摩诃婆罗多 · 章 5.149
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.149.1
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।
दुर्योधनमुवाचेदं राजमध्ये जनाधिप ॥ ५.१४९.१ ॥
甘陀丽如此说罢,人主持国王在诸王之中对难敌说道:人主啊。
5.149.2
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥ ५.१४९.२ ॥
难敌,听我将要对你说的话,我儿。愿你吉祥;若你对父亲有敬重,就照此去做。
5.149.3
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।
सोमाद्बभूव षष्ठोऽयं ययातिर्नहुषात्मजः ॥ ५.१४९.३ ॥
往昔,众生之主月神是俱卢族的繁衍者。自月神起第六代,生出了这位耶耶提,即那虎沙之子。
5.149.4
तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः ।
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥ ५.१४९.४ ॥
他生有五子,皆为王仙中之最胜者。其中大光明的耶度成为长子,且为主君。
5.149.5
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः ।
शर्मिष्ठया संप्रसूतो दुहित्रा वृषपर्वणः ॥ ५.१४९.५ ॥
其后生幼子普卢,他是我们家族的繁衍者,由阿修罗王毗首波婆之女舍弥湿陀所生。
5.149.6
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् ।
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥ ५.१४९.६ ॥
婆罗多族中最优秀的耶度,成为天欲之子;亲爱的,他是无量光明的仙人舍诃(迦婆)的外孙。
5.149.7
यादवानां कुलकरो बलवान्वीर्यसंमतः ।
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥ ५.१४९.७ ॥
他是Yādava族的开创者,强大且因勇武而受人尊敬,充满傲慢,智力低下,于是轻视刹帝利阶层。
5.149.8
न चातिष्ठत्पितुः शस्त्रि बलदर्पविमोहितः ।
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥ ५.१४९.८ ॥
他被自身力量的骄傲所迷惑,不听从父亲;因为无人能敌,他也轻慢了父亲和兄弟们。
5.149.9
पृथिव्यां चतुरन्तायां यदुदेवाभवद्बली ।
वशे कृत्वा स नृपतीन्न्यवसन्नागसाह्वये ॥ ५.१४९.९ ॥
在四海环绕的大地上,他成为了Yadu族强大的君主;降服诸王之后,他定居在名为Nāga-sāhvaya(象城,即Hāstinapura)的城中。
5.149.10
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।
शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत् ॥ ५.१४९.१० ॥
那huṣa之子Yayāti大怒,诅咒了那个儿子,并且,哦甘陀利,又将他从王位上罢黜。
5.149.11
ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः ।
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥ ५.१४९.११ ॥
愤怒的Yayāti也诅咒了那些跟随他、以力量自负的兄弟们,然后又诅咒了诸子。
5.149.12
यवीयांसं ततः पुरुं पुत्रं स्ववशवर्तिनम् ।
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥ ५.१४९.१२ ॥
于是这位最好的国王将听从自己的小儿子普鲁立为王国之主;他是恭顺的。
5.149.13
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।
यवीयांसोपि जायन्ते राज्यं वृद्धोपसेवया ॥ ५.१४९.१३ ॥
因此,即使长子骄傲自大,也不能获得王位;而幼子因侍奉长者,反而能够得到王国。
5.149.14
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥ ५.१४९.१४ ॥
同样,精通一切法的普拉提波,我父亲的祖父,大地的守护者,在三界中名声远扬。
5.149.15
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥ ५.१४९.१५ ॥
这位王中雄狮以法治国之时,生下三个如神般荣耀的儿子。
5.149.16
देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् ।
तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ॥ ५.१४९.१६ ॥
提婆毗是长子,最为优秀;之后是跋赫利迦;而第三个,亲爱的,是坚定的Śantanu,我的祖父。
5.149.17
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥ ५.१४९.१७ ॥
然而提婆毗光辉伟大,患有皮肤病,是最优秀的国王,正直、诚实,专心侍奉父亲。
5.149.18
पौरजानपदानां च संमतः साधुसत्कृतः ।
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ॥ ५.१४९.१८ ॥
受城乡百姓敬重,为善人所尊崇,无论老少,都珍爱提婆毗。
5.149.19
वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः ।
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥ ५.१४९.१९ ॥
他慷慨大度,信守诺言,专心于一切众生的福祉,遵循父亲的圣典以及婆罗门的教导行事。
5.149.20
