Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.135

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.135.1

कृष्णायसस्येव च ते संहत्य हृदयं कृतम् ।
मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे ॥ ५.१३५.१ ॥

你的心仿佛是把黑铁熔合而成。母亲啊,你无怜悯,有英雄般的智慧,确实不能容忍。

5.135.2

अहो क्षत्रसमाचारो यत्र मामितरं यथा ।
नियोजयसि युद्धाय परमातेव मां तथा ॥ ५.१३५.२ ॥

唉,这是刹帝利的行为!你驱使我去作战,仿佛我不是你的儿子,像继母一样送我上战场。

5.135.3

ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ।
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ॥ ५.१३५.३ ॥

独生子的母亲会说出这样的话吗?你即使不见我,凝望大地时,怎能这样说呢?

5.135.4

किमाभरणकृत्येन किं भोगैर्जीवितेन वा ।
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः ॥ ५.१३५.४ ॥

如果我这心爱的儿子在战斗中被夺去,那么装饰、享乐或生命又有何用?

5.135.5

सर्वावस्था हि विदुषां तात धर्मार्थकारणात् ।
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूजुदम् ॥ ५.१३५.५ ॥

亲爱的孩子,智者的一切处境都因法与利而生。桑闪耶,我正是权衡了这两者,才鼓励你。

5.135.6

स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः ।
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ॥ ५.१३५.६ ॥

仔细想来,这决定性的时刻已依次到来。若时机已至,你仍不承担你的责任——

5.135.7

असंभावितरूपस्त्वमानृशंस्यं करिष्यसि ।
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय ॥ ५.१३५.७ ॥

桑闍耶啊,你将做出难以想象的无情之事;若我看到你蒙受恶名却不对你明言。

5.135.8

खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ।
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ॥ ५.१३५.८ ॥

人们称之为驴般的溺爱,是无因的无能。请舍弃这条被善人所斥、被愚人所行之路。

5.135.9

अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ।
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ॥ ५.१३५.९ ॥

有一种巨大的无明,这些民众依附于它。若你的行为端正,你便会因此而为我所爱。

5.135.10

धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन ।
दैवमानुषयुक्तेन सद्भिराचरितेन च ॥ ५.१३५.१० ॥

唯有依循法、利与德的正道,合乎天人之序,并为善人所奉行,绝非其他任何途径。

5.135.11

यो ह्येवमविनीतेन रमते पुत्रनप्तृणा ।
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया ॥ ५.१३५.११ ॥

若有人这般与不驯、不奋进、品行恶劣、心怀邪念的儿子或孙子为乐。

5.135.12

रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम् ।
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ॥ ५.१३५.१२ ॥

与儿子为乐者,其子嗣之果报是徒劳的;因为他们不尽本分,反而行可耻之事。

5.135.13

सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ।
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च ।
क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥ ५.१३५.१३ ॥

在此世与来世,卑劣之人都得不到幸福。桑惹耶啊,刹帝利被造就用于战斗、此世的胜利,以及保护臣民这一严酷的职责。

5.135.14

जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ।
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्।
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमेधते ॥ ५.१३५.१४ ॥

无论胜利还是战死,刹帝利都能到达因陀罗的世界。在因陀罗的圣洁宫殿、天界,没有刹帝利制服敌人后在幸福中兴盛的那种快乐。

5.135.15

मन्युना दह्यमानेह पुरुषेण मनस्विना ।
निकृतेनेह बहुशः शत्रून्प्रति जिगीषया ॥ ५.१३५.१५ ॥

此处,一位心怀大志的人,因愤怒而燃烧,屡次受辱,渴望战胜敌人。

5.135.16

आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च ।
प्राप्यते नेह शान्तिर्हि नित्यमेव तु सञ्जय ।
अतोन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥ ५.१३५.१६ ॥

唯有舍弃自身或击倒敌人,此世方能得到平静,桑惹耶啊,永远如此。否则,他又如何能以别的方式得到平静呢?

