摩诃婆罗多 · 章 5.146
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.146.1
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् ।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥ ५.१४६.१ ॥
于是迦尔纳听到了从太阳发出的话语,不可逃避而充满慈爱,由太阳如父亲般说出。
5.146.2
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु ।
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥ ५.१४६.२ ॥
普利塔说的是真话,迦尔纳;请遵从母亲的话。人中之虎,若你照此行事,对你必有益处。
5.146.3
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥ ५.१४६.३ ॥
虽然母亲和父亲薄努(太阳)亲自如此说,坚守真实的迦尔纳之心当时并未动摇。
5.146.4
न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया ।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥ ५.१४६.४ ॥
你对刹帝利所说的这番话,我不相信。对我而言,这将是法的门户,也是遵从你的命令。
5.146.5
अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।
अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम् ॥ ५.१४६.५ ॥
母亲啊,你对我所犯的这桩大罪过,使我被抛弃;这毁灭了我的名声与荣誉。
5.146.6
अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥ ५.१४६.६ ॥
若我生为刹帝利,却因你而未得刹帝利应有的尊荣,那么作恶的敌人还能对我造成什么更大的伤害?
5.146.7
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम ।
हीनसंस्क्रासमयमद्य मां समचूचुदः ॥ ५.१४६.७ ॥
迦尔纳说:在仪式之时,你并未对我怀有慈悲,今日又将我推入微薄的礼仪之时。
5.146.8
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया ।
सा मां संबोधयस्यद्य केवलात्महितैषिणी ॥ ५.१४६.८ ॥
迦尔纳说:从前你并未像母亲那样为我的利益而行事;今日你只为自己的利益而来召唤我。
5.146.9
कृष्णेन सहितात्को वै न व्यथेत धनंजयात् ।
कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम् ॥ ५.१४६.९ ॥
迦尔纳说:与克里希纳同行的持财者(阿周那),谁不会因他而苦恼?今日进入普利塔之子集会的我这个胆怯者,谁会不认得?
5.146.10
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥ ५.१४६.१० ॥
迦尔纳说:从前我对兄弟们是未知的,只在战时才显露;若我去投奔般度诸子,刹帝利们会如何说我?
5.146.11
सर्वकामैः संविभक्तः पूजितश्च यथासुखम् ।
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥ ५.१४६.११ ॥
迦尔纳说:我已得到一切所愿,并被安乐地尊敬,我怎能为持国之子去做那无果之事呢?
5.146.12
उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥ ५.१४६.१२ ॥
迦尔纳说:那些心怀敌意的人,始终侍奉我,并始终向我礼拜,就像诸婆薮向婆娑瓦(因陀罗)礼拜一样。
5.146.13
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् ।
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम् ॥ ५.१४६.१३ ॥
凭借我的性命,那些自以为能够胜过敌人的人,我怎能斩断他们的心愿?
5.146.14
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् ।
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥ ५.१४६.१४ ॥
他们以我为筏,想要渡过这难以渡过的战争,在无边之海中渴望彼岸,我怎能抛弃他们?
5.146.15
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् ।
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥ ५.१४६.१५ ॥
如今已到时候,要为那些依靠持国之子的供养而生活的人偿还恩债;在那里,我必须不顾惜自己的性命去偿还。
5.146.16
कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते ।
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥ ५.१४६.१६ ॥
那些目的已达成、被妥善供养的人,在需要之时到来时,无视所受的恩惠,反复无常、作恶多端,反而行事颠倒。
5.146.17
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् ।
नैवायं न परो लोको विद्यते पापकर्मणाम्। ॥ ५.१४६.१७ ॥
对于那些对国王有罪、窃取主人饭食的作恶之人,既无今世,也无来世。
5.146.18
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥ ५.१४६.१८ ॥
为了持国之子,我将与你的儿子们交战;依靠自己的力量与威势,我对你绝不说谎。
5.146.19
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् ।
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥ ५.१४६.१९ ॥
我守护仁慈与善人应有的品行,因此今日不会照你的话去做,尽管它或许有益。
5.146.20
न च तेऽयं समारम्भो मयि मोघो भविष्यति ।
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ॥ ५.१४६.२० ॥
你为我所做的努力不会白费。即便我在战场上击败了应当被杀的你的儿子们,我也不会杀他们。
5.146.21
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ।
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले ॥ ५.१४६.२१ ॥
除阿周那之外,我与坚战、怖军及双生子交战;在坚战的军队中,我将与阿周那同等作战。
5.146.22
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया ।
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥ ५.१४६.२२ ॥
若在战斗中杀了阿周那,我便能获得果报,并与荣誉相连;或者我被善用左手的阿周那所杀,也与荣誉相连。
5.146.23
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥ ५.१४६.२३ ॥
光荣的女士啊,你的五个儿子绝不会灭亡——无论没有阿周那,与迦尔纳同在,还是与阿周那同在,在我被杀之时。
5.146.24
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेषती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम् ॥ ५.१४६.२४ ॥
听了迦尔纳的这番话,贡蒂因悲痛而颤抖,拥抱儿子迦尔纳,以坚定不移的意志说道。
5.146.25
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥ ५.१४६.२५ ॥
事情必如此:考拉婆们将因此而灭亡,正如你所说,迦尔纳啊,因为命运远比人力更强大。
5.146.26
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ॥ ५.१४६.२६ ॥
征服敌人的女子啊,你已赐予我四位兄弟无畏;请确认那关于免于战斗的承诺。
5.146.27
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥ ५.१४६.२७ ॥
普利塔对迦尔纳说:“愿平安吉祥。”迦尔纳欢喜地回答了她,之后两人便各自分开离去。