Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.158

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.158.1

एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः ।
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ॥ ५.१५८.१ ॥

就在此时,大德的毗湿摩迦王,金色体毛的国王,正是因陀罗的挚友。

5.158.2

आकूतीनामधिपतिर्भोजस्यातियशस्विनः ।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥ ५.१५८.२ ॥

阿俱底之主,大名鼎鼎的婆闍之子,南方之主的儿子,名为罗致弥,闻名四方。

5.158.3

यः किंपुरुषसिंहस्य गन्धमादनवासिनः ।
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान् ॥ ५.१५८.३ ॥

他作为金刚人中的狮子、居住在香醉山的上师的弟子,获得了完整的射箭术及其四个部分。

5.158.4

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा ।
शार्ङ्गेण च महाबाहुः संमितं दिव्यलक्षणम् ॥ ५.१५८.४ ॥

那大臂者获得了与甘底拔之光相等的摩醯因陀罗之弓,以及与沙阇迦相等、具有神圣标志的弓。

5.158.5

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् ।
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ।
शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ॥ ५.१५८.५ ॥

这三张神弓属于天界行者:伐楼那的甘底拔,那里的因陀罗之弓胜利(毗阇耶),而沙阇迦被称为毗湿奴之弓,是由光明构成的神弓。

5.158.6

धारयामास तत्कृष्णः परसेनाभयावहम् ।
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ॥ ५.१५८.६ ॥

克利须那持有那张能使敌军恐惧的弓。在卡文达哇林中,因陀罗之子从火神那里获得了甘底拔。

5.158.7

द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ।
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा ॥ ५.१५८.७ ॥

光辉伟大的鲁克弥从树上获得胜利;斩断毛罗婆的绳索,以力量杀死了穆罗。

5.158.8

निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ।
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ॥ ५.१५८.८ ॥

征服大地之子那罗迦后,他带回了宝石耳环、一万六千名女子和各种珠宝。

5.158.9

प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ।
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ॥ ५.१५८.९ ॥

希利史克舍获得了上等的沙尔迦弓;鲁克弥获胜后,取得了一张声如乌云的弓。

5.158.10

विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ।
नामृष्यत पुरा योऽसौ स्वबाहुलगर्वितः ॥ ५.१५८.१० ॥

仿佛要惊吓世界,他向般度之子进逼;他先前因自己臂力的骄傲,不能忍受……

5.158.11

रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ।
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ॥ ५.१५८.११ ॥

在罗克弥尼被劫走时,那位英雄对智慧的婆苏提婆立下誓言:“不杀死遮那陀那,我不回去。”

5.158.12

ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः ।
सेनया चतुरङ्गिण्या महत्या दूरपातया ॥ ५.१५८.१२ ॥

于是,那位最善用兵器者率领远播的庞大四军,追赶这位弗利尼的后裔。

5.158.13

विचित्रायुधवर्मिण्या गङ्ग्येव प्रवृद्धया ।
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ॥ ५.१५८.१३ ॥

他率领着装备各式兵器与甲胄、如涨水的恒河般庞大的军队,来到了瑜伽之主、至高者伐尔什涅亚面前。

5.158.14

व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ।
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ॥ ५.१५८.१४ ॥

国王啊,他蒙羞而惭愧,回到了曲丁那,正是在那里,他在战斗中被黑天击败;这位杀敌英雄的猛将。

5.158.15

तत्र भोजकटं नाम कृतं नगरमुत्तमम् ।
सैन्येन महता तेन प्रभूतगजवाजिना ॥ ५.१५८.१५ ॥

他在那里建立了一座名为婆诃迦吒的殊胜城市,他的庞大军队中有大量象与马。

5.158.16

पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ।
स भोजराजः सैन्येन महता परिवारितः ॥ ५.१५८.१६ ॥

那座城市以婆诃迦吒之名闻名于世。国王啊,那位婆阇王被庞大的军队所包围。

5.158.17

अक्षौहिण्या महावीर्यः पाण्डवान्क्षिप्रमागमत् ।
ततः स कवची धन्वी तली खङ्गी शरासनी ॥ ५.१५८.१७ ॥

这位大力者率领一支阿克绍西尼军队,迅速来到般遮兄弟面前。那时他身披铠甲,持弓,戴着护手,佩剑,带着弓与箭,……

5.158.18

रथेनादित्यवर्णेन प्रविवेश महाचमूम् ।
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ॥ ५.१५८.१८ ॥

他乘坐如太阳般颜色的战车,进入了那支大军;为般度之子所熟知,他想讨好伐苏提婆。

5.158.19

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ।
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ॥ ५.१५८.१९ ॥

然而国王坚战迎上前去,向他致敬。他受到般度之子依礼的敬重,并受到充分的赞颂,……

5.158.20

प्रतिगृह्य तु तान्सर्वान्विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥ ५.१५८.२० ॥

