摩诃婆罗多 · 章 5.145
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.145.1
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।
प्राप्ता किमर्थं भवती ब्रूहि किं करवामि ते ॥ ५.१४५.१ ॥
我是迦尔纳,罗陀之子,御者阿提拉陀之子;向您致敬。您为何而来?请说,我能为您做什么?
5.145.2
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ॥ ५.१४५.२ ॥
你是昆提之子,不是罗陀之子;阿提拉陀并非你的父亲。迦尔纳,你并非生于御者之家。请知晓我的这番话。
5.145.3
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः ।
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक ॥ ५.१४५.३ ॥
你是我未婚时所生,我的长子,怀于我的腹中。在昆提王的宫中,孩子,你是普利塔之子。
5.145.4
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः ।
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ॥ ५.१४५.४ ॥
这位以显耀功业著称的神灵——太阳,那炽热而光明者,在我身中孕育了你。迦尔纳,你是持械者中最优秀的。
5.145.5
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः ।
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ॥ ५.१४५.५ ॥
戴着耳环,披着铠甲,从神圣的胎中,被光辉所环绕而诞生了。不可战胜的孩子,是我在父亲的家中生下了你。
5.145.6
स त्वं भ्रातॄनसंबुद्ध्य मोहद्यदुपसेवसे ।
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ॥ ५.१४५.६ ॥
你不认识你的兄弟,因迷惑而侍奉持国王的诸子——这并不恰当,尤其对你而言,孩子,更是不恰当。
5.145.7
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये ।
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ॥ ५.१४५.७ ॥
儿啊,这是人们在决定法(达摩)时的法之果报:因此祖先喜悦,连那一视同仁的母亲也喜悦。
5.145.8
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः ।
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष यौधिष्ठिरीं श्रियम् ॥ ५.१४५.८ ॥
从持国之子手中夺回坚战的王者福禄——那是阿周那昔日所得,却被恶人因贪欲夺去——并享有它。
5.145.9
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् ।
सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः । ॥ ५.१४५.९ ॥
愿今日诸俱卢看见迦尔纳与阿周那的相会;愿恶人见此兄弟之情而低头。
5.145.10
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ ।
असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः ॥ ५.१४५.१० ॥
迦尔纳与阿周那,你们二人如同罗摩与生主(克里希那);心意相合的你们二人,世间还有什么是不可成就的?
5.145.11
कर्ण शोभिष्यसे नूनं पञ्चमिर्भ्रातृभिर्वृतः ।
देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे ॥ ५.१४५.११ ॥
迦尔纳啊,被五位兄弟环绕,你必定光彩照人,正如大祭坛上被诸神环绕的梵天。
5.145.12
उपपद्यो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु ।
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ॥ ५.१४५.१२ ॥
你具备一切美德,是众多尊贵亲族中的长者;莫再说“御者之子”这样的话。你是普利塔的儿子,且勇武有力。