Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.151

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.151.1

जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥ ५.१५१.१ ॥

闻听遮那陀那之言,法王坚战以正直之心,在克舍婆面前对诸弟说道。

5.151.2

श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि ।
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥ ५.१५१.२ ॥

你们都听闻了库鲁议会中所发生的事,克舍婆之言也都已被牢记定夺。

5.151.3

तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः ।
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै ॥ ५.१५१.३ ॥

因此,人中俊杰们,请为我划分军队;这七支阿克萧匈尼军团已为胜利而聚集。

5.151.4

तासां ये पतयः सप्त विख्यातास्तान्निबोधत ।
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥ ५.१५१.४ ॥

请听这些军队中七位著名的统帅:德鲁帕达、毗罗吒、猛光与尸根迪。

5.151.5

सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् ।
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥ ५.१५१.५ ॥

萨提亚基、埃基塔纳与勇猛的毗摩娑那——这些是军队的统帅;他们都是英雄,甘愿舍身。

5.151.6

सर्वे वेदविदः शूराः सर्वे सुचिरितव्रताः ।
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ ५.१५१.६ ॥

他们皆通晓吠陀,皆为英雄,持守誓愿精严,知羞耻,明于政事,且都精通战阵。

5.151.7

इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः ।
सप्तानामपि यो नेता सेनानां प्रविभागवित् ॥ ५.१५१.७ ॥

所有人都精通箭术与兵器,皆善使一切兵器;还有那位统率七军、熟知其编组的人。

5.151.8

यः सहेत रणे भीष्णं शरार्चिःपावकोपमम् ।
तं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन।
स्वगतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥ ५.१५१.८ ॥

请在此说出,库鲁之喜,谁能在战场上承受如箭焰之火般的毗湿摩。人中之虎啊,你暗自说出谁配做我们的统帅。

5.151.9

संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः ।
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥ ५.१५१.९ ॥

与我们同受一份悲苦、有力且为地上之主的那人,我们依靠这位知法者,将自己的一份投入他身上。

5.151.10

मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः ।
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥ ५.१५१.१० ॥

摩差之王毗罗吒,有力、精通兵器、好战而骄勇,他将在战斗中抵挡毗湿摩以及那些大车战士。

5.151.11

तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः ।
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥ ५.१५१.११ ॥

sahadeva如此说完之后,善于言辞的那库拉随即开口说出了这番话。

5.151.12

वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च ।
ह्रीमान्बलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥ ५.१५१.१२ ॥

以年岁、以学问、以坚毅、以家族与高贵出身:知羞耻,有力量,光彩照人,精通一切学问。

5.151.13

वेद चास्त्रं भारद्वाजाहुर्धर्षः सत्यसङ्गरः ।
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥ ५.१५१.१३ ॥

他通晓兵器之学;人们说他是婆罗堕遮(德罗纳)的弟子。他勇敢而信守誓言,常常与德罗纳和大力的毗湿摩相互竞争。

5.151.14

श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः ।
पुत्रपौत्रेः परिवृतः शतशाख इव द्रुमः ॥ ५.१५१.१४ ॥

他是王族中的首位,值得称赞,是军队的统帅,被子孙环绕,如同百枝之树。

5.151.15

यस्तताप तपो घोरं सदारः पृथिवीपतिः ।
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥ ५.१५१.१५ ॥

那位地上之主与妻子一同行了可怕的苦行,因愤怒而为了毁灭德罗纳;那位英雄在战场上光彩夺目。

5.151.16

पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः ।
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु ॥ ५.१५१.१६ ॥

愿我们的岳父德鲁波陀——诸王之首,他总如父亲般照顾我们——统领军队的前锋。

5.151.17

स द्रोणभीष्मावायातौ सहेदिति मतिर्मम ।
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥ ५.१५१.१७ ॥

我的意见是:当德罗纳和毗湿摩来到时,他应当抵挡他们。那位国王通晓神圣的兵器,是安吉罗斯一族的朋友。

5.151.18

माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः ।
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥ ५.१५१.१८ ॥

