摩诃婆罗多 · 章 5.140
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.140.1
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥ ५.१४०.१ ॥
善人中的最优者啊,被王子与侍从环绕的摩褐苏陀那把迦尔纳扶上战车后出发了。
5.140.2
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥ ५.१४०.२ ॥
摧毁敌方英雄者在战车座上对罗陀之子说了什么?戈文达对御者之子用了哪些安抚之言?
5.140.3
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् ।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः ॥ ५.१४०.३ ॥
请你完整告诉我,那时克利须那对迦尔纳所说的话,如同升起的云中雷鸣——无论温和还是严厉。
5.140.4
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च ।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥ ५.१४०.४ ॥
依序而言,那些话既有严厉也有温和,悦耳、合乎法义、真实且有益。
5.140.5
हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत ॥ ५.१४०.५ ॥
婆罗多之后啊,请听我说,那些触动人心的话,是不可估量之灵的摩褐苏陀那对罗陀之子所说的。
5.140.6
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥ ५.१४०.६ ॥
罗陀之子啊,你曾侍奉通晓吠陀的婆罗门,并以克制而无嫉妒之心向他们询问真义。
5.140.7
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥ ५.१४०.७ ॥
迦尔纳啊,唯有你知晓永恒的吠陀教义;唯有你精通法论中的微妙之处。
5.140.8
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥ ५.१४०.८ ॥
所谓未婚所生者、再嫁所生者,以及生于处女者——精通经典之人称其父为娶她为妻的丈夫。
5.140.9
सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः ।
निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥ ५.१४०.९ ॥
迦尔纳啊,你正是如此出生的。依法,你是般度之子。依法论的定论,来吧,你将成为国王。
5.140.10
पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥ ५.१४०.१० ॥
父系一方是般度族(Pārtha),母系一方是毗瑟尼族。你要认识这两方,人中雄牛啊。
5.140.11
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥ ५.१४०.११ ॥
亲爱的,今天就随我离开这里吧。让般度五子认出你这位居于坚战之前出生的贡蒂之子。
5.140.12
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥ ५.१४०.१२ ॥
般度五兄弟将抱住你的双足,德罗波蒂的五个儿子以及无敌的苏跋陀罗之子也是如此。
5.140.13
राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥ ५.१४०.१३ ॥
诸王与王子为般度之子而聚集;所有安陀迦与毗湿尼族人都将握住你的双足。
5.140.14
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥ ५.१४०.१४ ॥
愿为你取来金、银、土制的瓶罐,以及一切草药、一切种子、一切宝石与藤蔓。
5.140.15
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् ।
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति ॥ ५.१४०.१५ ॥
愿刹帝利之人与王家少女也取来灌顶之物;第六日,在恰当的时候,德罗波蒂将来到你面前。
5.140.16
अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः ।
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ॥ ५.१४०.१६ ॥
愿最优秀的再生者、意志坚定的达乌摩耶向火中献祭;今日愿通晓四吠陀的再生者为你灌顶。
5.140.17
पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः ।
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ॥ ५.१४०.१७ ॥
愿般度之子的家庙祭司专注于神圣的仪式;同样,愿五位般度兄弟,人中雄牛,都在场。
5.140.18
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ।
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम् ॥ ५.१४०.१८ ॥
德罗波蒂的五个儿子、般遮罗人与车底人也同样在场。我将为你这大地之主、国王灌顶。
5.140.19
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः ।
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः । ॥ ५.१४०.१९ ॥
愿法之子坚战成为你的太子与国王。这位心存正法、誓愿坚定的人,持起白色的拂尘吧。
5.140.20
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ।
छत्रं च ते महाश्वेतं भीमसेनो महाबलः ॥ ५.१४०.२० ॥
愿贡蒂之子坚战在你的车后登上车辇,大力的毗摩森那为你撑起巨大的白伞。
5.140.21
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि ।
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ॥ ५.१४०.२१ ॥
在你受灌顶的头顶上,贡蒂之子将为你举起它——覆以虎皮,伴着百个小铃的鸣响。
5.140.22
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ।
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ॥ ५.१४०.२२ ॥
阿周那将驾驭套着白马的车辇,阿毗曼尤将始终在你近旁。
5.140.23
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ।
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः । ॥ ५.१४०.२३ ॥
那枸罗与萨诃提婆、德罗波蒂的五个儿子、般遮罗诸王,以及大车战士始建丁,都将跟随你。
5.140.24
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः ।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते ॥ ५.१४०.२४ ॥
我也将跟随你,所有安陀迦与毗湿尼人,十骑士族将成为你的随从,还有十河族,啊,人民之主。
5.140.25
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥ ५.१४०.२५ ॥
啊,大臂者,与你的兄弟般的般度之子们一同享有王国,伴随着诵经、火祭以及各种吉祥仪式。
5.140.26
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः ।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥ ५.१४०.२६ ॥
愿德罗毗荼人与恭塔拉人走在你的前面;安陀罗人、棕榈居民、楚楚巴人与吠努巴人亦复如此。
5.140.27
स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥ ५.१४०.२७ ॥
愿御者与颂歌者以众多赞颂赞美你,愿般度之子们宣告婆苏舍那(迦尔纳)的胜利。
5.140.28
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥ ५.१४०.२८ ॥
你被普利塔之子们环绕,如月亮被星辰环绕,治理王国吧,贡蒂之子;也要使贡蒂欢喜。
5.140.29
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥ ५.१४०.२९ ॥
愿你的朋友欢喜,愿你的敌人同样忧伤;愿今日你与般度的兄弟们之间有兄弟之情。