Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.150

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.150.1

एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च ।
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत ॥ ५.१५०.१ ॥

当毗湿摩、德罗纳、维杜罗如此说,甘陀利与持国王也如此说时,那愚人并未领会。

5.150.2

अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः ।
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥ ५.१५०.२ ॥

那愚人弃之不顾,怒目通红地起身;舍弃性命的诸王便追随其后。

5.150.3

आज्ञापयच्च राज्ञस्तान्पार्थिवान्नष्टचेतसः ।
प्रयात वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥ ५.१५०.३ ॥

他又一再命令那些心智迷乱的君王:“今日乃补沙星宿,速往俱卢之野。”

5.150.4

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः ।
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥ ५.१५०.४ ॥

于是那些受时运驱使、欢喜的大地之主,与其部众一同启程,推举毗湿摩为统帅。

5.150.5

अक्षौहिण्यो दशैका च कौरवाणां समागताः ।
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ॥ ५.१५०.५ ॥

俱卢族的十一支阿刹婆诃尼大军集结,其前方,以棕榈旗为标识的毗湿摩光耀夺目。

5.150.6

यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशांपते ।
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च ॥ ५.१५०.६ ॥

人主啊!此事中何者适宜、何者可得,便请照办——即毗湿摩、德罗纳与维杜罗所说之言。

5.150.7

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ ५.१५०.७ ॥

婆罗多啊,在甘陀利和持国面前,王啊,我已把库卢集会中所发生的一切告诉了你。

5.150.8

साम चादौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता ।
अभेदायास्य वंशस्य प्रजानां च विवृद्धये ॥ ५.१५०.८ ॥

王啊,我渴望兄弟和睦,首先采用了和解之道,使此家族不致分裂,臣民得以繁荣。

5.150.9

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते ।
कर्मानुकीर्तनं चैव देवमानुपसंहितम् ॥ ५.१५०.९ ॥

当和解不被接受时,离间对我又变得适宜,还有讲述与神与人相关的事迹。

5.150.10

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः ।
तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥ ५.१५०.१० ॥

当苏尤达那不理会先前和解之言时,我便召集所有国王,使他们离心分裂。

5.150.11

अद्भुतानि च घोराणि दारुणानि च भारत ।
अमानुषाणि कर्माणि दर्शितानि मया विभो ॥ ५.१५०.११ ॥

婆罗多啊,威力广大者啊,我展示了奇异、可怖、骇人及非人所能的神迹。

5.150.12

निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् ।
राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥ ५.१५०.१२ ॥

斥责那些国王,视苏尤达那如草芥,并一再恐吓罗陀之子迦尔纳与苏跋罗之子沙恭尼。

5.150.13

द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः ।
भेदयित्वा नृपास्नर्वान्वाग्भिर्मन्त्रेम चासकृत् ॥ ५.१५०.१३ ॥

因赌博而反复谴责持国之子,又在诸王与阿斯纳尔瓦人之间挑起分裂,以言辞与谋略屡次行之。

5.150.14

पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम् ।
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ॥ ५.१५०.१४ ॥

随后我再次提出融合调解之意的建议,为了库鲁族的不分裂,也因此事的进行。

5.150.15

ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च ।
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥ ५.१५०.१५ ॥

愿那些英勇的般度之子全都置于持国、毗湿摩与毗杜罗之下,舍弃骄傲,谦卑度日。

5.150.16

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च ।
यथाह राजा गाङ्गेयो विदुरश्च हितं तव ॥ ५.१५०.१६ ॥

愿他们交出王国而变得无权,正如国王恒河之子(毗湿摩)与毗杜罗为你的利益所说。

5.150.17

सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय ।
अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥ ५.१५०.१७ ॥

愿你的整个王国保全;请让出五个村庄。王中之最,你父亲的(诸子)必须得到供养。

5.150.18

एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत ।
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥ ५.१५०.१८ ॥

虽已如此劝告,那恶念之人仍一分也不肯让出。我看到那些罪人将受第四种惩罚,别无他途。

5.150.19

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ ५.१५०.१९ ॥

诸王为毁灭而前往俱卢之野。大王,这就是在俱卢议会中所发生之事,已为你叙述。

5.150.20

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव ।
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥ ५.१५०.२० ॥

般度之子啊,若不经战争,他们不会把王国交给你。他们都是毁灭的根源,死亡已经临近他们了。