玛德丽的两个儿子这样说完后,俱卢族的欢乐者、与因陀罗相等的因陀罗之子萨维亚萨钦(阿周那)依自己的意见说出了这些话。

5.151.19

योयं तपःप्रभावेन ऋषिसन्तोषणेन च ।
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः ॥ ५.१५१.१९ ॥

这位由苦行之力、并使诸仙欢喜而生的神圣之人,火焰般的颜色,臂膀强大,

5.151.20

धनुष्मान्कवची खङ्गी रथमारुह्य दंशितः ।
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥ ५.१५१.२० ॥

手持弓、披甲、佩剑,登上以殊胜神马拉动的战车,从火坑中升起。

5.151.21

गर्जन्निव महामेघो रथघोषेण वीर्यवान् ।
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः ॥ ५.१५१.२१ ॥

如大云般随战车轰鸣而吼叫,勇猛有力,体格如狮,英雄,威武如狮,

5.151.22

सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः ।
सिंहप्रगर्जनो वीरः संहस्कन्धो महाद्युतिः ॥ ५.१५१.२२ ॥

胸如狮,臂如狮,胸膛如狮,大力,吼声如狮,英雄,肩膀坚实,大有光辉。

5.151.23

शुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः ।
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ ५.१५१.२३ ॥

眉目秀美,牙齿俊美,下颌俊美,手臂俊美,面容俊美,不瘦弱而强健,锁骨俊美,双眼极大,双足俊美,站立稳固,

5.151.24

अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः ।
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥ ५.१५१.२४ ॥

刀兵不能伤,如发情之象,为毁灭德罗纳而生,诚实守信,克制诸根。

5.151.25

धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् ।
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥ ५.१५१.२५ ॥

我认为,只有德律什塔延母能承受毗湿摩的箭矢。这些箭触之如雷电,又如口中喷火的毒蛇。

5.151.26

यमदूतसमान्वेगे निपाते पावकोपमान् ।
रामेणाजौ विषिहितान्वज्रनिष्पेषदारुणान् ॥ ५.१५१.२६ ॥

疾速如阎摩的使者,坠落如火,可怖如雷霆的轰鸣,是罗摩在战场上射出的箭。

5.151.27

पुरुष तं न पश्यामि यः सहेत महाव्रतम् ।
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥ ५.१५१.२७ ॥

大王啊,除了德律什塔延母,我看不到还有谁能承受那大誓。我的心意就是如此决定的。

5.151.28

क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम ।
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥ ५.१५१.२८ ॥

手法敏捷、善于多种战术、铠甲坚不可摧、光辉赫赫的人——我认为他便是我的统帅,犹如象群之首的大象。

5.151.29

अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे ।
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः ।
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥ ५.१५१.२९ ॥

阿周那如此说后,怖军接受了这番话。大王啊,德鲁波陀之子湿乾底生来就是为了杀死毗湿摩的——聚集在那里的悉陀和仙人如此说道。

5.151.30

यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः ।
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥ ५.१५१.३० ॥

在战阵之中施放神圣武器之时,人们将看到他的形象,正如人们曾见到大德罗摩的形象一般。

5.151.31

न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनाम् ।
शस्त्रेण समरे राजन्सन्नद्वं स्यन्दने स्थितम् ॥ ५.१५१.३१ ॥

大王,我在战场上看不到有谁能用兵器击杀站在战车上、披甲的湿科迪婆。

5.151.32

द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम् ।
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥ ५.१५१.३२ ॥

在单挑中,除了湿科迪婆,没有别人能杀死持大誓的毗湿摩;我认为那位英雄应当做我的统帅。

5.151.33

सर्वस्य जगतस्तात सारासारं बालाबलम् ।
सर्वं जानाति धर्मात्मा मतमेषां च केशवः ॥ ५.१५१.३३ ॥

亲爱的,世间的精华与糟粕、强与弱,一切都由法魂的克沙婆知晓;他们的意见,他也知道。

5.151.34

यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम ।
कृतास्त्रोप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥ ५.१५१.३४ ॥