5.135.17

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति ।
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥ ५.१३५.१७ ॥

在此,智者想要少许不快;因为在世间得到少许快乐的人,必定也会有少许不快。

5.135.18

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥ ५.१३५.१८ ॥

失去所爱之物,人便永不得善;他必然走向毁灭,如恒河流入大海而消逝。

5.135.19

नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।
कारुण्यमेव पश्य त्वं भूत्वेह जडमूकवत् ॥ ५.१३५.१९ ॥

母亲啊,这种想法你不应当说出来,尤其不可对儿子说;你应像愚钝而沉默的人一样,只去看怜悯。

5.135.20

अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ।
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥ ५.१३५.२० ॥

因此你这样看待,我心中十分欢喜;你在此事上激励我,我也极力激励你。

5.135.21

अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् ।
अहं पश्यामि विजयं कृच्छ्रभाविनमेव ते ॥ ५.१३५.२१ ॥

现在我将使你尊荣,待杀尽所有的信度人之后。我看见你的胜利,它只会经由艰难而来。

5.135.22

अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम ।
इत्यवस्थां विदित्वैतामात्मनात्मनि दारुणाम् ॥ ५.१३५.२२ ॥

我既无宝库又无助手,成功与胜利从何而来?我在自身之中已了知这可怕的处境。

5.135.23

राज्याद्भावो निवृत्तो मे त्रिदिवादिव दृष्कृतः ।
ईदृशं भवती कंचिदुपायमनुपश्यति ॥ ५.१३५.२३ ॥

我的地位已失去王国,如同作恶者从天堂坠落。尊贵的夫人,您且为我寻找某种这样的办法吧。

5.135.24

तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ ५.१३५.२४ ॥

因此,成熟智慧的人啊,请完整地告诉我这个提问者;我将依照教导如实去做。

5.135.25

पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः ।
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे।
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ॥ ५.१३५.२५ ॥

儿啊,不要因往昔的败运而轻视自己。有些事未曾存在却会出现,有些事存在之后又归于消失;也不应单凭愤怒去开始事业,愚人尤其不该如此。

5.135.26

सर्वेषां कर्मणां तात फले नित्यमनित्यता ।
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ॥ ५.१३५.२६ ॥

亲爱的儿子,一切行为的果报中总有无常。知道这一点的人,有的不成就,有的却成就。

5.135.27

अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ।
ऐकगुण्यमनीहायामभावः कर्मणां फलम् ॥ ५.१३५.२७ ॥

那些根本不行动的人,永远不会成就。在无为中只有一种状态;行为的果报就是不存在。

5.135.28

अथ द्वैगुण्यमीहायां फलं भवति वा नवा ।
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ॥ ५.१३५.२८ ॥

而在努力之中有双重的状态;其果报可能到来,也可能不到来。对于那些事先就知道一切目标无常的人而言。

5.135.29

नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ।
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ॥ ५.१३५.२९ ॥

他会驱走成长与兴盛,王子啊,在逆境之中。应当振作起来,保持警觉,投身于带来兴盛的事业。

5.135.30

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह ॥ ५.१३५.३० ॥

心中想着"必将成就",始终不为所动,将吉祥之事置于首位,与婆罗门和诸侯共同行动。

5.135.31

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥ ५.१३५.३१ ॥

孩子啊,智慧之王的兴盛来得迅速;吉祥女神向他而来,如太阳升向东方。

5.135.32

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च ।
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ॥ ५.१३५.३२ ॥

许多范例、良策和振奋人心的激励都在眼前;你的本性已显露。我看见了:请奋发努力。

5.135.33

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ।
क्रुद्धान्लुब्धान्परिक्षीणानवलिप्तान्विमानितान् ॥ ५.१३५.३३ ॥

在此你应当聚集你所欲的人生目标:愤怒者、贪婪者、衰弱者、傲慢者与受辱者。

5.135.34

स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ।
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्।
महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥ ५.१३५.३४ ॥

也要留心任何对手。如此你将击碎庞大的军队,如同疾风吹散云朵。

5.135.35

तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः ।
ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम् ॥ ५.१३५.३५ ॥

要做一个把先位让给他们的人,及时起身、言辞和悦。他们会为你效力,必定会把你置于前列。

5.135.36

यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् ।
तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव ॥ ५.१३५.३६ ॥

当敌人得知对手已舍弃性命时,便应当像躲避闯入屋中的毒蛇一样,立即远离他。

5.135.37

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि ।
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥ ५.१३५.३७ ॥

若知其勇猛而仍不肯顺服,则应以温和的言辞安抚他;最终必会如此。

5.135.38

निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति ।
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥ ५.१३५.३८ ॥

借着温和的言辞获得立足之地,财富便会增长;因为朋友都会亲近并依附富有之人。

5.135.39

स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः ।
नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम् ॥ ५.१३५.३९ ॥

家业一旦衰败,亲族便又将他抛弃;无人依附于他,甚至会鄙视这样的人。

5.135.40

शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति ।
स न संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥ ५.१३५.४० ॥

若把敌人当作助手并信任他,此人不可能获得王国。