摩诃婆罗多 · 章 5.148
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.148.1
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥ ५.१४८.१ ॥
毗湿摩说完之后,善于言辞的德罗纳在众王之中对难敌说道:愿你吉祥。这些话。
5.148.2
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथा स्थितः ।
यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥ ५.१४८.२ ॥
普拉提帕之子檀多努为家族之利而坚定,正如天授(提婆婆多)毗湿摩为家族之利而坚定。
5.148.3
तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः ।
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहिताः ॥ ५.१४८.३ ॥
同样,般度是人主、守信、自制感官、库鲁之王、心怀正法、持守善誓、心志专一。
5.148.4
ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते ।
यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः । ॥ ५.१४८.४ ॥
增益库鲁家族的他把王国授予聪慧的长兄持国,同样也授予幼弟刹持罗。
5.148.5
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।
वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः ॥ ५.१४८.५ ॥
于是,大王啊,他把那位不朽者安置在狮子座上,俱卢王便与两位妻子一同走进了森林。
5.148.6
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् ।
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥ ५.१४८.६ ॥
维杜罗站在低处,谦恭地如仆役一般侍奉;那位人中虎挥动着牦牛尾拂尘。
5.148.7
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।
अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम् ॥ ५.१४८.७ ॥
于是,亲爱的,所有臣民依礼归顺了人主持国王,正如他们曾归顺人主般度。
5.148.8
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च ।
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ॥ ५.१४८.८ ॥
将王国交给持国与维杜罗之后,征服敌城的般度周游了整个大地。
5.148.9
कोशसंवनने दाने भृत्यानां चान्ववेक्षणे ।
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ॥ ५.१४८.९ ॥
在库藏管理、布施、监督仆从以及养育众人之事上,持守诺言的维杜罗皆尽其责。
5.148.10
सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः ।
अवैक्षत महातेजा भीष्मः परपुरञ्जयः ॥ ५.१४८.१० ॥
精通和战之事的大光明毗湿摩,征服敌城者,监督诸王的行军与往来之事。
5.148.11
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः ।
अन्वास्यमानः सततं विदुरेण महात्मना ॥ ५.१४८.११ ॥
坐在王座上的大力持国王,始终由大智的维杜罗侍奉。
5.148.12
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि ।
संभूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप ॥ ५.१४८.१२ ॥
你生于他的家族,怎么竟决意分裂家族?人主啊,与兄弟们合而为一,享受你的福乐吧。
5.148.13
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन ।
भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम ॥ ५.१४८.१३ ॥
我说这话不是出于怯懦,也不是为了任何财富。我想要的是毗湿摩所给予的,而非你所给予的,诸王中最优秀者啊。
5.148.14
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥ ५.१४८.१४ ॥
人主啊,我不会向你求取谋生的手段。从谁那里(得来)是毗湿摩,然后是德罗纳;毗湿摩所说的,你就照做。
5.148.15
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।
सममाचार्यकं तात तव तेषां च मे सदा ॥ ५.१४८.१५ ॥
请把王国的一半给予般度之子,征服敌人者啊。亲爱的,愿你、他们和我的师位始终平等。
5.148.16
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ ५.१४८.१६ ॥
阿濕婆摩那于我如何,白马(阿周那)于我也是如此。多作悲叹有何用?法在何处,胜利便在何处。
5.148.17
एवमुक्ते महाराज द्रोणेनामिततेजसा ।
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ।
पितुर्वदनमन्वीक्ष्य परिवृत्त्य च धर्मवित् ॥ ५.१४८.१७ ॥
大王啊,当无量光辉的德罗纳如此说完,诚守誓言、通晓法的维杜罗望着父亲的面容,转身说出了这番话。
5.148.18
देवव्रत निबोधेदं वचनं मम भाषतः ।
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥ ५.१४८.१८ ॥
提婆跋多啊,请理解我这番话。俱卢族已经败亡,是你使它重新振兴。
5.148.19
तन्मे विलपमानस्य वचनं समुपेक्षसे ।
कोयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥ ५.१४८.१९ ॥
因此你无视我悲叹的话语。这个家族中名为难敌的这个败类是谁?