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः ।
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥ ५.१४९.२० ॥
他是巴赫利迦所爱的兄弟,也是大德者的沙坦奴之子;那些共同生活的大德者之间,有至高的兄弟情谊。
5.149.21
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।
संभारानभिषेकार्थं कारयामास शास्त्रतः ॥ ५.१४९.२१ ॥
随后时光流转,年老的诸王之最依照圣典,备办了灌顶所需的物品。
5.149.22
कारयामास सर्वाणि मङ्गलार्थानि वै विभुः ।
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ॥ ५.१४९.२२ ॥
这位有力的国王备办了一切吉祥之物;随后,婆罗门与长者,连同城镇和乡村的民众,一同来到他面前。
5.149.23
सर्वे निवारयामासुर्देवापेरभिषेचनम् ।
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम्।
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥ ५.१४९.२३ ॥
众人都设法阻止德瓦毗的灌顶。国王听到灌顶被阻止的消息,哽咽落泪,为他的儿子悲叹。
5.149.24
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् ।
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥ ५.१४९.२४ ॥
如此,他慷慨,通晓法,信守诺言,并为民众所爱戴;然而却因皮肤病的过失而蒙受玷污。
5.149.25
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः ।
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥ ५.१४९.२५ ॥
“诸神不喜欢肢体残缺的国王。”如此考虑之后,最优秀的婆罗门们阻止了那位最优秀的国王。
5.149.26
ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः ।
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥ ५.१४९.२६ ॥
于是,他肢体因痛苦而颤抖,又因丧子之痛而心碎,便死去了。德瓦皮见他已死,便投奔森林。
5.149.27
बाह्लीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः ।
पितृभ्रातॄन्परित्यज्य प्राप्तवान्परमर्धिमत् ॥ ५.१४९.२७ ॥
巴赫利卡离开母舅一族,接受了王国;舍弃父亲与兄弟,他获得了至高的繁荣。
5.149.28
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः ।
पितर्युपरते राजन्राजा राज्यमकारयत् ॥ ५.१४९.२८ ॥
在巴赫利卡允许下,闻名于世的珊塔努,哦,国王,在父亲去世后成为国王,统治了王国。
5.149.29
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना ।
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥ ५.१४९.२९ ॥
同样,婆罗多之后啊,智慧的般度在此仔细考虑之后,因我肢体残缺,剥夺了身为长子的我的王位。
5.149.30
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम ॥ ५.१४९.३० ॥
般度虽是幼子,却获得了王国、成为国王;哦,降伏敌人者,这王国是为了他儿子们的毁灭而落到他手中的。
5.149.31
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ।
अराजपुत्रो ह्यस्वामी परस्वं हर्तुमिच्छसि ॥ ५.१४९.३१ ॥
你既无我的份额,怎敢想要王国?你既非王子,又非主人,却想夺取他人的财产。
5.149.32
युधिष्ठिरो राजपुत्रो महात्मा ।
न्यायागतं राज्यमिदं च तस्य।
स कौरवस्यास्य कुलस्य भर्ता ।
प्रशासिता चैव महानुभावः ॥ ५.१४९.३२ ॥
坚战是王子,是大德之人。这王国是他依正法所得。他是这考罗婆家族的守护者,也是威力广大的统治者。
5.149.33
स सत्यसन्धः स तथाऽप्रमत्तः ।
शास्त्रे स्थितो बन्धुजनस्य साधुः।
प्रियः प्रजानां सुहृदानुकम्पी ।
जितेन्द्रियः साधुजनस्य भर्ता ॥ ५.१४९.३३ ॥
他坚守诚信,谨慎警觉,安住于经典,对亲族善良。他为民众所爱,对朋友怀有善意,慈悲,克制诸根,是善人的守护者。
5.149.34
क्षमा तितिक्षा दम आर्जवं च ।
सत्यव्रतत्वं श्रुतमप्रमादः ।
भूतानुकम्पा ह्यनुशासनं च ।
युधिष्ठिरे राजगुणाः समस्ताः ॥ ५.१४९.३४ ॥
忍耐、坚韧、克制、正直、守持真实的誓愿、博学、警觉、对众生的慈悲与纪律——这一切王者之德,坚战都具备。
5.149.35
अराजपुत्रस्त्वमनार्यवृत्तो ।
लुब्धः सदा बन्धुषु पापबुद्धिः ।
क्रमागतं राज्यमिदं परेषां ।
हर्तुं कथं शक्ष्यसि दुर्विनीत ॥ ५.१४९.३५ ॥
你非王子,行为卑劣,总是贪婪,对亲族心怀恶意。这王国是世代相传给他人的,你这无礼之徒,怎能夺取?
5.149.36
प्रयच्छ राज्यार्धमपेतमोहः ।
सवाहनं त्व सपरिच्छदं च ।
ततोऽवशेषं तव जीवितस्य ।
सहानुजस्यैव भवेन्नरेन्द्र ॥ ५.१४९.३६ ॥
人主啊,去除迷惑,将半个王国连同车驾和随从交还。这样,你余生才能与你的弟弟们一同安然无恙。