Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.144

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.144.1

असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते ।
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥ ५.१४४.१ ॥

与俱卢族的和解未能成功,克里希那已返回般度五子处,维杜拉便走近普利塔,满怀悲伤,缓缓地说道。

5.144.2

जानासि मे जीवपुत्री भावं नित्यमविग्रहे ।
क्रोशतो नच गृह्णीते वचनं मे सुयोधनः ॥ ५.१४४.२ ॥

你知道我始终不愿争斗、只求和平之心,生子之母啊;我大声疾呼,苏尤陀那却不听我的话。

5.144.3

उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः ।
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥ ५.१४४.३ ॥

那位国王(坚战)确实与遮低、般遮罗和家迦耶人结盟,与怖军、阿周那、克里希那,以及尤尤陀那和双生子同在。

5.144.4

उपप्लाव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः ।
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥ ५.१४४.४ ॥

尽管驻扎在优帕普拉维亚,坚战出于对亲族的情分,仍只愿守持法(达摩),正如强者期望弱者一般。

5.144.5

राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति ।
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥ ५.१४४.५ ॥

可是这位年迈的般度王(持国)仍不平息;被诸子的骄傲迷醉,他走上了非法(阿达摩)之路。

5.144.6

जयद्रथस्य कर्णस्य तथा दुःशासनस्य च ।
सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रपत्स्यते । ॥ ५.१४४.६ ॥

由于胜车、迦尔纳、难降以及苏跋罗之子(沙恭尼)的愚昧,他们之间将发生相互的分裂。

5.144.7

अधर्मेम हि धर्मिष्ठं ह्रियते राज्यमीदृशम् ।
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥ ५.१४४.७ ॥

如此正直的王国正被以不义夺走。对于属于这法的人们,其后果必将随之而来。

5.144.8

क्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् ।
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥ ५.१४४.८ ॥

当俱卢以武力行那法时,谁不会因愤怒而燃烧?当克沙婆在无和解的情况下离去,般度之子们将起而战斗。

5.144.9

ततः कुरूणामनयो भविता वीरनाशनः ।
चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥ ५.१४४.९ ॥

那时,将有毁灭英雄的灾祸降临俱卢。思量此事,我白天黑夜都无法入睡。

5.144.10

श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् ।
सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह ॥ ५.१४४.१० ॥

贡蒂听到那些出于贪求财富而说出的话,因悲痛而叹息不止,心中暗自思量。

5.144.11

धिगस्त्वर्थं यत्कृतेयं सुमहाञ्ज्ञातिसंक्षयः ।
वर्त्स्यते सुहृदां चैव युद्धेऽस्मिन्वै पराभवः ॥ ५.१४४.११ ॥

那财富可耻!因它将导致如此巨大的亲族毁灭。在此战中,朋友们也必定遭受失败。

5.144.12

पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः ।
भारतैः सह योत्स्यन्ति किं नु दुःखमतःपरम् ॥ ५.१४४.१२ ॥

般度之子、斯会迪与般遮罗、耶达婆诸族聚集之后,将与婆罗多人一同作战。此外还有什么比这更大的悲痛呢?

5.144.13

पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम् ।
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः।
इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते ॥ ५.१४४.१३ ॥

我确实看到战争中的过失,不战亦是败北。贫者而死尚胜;以亲族毁灭而得胜,并不善。我如此思量,心中便生出悲痛。

5.144.14

पितामहः शान्तनव आचार्यश्च युधां पतिः ।
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥ ५.१४४.१४ ॥

祖父为檀努之子毗湿摩,诸战士之主的师尊,以及迦尔纳——为持国之子之故,他们使我心生恐惧。

5.144.15

नाचार्यः कामवाञ्शिष्यैद्रौणोयुद्ध्येत जातुचित् ।
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः । ॥ ५.१४४.१५ ॥

老师满怀对弟子的情意,决不会与般度五子作战,德罗纳之子也是如此。祖父又怎会对般度五子怀有亲爱之心?

