摩诃婆罗多 · 章 5.137
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.137.1
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके ।
उपोपविष्टा नारीभिराश्रमे परिवारिता ॥ ५.१३७.१ ॥
啊,克舍婆,请告诉阿周那:你出生时,在产后不净期间,我坐在阿施罗摩中,被众女子环绕。
5.137.2
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा ।
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः । ॥ ५.१३७.२ ॥
此时天空中传来一个神圣而悦耳的声音:啊,贡蒂,你的这个儿子将与千眼因陀罗相等。
5.137.3
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान् ।
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥ ५.१३७.३ ॥
他将在战场上战胜所有聚集的俱卢族人,并以婆罗多之子Bhīmasena为副,拯救世界。
5.137.4
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ।
हत्वा कुरूंश्च सङ्ग्रामे वासुदेवसहायवान् ॥ ५.१३७.४ ॥
你的儿子将征服大地,他的名声将触及天界;他将在战场上杀死俱卢族人,并以婆薮提婆为助手。
5.137.5
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति ।
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ॥ ५.१३७.५ ॥
他将重新夺回失去的祖传份额;这位光辉的人将与兄弟们一起举行三次祭祀。
5.137.6
स सत्यसन्धो बीभत्सुः सव्यसाची यथाच्युत ।
तथा त्वमेव जानासि बलवन्तं दुरासदम् ॥ ५.१३७.६ ॥
他信守誓言,是善射的毗跋蹉(阿周那),啊,阿曲多,正如你自己所知:他强大而难以抵挡。
5.137.7
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ।
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ॥ ५.१३७.७ ॥
愿它如那句话所说而成就。若有法(dharma),瓦尔希涅雅啊,它就会成为真实。
5.137.8
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ।
नाहं तदभ्यसूयामि यथा वागभ्यभाषत ॥ ५.१३७.८ ॥
克里希纳啊,你也会如此把一切都成就。那句话如何说的,我并不责怪。
5.137.9
नमो धर्माय महते धर्मो धारयति प्रजाः ।
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ॥ ५.१३७.९ ॥
向伟大的法致敬;法维系众生。此言应告诉檀那闍耶(阿周那),也告诉常时准备好的狼腹(怖军)。
5.137.10
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥ ५.१३७.१० ॥
刹帝利所生之目的,其时已至。遇到仇怨,人中雄牛不会沮丧。
5.137.11
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति ।
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ॥ ५.१३७.११ ॥
你一向知道毗摩的决心;那使敌人受苦的人,若不使敌人终结,便不会平息。
5.137.12
तावदेव महापबाहुर्निशासु न सुखं लभेत् ।
सर्वधऱ्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः ।
व्रूया माधव कल्याणीं कृष्ण कृष्णां यशस्विनीम् ॥ ५.१३७.१२ ॥
大臂的毗摩直到那时,夜里也得不到安乐。摩陀婆啊,你应当告诉克利希纳——那位吉祥而荣耀的女子,大灵魂般度的儿媳,通晓一切法的特殊之理者。
5.137.13
युक्तमेतन्महाभागे कुले जाते यशस्विनि ।
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ॥ ५.१३७.१३ ॥
啊,你这位福德深厚、名声显赫、生于高贵家族的女子,你对我所有的儿子都如理而行,这是恰当的。
5.137.14
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ ।
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥ ५.१३७.१४ ॥
也应告诉摩德里的两个儿子,二人都热衷于刹帝利的职责:宁可选择以勇力所得的享受,甚至胜过生命。
5.137.15
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥ ५.१३७.१५ ॥
啊,人中最上者,以勇力获得的财富,总能使依刹帝利之职而生活的人心欢悦。
5.137.16
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनाम् ।
पाञ्चाली परुषाण्युक्तका को नु तत्क्षन्तुमर्हति ॥ ५.१३७.१६ ॥
你们这些行持一切法则的人都在旁观,而般遮罗公主说出了严厉的话——谁能宽恕这些呢?
5.137.17
न राज्यहरणं दुःखं द्यूते चापि पराजयः ।
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥ ५.१३७.१७ ॥
失去王国、掷骰败北,或我的儿子被放逐——这些都不是我痛苦的原因。
5.137.18
यत्र सा बृहती श्यामा सभायां रुदती तदा ।
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं महत् ॥ ५.१३७.१८ ॥
她身材丰满、肤色深黑,在会场中哭泣着听到了严厉的话语——这对我而言是更大的痛苦。
5.137.19
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ ५.१३७.१९ ॥
坚守妇女之德、腰肢纤美、始终奉行刹帝利之法的黑公主,虽有夫主,那时却找不到一个保护者。
5.137.20
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥ ५.१३७.२० ॥
啊,大臂者,请告诉持武器者中最优秀的、人中虎阿周那,让他追随德罗波蒂的足迹。
5.137.21
विदितं हि तवात्यन्तं क्रूद्धाविव यमान्तकौ ।
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥ ५.१३७.२१ ॥
你完全知道,愤怒的怖军与阿周那如同阎摩与死神,他们甚至能将诸天神送往至高之境。
5.137.22
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता ।
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ॥ ५.१३७.२२ ॥
对他们二人的这种轻慢,即黑公主被带入议会,以及难敌之弟难降对怖军说了刻薄的言语。
5.137.23
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ।
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह ॥ ५.१३७.२३ ॥
在俱卢英雄们面前再次提醒此事,并问候般度五子及其儿子和黑公主的安好。
5.137.24
मां वै कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ।
अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय ॥ ५.१३७.२४ ॥
啊,阇那陀那,请再告诉他们,我安好。走平安的道路,守护我的儿子们。
5.137.25
अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम् ।
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥ ५.१३७.२५ ॥
随后,克里希那向她致敬并右绕,那位大臂者,步履如狮子嬉戏,便从那里离去。
5.137.26
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान् ।
आरोप्याथ रथे कर्णं प्रायात्सात्यकिना सह ॥ ५.१३७.२६ ॥
随后,他送别了毗湿摩等俱卢族的英杰,将迦尔纳扶上战车,与萨提亚基一同出发。
5.137.27
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः ।
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥ ५.१३७.२७ ॥
达莎尔哈后裔离去之后,俱卢族人聚在一起,彼此议论着关于克沙瓦的极大惊奇与至为奇妙之事。
5.137.28
प्रमूढा पृथिवी सर्वा मृत्युपाशवशीकृता ।
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ॥ ५.१३७.२८ ॥
整个大地迷乱,被死亡之索所控制。他们说:“这并非出于难敌的愚昧。”
5.137.29
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः ।
मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥ ५.१३७.२९ ॥
随后,离开城市,那位人中至上者继续前行,并与迦尔纳长时间商议。
5.137.30
विसर्जयित्वा राधेयं सर्वयादवनन्दनः ।
ततो जवेन महता तूर्णमश्वानचोदयत् ॥ ५.१३७.३० ॥
送别了罗陀之子之后,那位使诸雅达瓦喜乐者便以极大的速度迅速策马前行。
5.137.31
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः ।
हया जग्मुर्महावेगा मनोमारुतरंहसः ॥ ५.१३७.३१ ॥
在Dāruka驱策下,那些疾速的马奔驰而去,仿佛饮尽天空,其速如意念与风。
5.137.32
ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः ।
उच्चैर्जग्मुरुपप्लाव्यं शार्ङ्गधन्वानमावहन् ॥ ५.१३७.३२ ॥
他们越过大道,如鹰隼般迅疾高飞,载着执Śārṅga弓者朝Upaplāvya而去。