5.148.20
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।
अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः ।
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥ ५.१४८.२० ॥
你听从那被贪婪所控制、不高尚、忘恩负义、心智被贪欲夺去之人的意见。他违背了洞察法与利益的父亲的教诲。
5.148.21
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै ।
यथा ते न प्रणश्येयुर्महाराज तथा कुरु ॥ ५.१४८.२१ ॥
这些俱卢确实因难敌的所作所为而走向灭亡。大王,请这样行事,使他们不致灭亡。
5.148.22
मां चैव धृतराष्ट्रं च पूर्वमेव महामते ।
चित्रकार इवालेख्यं कृत्वा स्थापितवानसि ॥ ५.१४८.२२ ॥
智者啊,你早已将我与持国王安置如同画师所绘之像。
5.148.23
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ।
नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम् ॥ ५.१४८.२३ ॥
如同生主创造众生又加以收回,你啊大臂者,见到家族毁灭,不要置之不理。
5.148.24
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ।
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥ ५.१४८.२४ ॥
如今毁灭已经临近,你的心智今日已然迷失。与我和持国王一同前往森林吧。
5.148.25
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ।
शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम् ॥ ५.१४८.२५ ॥
或者,将心存欺诈、极为邪恶的持国之子捆绑起来,立即治理这由般度子孙守护的王国。
5.148.26
प्रसीद राजशार्दूल विनाशो दृश्यते महान् ।
पाण्डवानां कुरूणां च राज्ञाममिततेजसाम् ॥ ५.१४८.२६ ॥
请息怒吧,王中之虎。般度子孙、俱卢族以及无限光辉的诸王,即将遭受巨大的毁灭。
5.148.27
विररामैवमुक्त्वा तु विदुरो दीनमानसः ।
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥ ५.१४८.२७ ॥
维杜罗说完这番话便沉默了。他心中悲伤,陷入沉思,一次又一次地长长叹息。
5.148.28
ततोऽस्य राज्ञः सुबलस्य पुत्री ।
धर्मार्थयुक्तं कुलनाशमीता।
दुर्योधनं पापमतिं नृशंसं ।
राज्ञां समक्षं सुतमाह कोपात् ॥ ५.१४८.२८ ॥
于是苏巴拉王之女因惧怕家族毁灭,在诸王面前愤怒地对心怀恶念、残忍的儿子难敌说了合于法与利的话。
5.148.29
ये पार्थिवा राजसभां प्रविष्टा ।
ब्रह्मर्षयो ये च सभासदोऽन्ये।
श्रृण्वन्तु वक्ष्यामि तवापराधं ।
पापस्य सामात्यपरिच्छदस्य ॥ ५.१४८.२९ ॥
请进入王庭的诸王、梵仙以及其他与会者听着:我将陈述你这恶人及其大臣与随从的罪过。
5.148.30
राज्यं कुरूणामनुरूपभोज्यं ।
क्रमागतो नः कुलधर्म एषः।
त्वं पापबुद्धेऽतिनृशंसकर्मन् ।
राज्यं कुरूणामनयाद्विहंसि ॥ ५.१४८.३० ॥
库鲁的王国本应由我们适当地享有,这是我们家族世代相传的法度。心怀恶念、行极残暴之事的你,正以不义夺取库鲁的王国。
5.148.31
राज्ये स्थितो धृतराष्ट्रो मनीषी ।
तस्यानुजो विदुरो दीर्घदर्शी ।
एतावतिक्रम्य कथं नृपत्वं ।
दुर्योधन प्रार्थयसेऽद्य मोहात् ॥ ५.१४८.३१ ॥
智者持国坐镇王国,其弟维杜罗目光深远。越过这二人,难陀你因迷惑而今日如何求取王位?
5.148.32
राजा च क्षत्ता च महानुभावौ ।
भीष्मे स्थिते परवन्तौ भवेताम् ।
अयं तु धर्मज्ञतया महात्मा ।
न राज्यकामो नृवरो नदीजः ॥ ५.१४८.३२ ॥
国王与管家皆有大威仪;有毗湿摩在场,他们便须听命于他人。然而此大德者因通达法义,并不贪求王国——人中之最,生于河中。
5.148.33
राज्य तु पाण्डोरिदमप्रधृष्यं ।
तस्याद्य पुत्राः प्रभवन्ति नान्ये।
राज्यं तदेतन्निखिलं पाण्डवानां ।
पैतामहं पुत्रपौत्रानुगामि ॥ ५.१४८.३३ ॥
然而此王国属于般度,不可侵犯。今日唯有他的诸子能够掌握,别人不能。那整个王国属于般度五子——祖传之业,随子孙相继。
5.148.34
यद्वै ब्रूते कुरुमुख्यो महात्मा ।
देवव्रतः सत्यसन्धो मनीषी ।
सर्वं तदस्माभिरहत्य कार्यं ।
राज्यं स्वधर्मान्परिपालयद्भिः ॥ ५.१४८.३४ ॥
大德提婆跋罗多——俱卢之首,守誓而有智慧者——所说的一切,我们都应当不违背地去做,守护王国,同时遵守各自的本分。
5.148.35
अनुज्ञया चाथ महाव्रतस्य ।
ब्रूयान्नृपोऽयं विदुरस्तथैव।
कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं ।
धर्मं पुरस्कृत्य सुदीर्घकालम् ॥ ५.१४८.३५ ॥
经大愿者允许,国王及此维杜罗也应同样言说。所应做之事,由善友来安排,以法为先,历时甚久。
5.148.36
न्यायागतं राज्यमिदं कुरूणां ।
युधिष्ठिरः शास्तु वै धर्मपुत्रः ।
प्रचोदितो धृतराष्ट्रेण राज्ञा ।
पुरस्कृतः शान्तनवेन चैव ॥ ५.१४८.३६ ॥
此俱卢之国合乎正道而来。愿法之子坚战统治之,既受国王持国所劝,又为檀努之子(毗湿摩)所推举。