摩诃婆罗多 · 章 5.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.16.1
त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट् ।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ॥ ५.१६.१ ॥
啊,火神,你是诸神的首要之口,你是承载祭品者。隐藏于一切众生之内,你如见证者般行走。
5.16.2
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः ।
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥ ५.१६.२ ॥
智者称你为一,又称你为三重。啊,胡陀舍那,若你舍弃此世界,它将立刻毁灭。
5.16.3
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् ।
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ ५.१६.३ ॥
向你致敬之后,婆罗门们与妻子、儿子一同,前往由自身业行所赢得的永恒归宿。
5.16.4
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः ।
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरैः ॥ ५.१६.४ ॥
啊,火神,唯有你是承载祭品者,唯有你是至上的祭品。人们以长期的祭祀仪式、至高的礼仪和祭礼,唯独供奉你。
5.16.5
सृष्ट्वा लोकांस्त्रीमिमान्हव्यवाह ।
प्राप्ते काले पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्रे भवसि पुनः प्रतिष्ठा ॥ ५.१६.५ ॥
啊,承载祭品者,你创造了这三界,待到适当时机,你再次燃烧,将它们烹煮。你是整个世界的根源;在起初是你,而再次成为根基的也是你。
5.16.6
त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः ।
वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ॥ ५.१६.६ ॥
啊,火神,智者称你为赐水者与闪电。从你之中射出的雷电,承载着一切众生。
5.16.7
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् ।
न तेऽस्त्यविदितं किचित्रिषु लोकेषु पावक ॥ ५.१६.७ ॥
哦,波陀迦(火神),一切水都安置于你之中,这整个世界也在你之中。三界之中,没有你所不知的事物。
5.16.8
स्वयोर्नि भजते सर्वो विशस्वापोऽविशङ्कितः ।
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥ ५.१६.८ ॥
每个人都毫无畏惧地进入自己的水中。我将以婆罗门的永恒咒语使你增长。
5.16.9
एवं स्तुतो हव्यवाट् स भगवान्कविरुत्तमः ।
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्।
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥ ५.१६.९ ॥
受此赞颂,那持献祭之物者、世尊、至上智者欢喜地对brhaspati说了这些殊胜的话:我将把因陀罗展示给你;这是真实的,我告诉你。
5.16.10
प्रविष्यापस्ततो वह्निः ससमुद्राः सपल्वलाः ।
आससाद सरस्तच्च गूढो यत्र शतक्रतुः ॥ ५.१६.१० ॥
然后,火神连同海洋与池沼一同进入水中,到达了那湖泊,隐藏其中的百祭主因陀罗便在那里。
5.16.11
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ ।
अपश्यत्स तु देवेन्द्रं बिसमध्यगतं तदा ॥ ५.१६.११ ॥
在那里,他寻找莲花时,婆罗多族的雄牛啊,便看见了诸神之主,他已隐入一根莲茎之中。
5.16.12
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः ।
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥ ५.१६.१२ ॥
随后,他急速前来,告诉brhaspati那位主宰以如原子般微小的身躯,栖身于莲丝之中。
5.16.13
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः ।
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥ ५.१६.१३ ॥
布利哈斯帕蒂与神仙圣人和乾闼婆一同前往,以古代的功绩赞颂了杀伐跋罗的天神。
5.16.14
महाऽसुरो हतः शक्र नमुचिर्दारुणस्त्वया ।
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥ ५.१६.१४ ॥
帝释啊,你杀死了巨大的阿修罗、残暴的那穆奇,还有威力可怖的商跋罗和跋罗,二者皆然。
5.16.15
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय ।
उत्तिष्ठ शक्र संपश्य देवर्षीश्च समागतान् ॥ ५.१६.१५ ॥
百祭者啊,壮大起来,消灭一切敌人。帝释啊,起身,看看前来聚集的神仙圣人吧。
5.16.16
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो ।
अपां फेनं समासाद्य विष्णुतेजोतिबृंहितम्।
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥ ५.१६.१६ ॥
伟大的因陀罗啊,你杀死了檀那婆,保护了诸界。威力无边者啊,你借着毗湿奴之光大增的水沫之力,先前杀死了弗栗多。诸天之王,世界之主啊!
