摩诃婆罗多 · 章 5.147
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.147.1
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः ।
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥ ५.१४७.१ ॥
克舍婆(黑天)从象城来到优波罗婆耶,这位降伏敌人者将般度子孙所经历的一切如实告知。
5.147.2
संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः ।
स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह ॥ ५.१४७.२ ॥
长时间交谈、反复商议之后,修利(黑天)回到自己的住所休息。
5.147.3
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा ।
पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति ॥ ५.१४७.३ ॥
遣散以毗罗吒为首的诸王之后,太阳落山时,般度的五位兄弟……
5.147.4
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः ।
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥ ५.१४७.४ ॥
行了晡时礼拜,心念全在他身上,便请来达舍尔诃族的黑天,再次商议。
5.147.5
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥ ५.१४७.५ ॥
莲花眼者啊!你前往象城,在朝堂上对持国之子说了什么?请你告诉我们。
5.147.6
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः । ॥ ५.१४७.६ ॥
我前往象城,在朝堂上对持国之子说了真实、有益、有利的话,但那个恶意之人却不接受。
5.147.7
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः ।
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ॥ ५.१४७.७ ॥
哈瑞希凯莎啊!当他误入歧途时,库鲁长者祖父对不容忍的难敌说了什么?
5.147.8
आचार्यो वा महाभाग भारद्वाजः किमब्रवीत् ।
पितरौ धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत् ॥ ५.१४७.८ ॥
大福者啊!师尊婆罗堕阇(德罗纳)说了什么?或者他的父母持国与甘陀利对他说了什么?
5.147.9
पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः ।
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ॥ ५.१४७.९ ॥
我们父亲的幼弟、知法者中最优秀的刹多(毗杜罗),因丧子之痛而煎熬,对持国之子说了什么?
5.147.10
किंच सर्वे नृपतयः सभायां ये समासते ।
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥ ५.१४७.१० ॥
坐在会场中的所有国王,如实地说了什么?遮那陀那啊,请你告诉我。
5.147.11
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः ।
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि ॥ ५.१४७.११ ॥
你确实讲述了两位库鲁首领的所有言辞,以及库鲁会议上持国之子和他们的言辞。
5.147.12
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ।
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ॥ ५.१४७.१२ ॥
被欲望与贪婪所支配,愚蠢却自以为聪明的人,他那些令人不快的话,在我心中停留不住,啊,羯舍婆!
5.147.13
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ।
यथा च नाभिपद्येत कालस्तात तथा कुरु।
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ॥ ५.१४७.१३ ॥
哦,戈文达,哦,全能者,我想听听他们的话。亲爱的,请这样行事,使时机不至于对我们不利。克里希那,你是我们的归宿,是我们的主宰与导师。
5.147.14
श्रृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः ।
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ॥ ५.१४७.१४ ॥
哦,国王,请听:请从我这里了解在众俱卢人之中的集会上对国王苏尤陀那所说的话。
5.147.15
मया विश्राविते वाक्ये जहास धृतराष्ट्रजः ।
अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ ५.१४७.१५ ॥
我宣告那些话时,持国之子笑了。于是毗湿摩大怒,说出了这番话。
5.147.16
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते ।
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥ ५.१४७.१६ ॥
杜尤陀那,请听我为家族所说的话。王中之虎,听了之后,就为你自己的家族谋求福祉吧。
5.147.17
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः ।
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥ ५.१४७.१७ ॥
我的父亲,国王,是享誉世间的山塔努。我是他唯一的儿子,是有子之人中最好的。
5.147.18
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः ।
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥ ५.१४७.१८ ॥
他心中生起一个念头:怎样才能再有第二个儿子呢?智者们说,只有一个儿子的人,实际上等于没有儿子。
5.147.19
न चोच्छेदं कुलं यायाद्विस्तीर्येच्च कथं यशः ।
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥ ५.१४७.१९ ॥
为使家族不致断绝、名声得以传扬——知其心愿,我便请来了母亲迦利。
5.147.20
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च ।
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव।
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥ ५.१४७.२० ॥
为父亲与家族立下艰难的誓愿,不为王,守持梵行——正如您所熟知——他名声远扬,恪守誓言而居。
5.147.21
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः ।
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिव ॥ ५.१४७.२१ ॥
她生下了大臂、光荣的库鲁族支柱、心地正直的毗基多罗耶——我的幼弟,啊,国王。
5.147.22
स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम् ।
