Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.15.1

एवमुक्तः स भगवाञ्शच्या तां पुनरब्रवीत् ।
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥ ५.१५.१ ॥

被如此称呼后,那位世尊(因陀罗)再次对舍琪说:“现在不是逞勇的时候,那罗沙极其强大。”

5.15.2

विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि ।
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥ ५.१५.२ ॥

他由诸仙以供奉诸神与祖先的祭品所养育。光彩照人的女子啊,我将在此谋划一个办法;女神啊,你应当去做。

5.15.3

गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् ।
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे ॥ ५.१५.३ ॥

此事你须秘密去做,切勿向任何人透露。吉祥的细腰女子啊,单独去见那罗沙,向他说明。

5.15.4

ऋषियानेन दिव्येन मामुपैहि जगत्पते ।
एवं तव वशे प्रीता भविष्यामीति तं वद ॥ ५.१५.४ ॥

“世界之主啊,请乘仙人的神车来到我这里。这样我便会欢喜,归于你的掌控。”你就对他这样说。

5.15.5

इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा ।
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥ ५.१५.५ ॥

众神之王如此吩咐后,那位莲花眼的妻子说:“就这样吧。”于是前往那罗沙处。

5.15.6

नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत् ।
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥ ५.१५.६ ॥

那罗沙见到她,微笑着说:“欢迎你,美臀的女子。纯洁微笑的人啊,我该做什么?”

5.15.7

भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि ।
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ॥ ५.१५.७ ॥

吉祥的女子啊,接纳你的信徒我吧。心志高远的女子啊,你想要什么?吉祥的、腰身纤细的女子啊,凡是你的所求,我都会去做。

5.15.8

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः ।
सत्येन वै पशे देवि करिष्ये वचनं तव ॥ ५.१५.८ ॥

身段美好的女子啊,你不必害羞,要信任我。女神啊,我以真实发誓,必将遵从你的话。

5.15.9

यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते ।
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिम ॥ ५.१५.९ ॥

世界之主啊,我期待你为我所定的时日。那时你便会成为我的丈夫,诸神之主啊。

5.15.10

कार्यं च हृदि मे यत्तद्देवराजावधारय ।
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ॥ ५.१५.१० ॥

诸神之王啊,请体察我心中所想之事。国王啊,如果你为我做这件心爱之事,我便会说出来。

5.15.11

वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव ।
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ॥ ५.१५.११ ॥

听到这充满爱意的话语后,我便会顺从于你:还有因陀罗的马匹、车驾、象和战车。

5.15.12

इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप ।
यन्न विष्णोर्न रुद्रस्य न सुराणां न रक्षसाम् ॥ ५.१५.१२ ॥

诸神之主啊,我想向你求得一辆前所未有的车驾,它不属于毗湿奴,不属于楼陀罗,不属于诸天,也不属于罗刹。

5.15.13

वहन्तु त्वां महाभागा ऋषयः सङ्गता विभो ।
सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥ ५.१५.१३ ॥

啊,威力无边者,愿所有大福的仙人聚集起来,用轿子抬着你;啊,国王,这正合我意。

5.15.14

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात् ॥ ५.१५.१४ ॥

你既不配与阿修罗中的任何人相等,也不配与诸天中的任何人相等;凭你自己的威力,仅凭一瞥,你便夺取了众人的光辉。

5.15.15

न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान् ।
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल।
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥ ५.१५.१५ ॥

没有哪个勇士能站在你面前。听了这话,那时那呼沙果真欢喜,众神之王也对那位无瑕的女子说了这些话。

5.15.16

अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि ।
दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने ॥ ५.१५.१६ ॥

啊,肤色美好的女子,你所说的这种前所未有的坐骑,令我十分满意,女神啊;我愿听从你的驱使,啊,容颜美丽的人。

5.15.17

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥ ५.१५.१७ ॥

让仙人做自己的抬夫的人,确实并非力量微弱。我是苦行者,强大,是过去、未来与现在众生的主宰。

5.15.18

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् ।
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः ॥ ५.१५.१८ ॥

若我愤怒,世界便不复存在,因为一切都安立于我之中:诸天、达那婆、乾闼婆、紧那罗、大蛇与罗刹。

5.15.19

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते ।
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥ ५.१५.१९ ॥

纯净微笑的女子啊,对于盛怒的我,一切世界都不够。我以眼睛所看之人,便夺其光辉。

5.15.20

अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः ।
मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः ।
तस्मात्ते वचनं देवि करिष्यामि न संशयः ॥ ५.१५.२० ॥

