摩诃婆罗多 · 章 5.159
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.159.1
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।
किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ॥ ५.१५९.१ ॥
当军队在俱卢之野列阵之时,哦,婆罗门中最优秀者,被时间驱使的俱卢人做了什么?
5.159.2
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ ।
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥ ५.१५९.२ ॥
哦,婆罗多族的雄牛,当军队如此列阵备战时,大王持国对全阁说出了这些话。
5.159.3
एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः ।
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥ ५.१५९.३ ॥
来吧,全阁,把俱卢族与般度族两军营寨中发生的一切毫无遗漏地告诉我。
5.159.4
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।
यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान् ॥ ५.१५९.४ ॥
我认为天命才是至高无上的,人的努力也是徒劳的;尽管我知道战争的弊端、它的毁灭与兴起,
5.159.5
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥ ५.१५९.५ ॥
然而,我既无法约束我那心怀诡诈、沉迷恶劣博戏的儿子,也无法为他自身的利益做些什么。
5.159.6
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।
दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥ ५.१५९.६ ॥
御者啊,我的心的确能看见过失;可一旦走近难敌,它又会转变回去。
5.159.7
एवं गते वै यद्भावि तद्भविष्यति सञ्जय ।
क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः ॥ ५.१५९.७ ॥
既已如此,将来之事必将发生,桑阇耶啊。在战场上舍弃身体,被尊为刹帝利之法。
5.159.8
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि ।
न तु दुर्योधने दोषमिममाधातुमर्हसि ॥ ५.१५९.८ ॥
大王,您的这个问题与您相称,请随意询问。但您不应将此过错加在难敌身上。
5.159.9
शृणुष्वानवशेषेण वदतो मम पार्थिव ।
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देवानेनसा गन्तुमर्हति ॥ ५.१५९.९ ॥
大王,请完整听我说。因自身的恶行而得到不祥之人,不应归咎于时间或诸神。
5.159.10
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ ५.१५९.१० ॥
大王,在人群中行一切可鄙之事、作可耻之举的人,应被全世界所诛。
5.159.11
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥ ५.१५९.११ ॥
人中之雄,般度族等待您,与大臣们一起,在赌博中被欺骗而战败,忍受了屈辱。
5.159.12
हयानां च गजानां च राज्ञां चामिततेजसाम् ।
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥ ५.१५९.१२ ॥
请详细听我讲述战场上马匹、大象和威光无量的诸王所遭受的屠杀,一切所发生的事。
5.159.13
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम् ।
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ॥ ५.१५९.१३ ॥
大智者啊,请保持坚定,听闻大战中诸世界的衰亡与兴起如实发生的经过;听后不要心生沮丧。
5.159.14
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥ ५.१५९.१४ ॥
实际上,人并非善恶行为的真正作者;人不是自主的,他被驱使行动,如同木偶一般。
5.159.15
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया ।
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते।
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ॥ ५.१५९.१५ ॥
有的由自在天安排,有的纯属偶然,有的则由前世业行所致;这可见于三种情形。因此,你既已陷入灾祸,请保持坚定,听着。