他接纳了他们所有人,与部众一同休息之后,在众英雄之中对贡蒂之子持财(阿周那)说道……

5.158.21

सहायोस्मि स्थितो युद्धे यदि भीतोसि पाण्डव ।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥ ५.१५८.२१ ॥

般度之子啊,若你畏惧,我便站在战场上做你的助手。在战斗中,我将给予你令敌人难以忍受的相助。

5.158.22

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन ।
हनिष्यामिरणे भागं यन्मे दास्यसि पाण्डव ॥ ५.१५८.२२ ॥

此地无人在勇武上与我相等。般度之子啊,你交给我的那份,我将在战斗中将其摧毁。

5.158.23

अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः ।
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः ॥ ५.१५८.२३ ॥

无论是英雄德罗纳与克利巴,或是毗湿摩与迦尔纳,又或是这些地上的君主全都站立在那里。

5.158.24

निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् ।
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ ॥ ५.१५८.२४ ॥

我在战斗中杀尽敌人,便将大地交给你。他在法王与克里希纳面前如此说道。

5.158.25

श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ।
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्।
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥ ५.१५८.२५ ॥

诸王及其余众人皆在倾听之时,智慧的贡蒂之子看着婆苏提婆与法王般的般度之子,微笑着友好地说道。

5.158.26

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ ५.१५८.२६ ॥

英雄啊,当我在牛栏远征中与极其强大的乾闼婆作战时,谁是我的助手和朋友?

5.158.27

तथा प्रतिभये तस्मिन्देवदानवसंकुले ।
खाण्डवे युध्यमानस्य कः सहायस्तदावभवत् ॥ ५.१५८.२७ ॥

同样,在那充满天神与阿修罗的可怖的康达瓦林中作战时,谁成为了我的助手?

5.158.28

निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥ ५.१५८.२८ ॥

在与尼婆多迦婆迦、迦拉柯耶与檀那婆的战斗中,我在那里作战时,谁成为了我的助手?

5.158.29

तथा विराटनगरे कुरुभिः सह सङ्गरे ।
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ॥ ५.१५८.२९ ॥

同样,在毗罗吒城与俱卢人的冲突中,我在那里与众多敌人作战,谁是我的助手?

5.158.30

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥ ५.१५८.३० ॥

在战斗中依靠楼陀罗、因陀罗、毗沙罗婆那、阎摩、伐楼那与阿耆尼,以及克利巴、德罗纳和摩陀婆。

5.158.31

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥ ५.१५८.३१ ॥

手持神圣、光耀而坚韧的甘狄拔神弓,备有取之不尽的箭矢,并具足天界神兵。

5.158.32

कौरवामां कुले जातः पाण्डोः पुत्रो विशेषतः ।
द्रोणं व्यपदिशञ्छिष्यो वासुदेवसहायवान् ॥ ५.१५८.३२ ॥

生于俱卢族中,尤其是般度之子,自称德罗纳的弟子,以婆苏提婆为助力。

5.158.33

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् ।
वचनं नरशार्दूल वज्रायुधसमस्वनम् ॥ ५.१५८.३३ ॥

像我们这样的人,怎能说出“我害怕”这种损害名誉的话呢?人中猛虎啊,这言辞如金刚杵之声。

5.158.34

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।
यथाकामं यथायोगं गच्छ वात्रैव तिष्ठ वा ॥ ५.१५८.३४ ॥

大臂者啊,我并不畏惧,也不需要助力。你愿意如何、适宜如何便如何行事——去也好,留在这里也好。

5.158.35

तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः ।
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥ ५.१५८.३५ ॥

闻听那位智者毗阁耶之言,鲁克弥撤回如大海般的军队,婆罗多之牛啊,便前往难敌那里。

5.158.36

तथैव चाभिगम्यैनमुवाच वसुधाधिपः ।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥ ५.१५८.३६ ॥

同样,那位大地之主走近他说话;而那自诩为勇士的人,当时也拒绝了他。

5.158.37

द्वावेव तु महाराज तस्माद्युद्धादपेयतुः ।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ॥ ५.१५८.३७ ॥

大王,从那场战斗中只有两人退出:罗希尼之子,毗湿尼之后,还有鲁克明,哦,大地之主。

5.158.38

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा ।
उपाविशन्पाण्डवेया मन्त्राय पुनरेव च ॥ ५.१५८.३८ ॥

罗摩去朝圣之后,毗湿摩迦之子也离去,般度的儿子们便再次坐下商议。

5.158.39

समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ॥ ५.१५८.३९ ॥

法王的集会,王者济济,婆罗多啊,它光彩夺目,如同群星点缀的天空与明月相映。