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ॥ ५.१४७.२२ ॥
父亲升天之后,我使他在自己的国土上即位——国王毗基多罗耶,我成为他的仆人,居于其下。
5.147.23
तस्याहं सदृशान्दारान्राजेन्द्र समुपाहरम् ।
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ॥ ५.१४७.२३ ॥
啊,诸王之主,为他我迎来了相配的妻子,击败了一群国王——这您也曾多次听闻。
5.147.24
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् ।
स हि रामभयादेभिर्नागरैर्विप्रवासितः ॥ ५.१४७.२४ ॥
随后在战场上,我与罗摩进行了单独的决斗。因惧怕罗摩,他已被这些城中居民放逐。
5.147.25
दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत ।
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः ।
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥ ५.१४७.२५ ॥
他甚至过度沉溺于妻室,染上了肺痨。当无王之国中,诸神之主(因陀罗)不降雨时,饥饿与恐惧所困的百姓便奔向我而来。
5.147.26
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः ।
ईतीः प्रणुद भद्रं शन्तनोः कुलवर्धन ॥ ५.१४७.२६ ॥
所有百姓都已憔悴。请为了我们的福祉而为王吧。啊,增益珊塔努家族者,驱除灾难吧;愿珊塔努吉祥。
5.147.27
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः ।
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥ ५.१४७.२७ ॥
你所有的百姓都饱受极其可怕的疾病折磨。啊,恒河之子,所剩无几;你应当救护他们。
5.147.28
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय ।
त्वयि जिवती मा राष्ट्रं विनाशमुपगच्छतु ॥ ५.१४७.२८ ॥
啊,英雄,驱除疾病,依法护佑百姓吧。只要你还活着,愿国家不致走向毁灭。
5.147.29
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः ।
प्रतिज्ञां रक्षमाणस्य तद्वृत्तं स्मरतस्तथा ।
ततः पौरा महाराज माता काली च मे शुभा ॥ ५.१४७.२९ ॥
百姓哭喊,我的心却不曾动摇;我守护着誓言,并记着那样的行为。于是,大王啊,城中百姓与我吉祥的母亲迦利(也开始恳求我)。
5.147.30
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः ।
मामूचुर्भृशसंतप्ता भव राजेति सन्ततम् ॥ ५.१४७.३० ॥
仆从、家中祭司与导师,以及博学的婆罗门,深感忧伤,不断地对我说:“请为王吧。”
5.147.31
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति ।
स त्वमस्मद्धितार्थं वै राजा भव महामते ॥ ५.१४७.३१ ॥
此国由般杜守护,若不得你,必将灭亡。故大智者啊,为了我们的福祉,你应当为王。
5.147.32
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः ।
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगोरवात् ॥ ५.१४७.३२ ॥
被如此劝说,我合掌,极度悲伤焦虑,出于对父亲的敬重,便在那里向他们宣布了我的誓言。
5.147.33
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ।
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ॥ ५.१४७.३३ ॥
我是守持梵行、不为王者之人;然而为了家族,一再地,尤其为了你,不要再把我套上重担。
5.147.34
ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम् ।
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ॥ ५.१४७.३४ ॥
于是我合掌安抚母亲:「母亲,我是从檀努所生,承担着俱卢家族之重。」
5.147.35
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ।
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम् ॥ ५.१४७.३५ ॥
大王啊,不是说我要一再使我的誓言成为虚假;尤其是为了你,我才发下了这个誓言。
5.147.36
अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले ।
एवं तामनुनीयाहं मातरं जनसन्निधौ ॥ ५.१४७.३६ ॥
今天我是你的仆役与奴隶,慈爱儿子的母亲啊。就这样,在众人面前,我安抚了母亲。
5.147.37
अयाचं भ्रतृदारेषु तदा व्यासं महामुनिम् ।
सह मात्रा महाराज प्रसाद्य तमृषिं महामुनिम् । ॥ ५.१४७.३७ ॥
大王啊,那时我与母亲一同使那位大仙人欢喜后,便为兄长的妻子们向大仙人毗耶娑请求。
5.147.38
अपत्यार्थं महाराज प्रसादं कृतवांश्च सः ।
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ॥ ५.१४७.३८ ॥
大王啊,他为了子嗣而施以恩惠,于是,婆罗多中最优秀者啊,他生下了三个儿子。
5.147.39
अन्धः करणहीनत्वान्न वै राजा पिता तव ।
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ॥ ५.१४७.३९ ॥
因为他双目失明,你的父亲未能成为国王;而声名远播、心胸宽广的般度却成了国王。
5.147.40
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः ।
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥ ५.१४७.४० ॥
那位国王及其子孙是父亲遗产的继承者;孩子啊,不要起争端;应当将王国的一半交给他们。
5.147.41
मयि जीवति राज्यं कः संप्रशासेत्पुमानिह ।
मावमंस्या वचो मह्यं शममिच्छामि वः सदा ॥ ५.१४७.४१ ॥
只要我还活着,这里谁能统治这个王国?不要轻视我的话;我总是希望你们和平。
5.147.42
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च षार्थिव ।
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ॥ ५.१४७.४२ ॥
孩子啊,对我而言,你与他们并无分别,国王啊。这是你父亲的看法,对你而言,甘陀利与维杜罗的看法也是如此。
5.147.43
श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम ।
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ॥ ५.१४७.४३ ॥
长者的话务必要听;不要怀疑我的话。否则你将毁灭一切,包括你自己和大地。