达沙尔诃之克里希那所点名的人,就让他做我的统帅,无论他是否通晓武艺,是年老还是年轻。

5.151.35

एष नो विजये मूलमेष तात विपर्यये ।
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥ ५.१५१.३५ ॥

这是我们胜利的根本,亲爱的,也是失败的根本;生命与王国、存在与不存在、幸福与不幸,都系于此。

5.151.36

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता ।
यमाह कृष्णो दाशार्हः सोस्तु नो वाहिनीपतिः ॥ ५.१५१.३६ ॥

此人是创造者与安排者,成功在此确立;达沙尔诃之克里希那所点名的人,就让他做我们的统帅。

5.151.37

ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते ।
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः ॥ ५.१५१.३७ ॥

愿言辞之最善者发言;夜将尽矣。于是,以顺从克里希那意志者之一为统帅,

5.151.38

रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ।
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥ ५.१५१.३८ ॥

待夜之余时过去,我们便将前往战场,兵器已加持,吉祥之礼已行。

5.151.39

तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः ।
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥ ५.१५१.३९ ॥

闻听法王、智者坚战之言,莲花眼者望着财种(阿周那)说道。

5.151.40

ममाप्येते महाराज भवद्भिर्य उदाहृताः ।
नेतारस्तव सेनाया मता विक्रान्तयोधिनः ॥ ५.१५१.४० ॥

大王,您所提及的诸人,我亦以为可;他们被视为您军的统帅,勇猛的战士。

5.151.41

सर्व एव समर्था हि तव शत्रुं प्रबाधितुम् ।
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ॥ ५.१५१.४१ ॥

他们皆有能力压制您的敌人;在这场大战中,他们甚至能使因陀罗也生畏。

5.151.42

किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ।
मयापि हि महाबाहो त्वत्प्रियार्थं महाहवे ॥ ५.१५१.४२ ॥

何况那贪婪、心怀恶意的持国之子!大臂者啊,为了您的喜悦,我亦在那场大战中。

5.151.43

कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ।
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥ ५.१५१.४३ ॥

婆罗多的后裔啊,那里曾做出巨大努力以求和平。对法的债务已经偿清;不应指责那些愿意发言的人。

5.151.44

कृतार्थं मन्यते बाल आत्मनमविचक्षणः ।
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः ॥ ५.१५१.४४ ॥

无智的持国之子自以为已经成功;他心神烦乱,却看见自己依恃着力量而立。

5.151.45

युज्यतां वाहिनी साधु वधसाध्या हि मे मताः ।
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥ ५.१५१.४५ ॥

让军队妥善列阵吧;我认为这些目标只能通过杀戮来达成。持国之子见到财富征服者(阿周那)时将无法站立。

5.151.46

भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ ।
युयुधानं द्वितीयं च धृष्टद्युम्नममर्षणम् ॥ ५.१५१.४६ ॥

愤怒的毗摩色那;如阎摩般的双生子;第二位尤尤陀那;以及不能容忍的猛光。

5.151.47

अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि ।
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्भीमविक्रमान् ॥ ५.१५१.४७ ॥

阿毗曼often、德劳帕蒂之子、毗罗吒与德鲁波陀,以及其他统领阿刹诃尼的君王,他们有可怖的勇力。

5.151.48

सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् ।
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः ॥ ५.१५१.४८ ॥

我方之军强大,难以攻破,难以接近;在战场上它必将消灭持国之子的军队,此事毫无疑问。

5.151.49

धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम ।
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः ॥ ५.१५१.४९ ॥

啊,降伏敌人者!我认为德里什塔笃姆那应为军队统帅。黑天如此说后,众人中的俊杰们甚为欢喜。

5.151.50

तेषां प्रहृष्टमनसां नादः समभवन्महान् ।
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ॥ ५.१५१.५० ॥

那些心中欢喜的人发出巨大的呼声;奔跑疾行的军队齐呼:“瑜伽!瑜伽!”