5.16.17
त्वं सर्वभूतेषु शरण्य ईड्य-
स्त्वया समं विद्यते नेह भूतम्।
त्वया धार्यन्ते सर्वभूतानि शक्र ।
त्वं देवानां महिमानं चकर्थ ॥ ५.१६.१७ ॥
你是一切众生的皈依,值得赞颂。这里没有与你相等的生灵。帝释啊,一切众生都由你所维系。你使诸天的荣耀得以增长。
5.16.18
पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि ।
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥ ५.१६.१८ ॥
伟大的因陀罗啊,请保护一切世界,获得力量。如此被赞颂,他便渐渐地壮大起来。
5.16.19
स्वं चैव वपुरास्थाय बभूव स बलान्वितः ।
अब्रवीच्च गुरं देवो बृहस्पतिमवस्थितम् ॥ ५.१६.१९ ॥
他重新获得自己的身体,变得强大;天神对站在一旁的导师布利哈斯帕蒂说道。
5.16.20
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः ।
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत् ॥ ५.१६.२० ॥
你们还有什么事情未完成?特瓦什特里之子、伟大的阿修罗,以及身躯巨大、曾毁灭诸界的弗栗多,已被杀死。
5.16.21
बृहस्पतिरुवाच ।
मानुषो नहुषो राजा देवर्षिगणतेजसा।
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥ ५.१६.२१ ॥
凡人国王那呼沙凭借诸神与仙人群的光辉,获得了天神的王位,并极大地压迫着我们所有人。
5.16.22
कथं च नहुषो राज्यं देवानां प्राप दुर्लभम् ।
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ।
तत्सर्वं कथय त्वं मे यथेन्द्रत्वमुपेयिवान् ॥ ५.१६.२२ ॥
那呼沙是如何获得这难得的天神王位的?他凭借何种苦行,或具备何种威力?布利哈斯帕蒂啊,把他如何获得因陀罗之位的经过全部告诉我。
5.16.23
बृहस्पतिरुवाच ।
त्वयि प्रनष्टे देवेश विश्वं प्रव्यथितं जगत्।
परस्परभयोद्विग्नं बभूवार्तमराजकम् ॥ ५.१६.२३ ॥
天神之主啊,你失踪之后,整个世界极为痛苦;因彼此的恐惧而惶恐不安,它陷入苦难,失去了君王。
5.16.24
ततो देवैः सगन्धर्वैः सर्षिसङ्घैः सपावकैः ।
मानुषो नहुषो राजा देवराज्येऽभिषेचितः ॥ ५.१६.२४ ॥
于是,在诸神、乾闼婆、仙人群与火神的共同见证下,凡人国王那呼沙在天神之国被灌顶为王。
5.16.25
देवा भीताः शक्रमकामयन्त ।
त्वया त्यक्तं महदैन्द्रं पदं तत्।
तदा देवाः पितरोऽथर्षयश्च ।
गन्धर्वमुख्याश्च समेत्य सर्वे ॥ ५.१६.२५ ॥
众天神因恐惧而渴望因陀罗。你已放弃了那伟大的因陀罗之位。于是诸天神、祖灵、仙人和主要的乾闼婆全都聚集而来。
5.16.26
गत्वाऽब्रुवन्नहुषं तत्र शक्र ।
त्वं नो राजा भव भुवनस्य गोप्ता।
तानब्रवीन्नहुषो नास्मि शक्त ।
आप्यायध्वं तपसा तेजसा माम् ॥ ५.१६.२६ ॥
他们前去对那诃沙说:『因陀罗啊,请你做我们的国王,成为世界的守护者。』那诃沙对他们说:『我不能胜任;请以苦行与光明增强我吧。』
5.16.27