我是因陀罗,乃诸神与诸世界的大主宰。祭品(哈维亚)、祖先供品(卡维亚)与永恒的世界皆在我之中。因此,女神啊,我将遵从你的话,此无疑问。

5.15.21

सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ।
पश्य माहात्म्ययोगं मे ऋद्धिं च वरवर्णिनि ॥ ५.१५.२१ ॥

七仙人与一切梵仙都将称我为(他们的主)。女子啊,请看我威德的聚合与我的富盛。

5.15.22

एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् ।
अथ संचिन्त्य नहुषो बलवीर्येण भारत ॥ ५.१५.२२ ॥

如此对那位女神说完,并送走那位面容美好者之后,婆罗多啊,那诃沙思量着自己的力量与勇气。

5.15.23

विसृज्य सुप्रतीकं च नागमैरावतं तथा ।
हंसयुक्तं विमानं च हरियुक्तं तथा रथम् ॥ ५.१५.२३ ॥

放弃了象Supratīka与龙象Airāvata,也放弃了以天鹅驾驭的天车和以骏马驾驭的战车……

5.15.24

स तु दर्पेण महता परिभूय महामुनीन् ।
विमाने योजयित्वा च ऋषीन्नियमामास्थितान् ॥ ५.१५.२४ ॥

然而他以极大的傲慢轻慢众大仙,将安住于戒律的仙人套于天车之上……

5.15.25

अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च ।
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥ ५.१५.२५ ॥

他敌视婆罗门,强大,因傲慢与自身的骄力而狂醉,那个心术邪恶、随欲而行的人,让那些仙人替他驾车。

5.15.26

नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत् ।
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ॥ ५.१५.२६ ॥

被那呼沙派来的她对布利哈斯帕蒂说:与那呼沙约定的、留在此地的我的期限,所剩已经不多了。

5.15.27

शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ।
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ॥ ५.१५.२७ ॥

快去寻找因陀罗,请怜悯你的信徒我。尊贵的布利哈斯帕蒂只说了一声“好”,回答了她。

5.15.28

न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ।
न ह्येष स्थास्यति चिरं गत एष नराधमः ॥ ५.१५.२८ ॥

女神啊,你不必畏惧心术邪恶的那呼沙;这个人中的败类不会长久存在,他已经离去了。

5.15.29

अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ।
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ॥ ५.१५.२९ ॥

吉祥的女子啊,不知法者因使大仙人充当他的车乘而被打倒;我将为了毁灭这个恶念之人而行祭祀。

5.15.30

शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते ।
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ॥ ५.१५.३० ॥

我将重新找回因陀罗;你不要害怕,愿你吉祥。于是他依仪轨点燃火焰,献上了最上的供物。

5.15.31

बृहस्पतिर्महातेजा देवराजोपलब्धये ।
हुत्वाऽग्निं सोब्रवीद्राजञ्छक्र अन्विष्यतामिति ॥ ५.१५.३१ ॥

光辉伟大的木星仙人为了寻回众神之王因陀罗而向火中献祭后说:"国王啊,应当寻找因陀罗。"

5.15.32

तस्माच्च भगवान्देवः स्वयमेव हुताशनः ।
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत ॥ ५.१५.३२ ॥

于是尊贵的火神阿耆尼亲自化作奇妙的女子之形,就在那里隐没了。

5.15.33

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च ।
पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः।
निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥ ५.१५.३३ ॥

他搜遍四方与四隅、山岳、森林、大地与天空,以意念般的速度,在眨眼之间来到了木星仙人身边。

5.15.34

बृहस्पते न पश्यामि देवराजमिह क्वचित् ।
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ॥ ५.१५.३४ ॥

啊,木星仙人,我在此处任何地方都看不见众神之王。剩余的水域始终都在,而我不敢进入水中。

5.15.35

न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते ।
तमब्रवीद्देवगुरुरपो विश महाद्युते ॥ ५.१५.३५ ॥

婆罗门啊,我在那里没有去路。我还能为你做什么呢?于是众神的导师对他说:"啊,大光明者,进入水中吧。"

5.15.36

नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति ।
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते ॥ ५.१५.३६ ॥

我无法进入水中,那将导致我的毁灭。我已投奔你的庇护。啊,大光明者,愿你平安吉祥。

5.15.37

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ५.१५.३७ ॥

火生于水,刹帝利之力生于婆罗门,铁生于石。它们遍布一切的光辉,便回归于各自的本源而平息。