5.151.51

हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः ।
शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन् ॥ ५.१५१.५१ ॥

马与象的嘶鸣,战车轮辋的隆隆声,以及螺号和鼓的轰鸣,四面八方汇成一片喧嚣。

5.151.52

तद्रुग्रं सागरनिभं क्षुब्धं बलसमागमम् ।
रथपत्तिगजोदयं महोर्मिभिरिवाकुलम् ॥ ५.१५१.५२ ॥

这支可怕的大军会合之处如大海般翻腾,战车、步兵与象群涌起,宛如被巨浪所冲击。

5.151.53

धावतामाहुयानानां तनुत्राणि च बध्नताम् ।
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ॥ ५.१५१.५३ ॥

奔跑之人、相互呼唤之人、系缚铠甲之人,以及即将出发的般度之子与他们的军队,四面八方皆是。

5.151.54

गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ।
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ॥ ५.१५१.५४ ॥

这支大军如恒河般充盈而难以抵挡;阵前站着怖军与摩德丽的两个儿子,披甲待命。

5.151.55

सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नस्य पार्षतः ।
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः ॥ ५.१५१.५५ ॥

娑菩陀罗之子、德罗波蒂之子、德立什塔衍尼之子般沙塔、普罗跋陀迦与般遮罗人,以毗摩先那为首出发了。

5.151.56

ततः शब्दः समभवत्सुमुद्रस्येव पर्वणि । ॥ ५.१५१.५६ ॥

此时,犹如满月之时大海的怒吼,一阵喧声升起。

5.151.59

फल्गु यच्चं बलं किंचिद्यच्चापि कृशदुर्बलम् ।
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥ ५.१५१.५९ ॥

国王把所有少量而孱弱的兵力集合起来出发了,随从的侍者也一同前往。

5.151.60

उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी ।
सह स्त्रीभिर्निनवृते दासीदाससमावृता ॥ ५.१५१.६० ॥

然而在优帕普拉维亚,言语诚实的般遮罗公主德罗波蒂与众女眷一同返回,被男女仆役环绕。

5.151.61

कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः ।
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥ ५.१५१.६१ ॥

安排好后方的守卫,以固定与流动的哨所及庞大的营地,般度之子出发了。

5.151.62

ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः ।
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥ ५.१५१.६२ ॥

施舍牛与黄金,被婆罗门环绕,受人赞颂,大王啊,他们乘着饰以宝石的战车出发了。

5.151.63

केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः ।
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥ ५.१५१.६३ ॥

车柯人、持护王、迦尸王之子无敌者、室利能曼、婆苏陀那、尸康propsilon(尸康底)以及不败者阿波罗耆多。

5.151.64

हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः ।
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥ ५.१५१.६४ ॥

众人欢喜满足,披甲持械,装饰整齐,皆围绕坚战而随行。

5.151.65

जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः ।
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥ ५.१५१.६५ ॥

后部有毗罗吒、祀那之子、苏摩迦之子、苏达摩、军底菩阇,以及猛光的诸子。

5.151.66

रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा ।
पत्तिसैन्यं दशगुणं गजानामयुतानि षट् ॥ ५.१५१.६६ ॥

战车四阿由多,马匹为其五倍,步兵为其十倍,象六阿由多。

5.151.67

अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः ।
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥ ५.१५१.६७ ॥

无败、遮企陀那、持护王与萨谛耶吉皆前行,环绕婆苏提婆与财胜。

5.151.68

आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः ।
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥ ५.१५१.६८ ॥

到达俱卢之野,列阵之军的般度诸子持械而战,如公牛般吼叫而出现。

5.151.69

तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः ।
तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ ॥ ५.१५१.६९ ॥

众敌克星进入俱卢之野,吹响海螺;同样,婆苏提婆与达那阁耶也吹响了海螺。

5.151.70

पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वसैन्यानि समहष्यन्त सर्वशः ॥ ५.१५१.७० ॥

众军听到般遮尼亚海螺的轰鸣,如霹雳炸裂,便从四面八方欢欣鼓舞。

5.151.71

शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥ ५.१५१.७१ ॥

迅捷勇士闻螺声与鼓声而振奋,发出狮子般的吼声,使大地、天空与海洋都回荡起来。