5.144.16

अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः ।
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥ ५.१४४.१६ ॥

然而只有这一人——持国之子,见识虚妄、心术邪恶,常随迷妄,这罪人憎恨般度五子。

5.144.17

महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः ।
कर्णः सदा पाण्डवानां तन्मे दहति संप्रति ॥ ५.१४४.१७ ॥

在大灾难中,固执而尤为强大的迦尔纳对般度五子始终如此。这如今正灼烧我的心。

5.144.18

आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति ।
ग्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥ ५.१४४.१८ ॥

然而今日我希望能使迦尔纳之心转向般度五子——走近他,将事情如其实际那样显示给他。

5.144.19

तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ ।
आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि ॥ ५.१४४.१९ ॥

当我住在父亲家中时,尊贵的杜尔婆娑因喜悦而赐予我一个恩惠:与咒语相结合的召唤。

5.144.20

साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता ।
चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥ ५.१४४.२० ॥

我在国王的内宫中受到昆提跋阇的尊敬,心中痛苦,以种种方式反复思量。

5.144.21

बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ।
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥ ५.१४४.२१ ॥

咒语的强弱与婆罗门言语的力量,作为女子与孩童的我,反复思量。

5.144.22

धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा ।
दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी ॥ ५.१४४.२२ ॥

那时,我受到可靠乳母的守护,被女伴们环绕,远离过失,维护父亲的操行。

5.144.23

कथं नु सुकृतं मे स्यान्नापराधवती कथम् ।
भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ॥ ५.१४४.२३ ॥

我想:"我如何能行善,又如何不犯过错呢?"于是我向那位婆罗门致礼。

5.144.24

कौतूहलात्तु तं लब्धा बालिश्यादाचरं तदा ।
कन्या सती देवमर्कमासादयमहं ततः ॥ ५.१४४.२४ ॥

出于好奇得到了那咒语,我因童稚无知便当即使用了它。作为未嫁而贞洁的少女,我于是召唤了太阳神。

5.144.25

योऽसौ कानीनगर्भो मे पुत्रवत्परिरक्षितः ।
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥ ५.१४४.२५ ॥

我像儿子一样庇护的这个未婚所生之子,为何不听从我有益的话,不为兄弟们的利益着想呢?

5.144.26

इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम् ।
कार्यार्थमभिनिश्चित्य ययौ भागीरथीं प्रति ॥ ५.१४४.२६ ॥

于是,贡提决定了此事的最上策,为此坚定地打定主意,便走向婆吉罗提河。

5.144.27

आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।
गङ्गातीरे पृथापश्यञ्जपस्थानमनुत्तमम् ॥ ५.१४४.२७ ॥

于是普利塔在恒河岸边看见了她那光辉而忠于真理的儿子的至上诵经之处。

5.144.28

प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः ।
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥ ५.१४४.२८ ॥

她站在他身后,他面朝东方、双臂高举,这位苦行女等待他诵经结束,以成就此事。

5.144.29

अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि ।
कौरव्यपत्नी वार्ष्णेयी मद्ममालेव शुष्यती ॥ ५.१४४.२९ ॥

她被烈日炙烤,站在迦尔纳的上衣之中——这位考拉瓦之妻、毗湿尼族之女,如同一串摩德摩花环般枯萎。

5.144.30

आपृष्ठतापाञ्जप्त्वा स परिवृत्त्य यतव्रतः ।
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ॥ ५.१४४.३० ॥

他背上被晒得发热,诵经完毕后转过身来;恪守誓愿的他看见贡提,恭敬地行礼,合掌站在她的身边。

5.144.31

यथान्यायं महातेजा मानी धर्मभृतां वरः ।
उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः ॥ ५.१४४.३१ ॥

依礼而行,这位大光辉、有自尊、持法者中最优秀的毗迦尔坦那之子、公牛(迦尔纳)微笑着恭敬地对贡提说道。