यानुचरस्तात जीवितुमर्हसि ।
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ॥ ५.१३४.३६ ॥
爱子啊,你不配作他人的随从而活。我知道刹帝利的心,自古以来便是如此。
5.134.37
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ।
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् ॥ ५.१३४.३७ ॥
此乃前人与更早之人、后人与更后之人所宣说;它永恒不灭,为生主(Prajāpati)所造。
5.134.38
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् ।
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥ ५.१३४.३८ ॥
凡生于此世、知晓刹帝利之法的刹帝利,不应因恐惧或计较生计而向任何人低头。
5.134.39
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥ ५.१३४.३९ ॥
应当挺身而起,不应低头;因为努力本身就是男子气概。即使在不利的时刻于关节处折断,也不应在此向任何人低头。
5.134.40
मातङ्गो मत्त इव च परीयात्स महामनाः ।
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ॥ ५.१३४.४० ॥
那位大度之人应当如发狂的象一般行走;对婆罗门则应永远只为法而低头——哦,桑闍耶。
5.134.41
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः ।
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥ ५.१३४.४१ ॥
约束其他种姓,惩治一切作恶者,无论有无助手,终其一生都应如此。