एवमुक्तैर्वर्द्धितश्चापि देवै ।
राजाऽभवन्नहुषो घोरवीर्यः।
त्रैलोक्ये च प्राप्य राज्यं महर्षी-
न्कृत्वा वाहान्याति लोकान्दुरात्मा ॥ ५.१६.२७ ॥
如此经诸天神劝说与扶助,具有可怖威力的那诃沙成为国王。获得三界之王位后,这个恶念之人让大仙人充当车乘,巡行诸界。
5.16.28
तेजोहरं दृष्टिविषं सुघोरं ।
मा त्वं पश्येर्नहुषं वै कदाचित्।
देवाश्च सर्वे नहुषं भृशार्ता ।
न पश्यन्ते गूढरूपाश्चरन्तः ॥ ५.१६.२८ ॥
『你切不可望见那诃沙;他的目光如毒,夺人光明,极为可怖。』诸天神因那诃沙而极为苦恼,以隐秘之形游行,不敢正视他。
5.16.29
एवं वदत्यङ्गिरसां वरिष्ठे ।
बृहस्पतौ लोकपालः कुबेरः।
वैवस्वतश्चैव यमः पुराणो ।
दवेश्च सोमो वरुणश्चाजगाम ॥ ५.१६.२९ ॥
当安吉罗之中最杰出的brihaspati如此说时,护世者俱毗罗、古老的毗婆娑之子阎摩、诸天之主月神、以及水神伐楼那也都来了。
5.16.30
ते वै समागम्य महेन्द्रमूचु-
र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः।
दिष्ट्या च त्वां कुशलिनमक्षतं च ।
पश्यामो वै निहतारिं च शक्र ॥ ५.१६.३० ॥
他们聚集到摩亨德罗面前说:幸而特瓦史塔之子弗栗多已被杀;幸而我们看到您安然无恙、毫发未伤;帝释啊,我们看到您的敌人已被杀死。
5.16.31
स तान्यथावच्च हि लोकपाला-
न्समेत्स वै प्रीतमना महेन्द्रः।
उवाच चैनान्प्रतिभाष्य शक्रः ।
संचोदयिष्यन्नहुषस्यान्तरेण ॥ ५.१६.३१ ॥
与诸世界护持者依礼相会之后,心怀喜悦的大因陀罗对他们说话,想要就那诃沙之事催促他们,说道:
5.16.32
राजा देवानां नहुषो घोररूप-
स्तत्र साह्यं दीयतां मे भवद्भिः ।
ते चाब्रुवन्नहुषो घोररूपो ।
दृष्टीविषस्तस्य बिभीम ईश ॥ ५.१६.३२ ॥
诸神之王那诃沙相貌可怖;愿你们在那里给我援助。他们回答说:那相貌可怖、目光如毒的那诃沙,主啊,我们害怕他。
5.16.33
त्वं चेद्राजानं नहुषं पराजये-
स्ततो वयं भागमर्हाम शक्र।
इन्द्रोऽब्रवीद्भवतु भवानपां पति-
र्यमः कुबेरश्च मयाभिषेकम् ॥ ५.१६.३३ ॥
若你击败国王那诃沙,那么,帝释啊,我们应得一份。因陀罗说:愿你成为水之主;愿阎摩与俱毗罗由我灌顶。
5.16.35
चेन्द्राग्न्योर्वै भाग एको महाक्रतौ ।
शल्य उवाच।
एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः ।
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥ ५.१६.३५ ॥
因陀罗与阿耆尼在大祭中共享一份。沙利耶说:如此思量之后,尊贵的大因陀罗、波迦沙赏,同样(任命)了俱毗罗,他是一切夜叉与财富之主。
5.16.36
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा ।
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तथा ॥ ५.१६.३६ ॥
赐福者因林达以礼相待,将祖灵之主权授予毗婆刹多之子阎摩,同样将水之主权授予伐楼那。